०७७ पुष्पदन्तेश्वरमाहात्म्यवर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
सप्तसप्ततिकं देवि पुष्पदन्तेश्वरं शृणु ॥
यस्य दर्शनमात्रेण गर्भवासो न जायते ॥ १ ॥
शिनिर्नाम द्विजो देवि स चापुत्रोऽभवत्पुरा ॥
पुत्रार्थं चिन्तयामास स तपांसि बहूनि ह ॥ २ ॥
वायुभक्षोंऽबुभक्षश्च निराहारोर्ध्वबाहुकः ॥
शाकमूलफलाहारः पर्णाश्येकद्वि पर्णभुक् ॥ ३ ॥
एवमादीनि चान्यानि तपांसि श्रेयसे परम् ॥
एतेषां तपसां मध्ये तप एकं समाश्रये ॥ ४ ॥
परं विघ्नोपशान्त्यर्थं तोषयिष्येऽहमी श्वरम् ॥
एवं सञ्चिन्त्य मनसा ऊर्ध्वबाहूर्ध्वपादकः ॥
आभ्यां न स दुरासाद्यो नापराधो भविष्यति ॥ ५ ॥
तथा चकार स मुनिर्वर्षाणां द्वादशैव हि ॥
तपस्यन्तं च तं दृष्ट्वा नियमे परमे स्थितम् ॥ ६ ॥
विज्ञप्तोहं त्वया देवि मन्दरे चारुकन्दरे ॥
करोत्येष तपः क्रूरं पुत्रहेतोर्मुनिर्म हान् ॥ ७ ॥
तेजसा दीपयच्छैलं शोषयन्सलिलाशयान् ॥
तपसा दुष्करेणैव क्षुभिता नाकवासिनः ॥ ८ ॥
व्यालेन्द्रा व्याकुलीभूता लुलिताश्चाचलेश्वराः ॥
मुनयो विस्मृतिं प्राप्ताः कम्पेते चापि रोदसी ॥ ९ ॥
अयोनिजः शिनिर्विप्रः पुत्रमिच्छत्ययोनिजम् ॥
त्वं योनिर्गुणसङ्घानां त्वं योनिस्तपसामपि ॥ 5.2.77.१० ॥
त्वं तपस्त्वं परं धाम शिखिचन्द्रार्कलोचन ॥
सर्वेश्वर सुतोऽभीष्टः किं न विप्राय दीयते ॥ ११ ॥
सुरासुरगुरो किं न पुत्रमस्मै प्रयच्छसि ॥
तपसा क्षीणदोषस्य ब्रह्मत्वे भावितात्मनः ॥ १२ ॥
शिनेः पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव ॥
तपसा दुष्करेणैव गाढं क्लिष्टो महामुनिः ॥ १३ ॥
तेजांसि ज्योतिषामेव महतां च विधिस्थितः ॥
अहरत्तेजसा स्वेन तमांसीव दिवाकरः ॥ १४ ॥
त्वद्भक्तस्य च देवेश व्यर्थः कस्मात्परिश्रमः ॥
उदितेऽर्के तमांसीह न भवन्ति कदाचन ॥ १५ ॥
त्वत्परस्य न देवश युक्ता दुःखविभीषिका ॥
इत्यहं प्रार्थितो देवि त्वया पर्वतपुत्रिके ॥ १६ ॥
विप्रार्थमनुकम्पार्थं पुत्रार्थं च विशेषतः ॥
आकारिता मया देवि गणास्त्व द्गौरवेण तु ॥ १७ ॥
रुद्राश्च हरभक्ताश्च कूष्माण्डा गगनेचराः ॥
रोमरौद्रा महानीलाः शिखावन्तः सकोकिलाः ॥ १८ ॥
अन्ये च विविधाकाराः कालास्या हरिपिङ्गलाः ॥
जटाजूटधराश्चित्रा वीथिनक्षत्रचारिणः ॥ १९ ॥
नीलग्रीवा कृष्णमुखाः पिङ्गधौतजटासटाः ॥
ज्वरो डिण्डिर्महाकालो लाङ्गुलिश्च महेश्वरः ॥ 5.2.77.२० ॥
घण्टाकर्णो विशाखश्च परिशेषा गणाश्च ये ॥
वृषारूढाः कामतुल्याः कामरूपबलास्तथा ॥ २१ ॥
शूलचन्द्रधराः सर्वे सर्वे तुल्यपराक्रमाः ॥
ममादेशात्समायाताः कृताञ्जलिपुटाः स्थिताः ॥ २२ ॥
स्तुवन्तो विविधैः स्तोत्रैरूचुरेवं समाहिताः ॥
किं कर्त्तव्यमिहास्माभिरादेशो दीयतां प्रभो ॥ २३ ॥
गणानां वचनं श्रुत्वा ज्ञात्वा भक्तिं च तादृशीम् ॥
महातपःप्रभावोऽयं शिनिविप्रस्य कीर्त्तितः ॥ २४ ॥
पुत्रार्थं तप्यति तपः शिनिर्ब्राह्मणसत्तमः ॥
मद्वाक्यात्को नु विप्रस्य पुत्रत्वं सम्प्रदास्यति ॥ २५ ॥
तस्याहं सम्प्रदास्यामि सर्वान्कामा न्यथेप्सितान् ॥
अमरं चाजरं पुत्रं मुनिर्वाञ्छति साम्प्रतम् ॥ २६ ॥
मद्वाक्यं क्रियतां सद्यो विप्रः क्लेशाद्विमुच्यताम्॥
मद्भक्तस्य न सङ्कल्पो मिथ्या भवितुमर्हति॥ २७ ॥
मदीयं वचनं श्रुत्वा सर्वे कम्पितकन्धराः ॥
सर्वे चावाङ्मुखा जाताः सर्वे ध्यानपरायणाः ॥ २८ ॥
न कश्चिद्भाषते किञ्चिन्न कश्चिद्वीक्षते तदा ॥
अथोक्तं पुष्पदन्तेन रभसान्मानितेन तु ॥ २९ ॥
मम चित्तमविज्ञाय गणानामनुकम्पया ॥
न यास्यन्ति गणा देव त्वां विहाय महीतलम् ॥ 5.2.77.३० ॥
इह स्थास्यन्ति सततं त्वत्समीपे न संशयः ॥
कथं योनिं प्रयास्यन्ति सम्प्राप्य मुदमुत्तमाम् ॥ ३१ ॥
हीनां रजोऽधिकां दीनां तमोबहुलधारिणीम् ॥
कथं स्वर्गं परित्यज्य यास्यामो नरकं परम् ॥ ३२ ॥
ब्रुवन्नेवं भ्रमेणैव भाव्यर्थेन प्रणोदितः ॥
उक्तो मया विशालाक्षि पुष्पदन्तो गणाग्रणीः ॥ ३३ ॥
पत त्वं मानुषे लोके यस्मान्मे विप्रियं कृतम् ॥
शप्त्वा तं पुष्पदन्तं तु वीरकः प्रेरितो मया ॥ ॥ ३४ ॥
विप्रस्य पुत्रतां तूर्णं पुत्र गच्छ ममाज्ञया ॥
ततस्ते सम्प्रदास्यामि सर्वान्कामान्यथेप्सितान् ॥ ३५ ॥
इत्युक्तो वीरको देवि गतो विप्रस्य पुत्रताम् ॥
पुष्पदन्तोऽपि करुणं विललाप सुदुःखितः ॥ ३६ ॥
पश्चात्तापेन संयुक्तो निश्वस्य च पुनःपुनः ॥
अहो तत्सफलं जन्म यदाज्ञा क्रियते नरैः ॥ ३७ ॥
प्रभूणामेकचित्तेन ते भृत्या दुर्लभाः स्मृताः ॥
तेषामर्थश्च धर्मश्च कुलं चैव च तारितम् ॥ ३८ ॥
प्रसन्नास्त्रिदशास्तेषां प्रभु भक्ताश्च ये नराः ॥
सेवाधर्मो हि गहनो योगिनामपि दुष्करः ॥ ३९ ॥
न ज्ञेयः केन तत्त्वेन दुराराध्यः प्रभुर्भवेत् ॥
एकेनाप्यपराधेन प्रकोपं कुरुते प्रभुः ॥ 5.2.77.४० ॥
विनश्यन्त्युपकाराणि तस्मात्सेवा सुदुष्करा ॥
स्वामी सर्पश्च वह्निश्च तप्तभावं व्रजन्ति हि ॥ ४१ ॥
तस्माद्यत्नेन संसेव्या आत्मरक्षणतत्परैः ॥
सोऽहं भूमौ निपतितः प्रभोरादेशभञ्जकः ॥ ४२ ॥
कांस्तु लोकान्गमिष्यामि कलुषी भूणहा इव ॥
एवं विलप्य बहुशो मामेव शरणं गतः ॥
उवाच दीनया वाचा प्रणिपत्य पुनःपुनः ॥ ४३ ॥
दीनोऽस्मि ज्ञानहीनोऽस्मि प्रणतोऽस्मि च शङ्कर ॥
कुरु प्रसादं देवेश अपराधं क्षमस्व मे ॥ ४४ ॥
न हि निर्वहणं यान्ति प्रभूणामाश्रिता रुषः ॥
प्रसीद देवदेवेश दीनस्य कृपणस्य च ॥ ४५ ॥
अपि कीट पतङ्गत्वं गच्छेयं तव शासनात ॥
भक्तोहं सर्वदा देव पुत्रत्वे हि प्रतिष्ठितः ॥ ४६ ॥
इति तस्य वचः श्रुत्वा पुष्पदन्तस्य पार्वति ॥
ममत्वेन तदा देवि प्रोक्तमित्थं त्वया वचः ॥ ४७ ॥
गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ॥
लिङ्गमाराधय क्षिप्रं तत्त्वन्नाम्ना भविष्यति ॥ ४८ ॥
कीर्त्तिस्ते भविता पुत्र यावदाभूतसम्प्लवम् ॥
इत्युक्ते तु त्वया देवि मयाप्युक्तं वरानने।४९॥
न मे मिथ्या वचः पुत्र भविष्यति कथञ्चन ॥
दर्शनादेव लिङ्गस्य ममाभीष्टो भविष्यसि ॥ 5.2.77.५० ॥
विमाने पुष्पपादे तु समारूढो भविष्यसि ॥
पुष्पैः सम्पूज्यमानस्तु पदं प्राप्स्यसि शाश्वतम् ॥ ५१ ॥
गणैः सार्द्धं मया चैव मुदितो विचरिष्यसि ॥
ममापि न रतिर्वत्स भविष्यति त्वया विना ॥ ५२ ॥
अहं तत्रागमिष्यामि महाकालवने शुभे ॥
तुष्टोऽहं सर्वदा वत्स गणानामग्रणीः कृतः ॥५३॥
अनया शुद्धया भक्त्या लोकानामुपकारकः ॥
भविष्यसि न सन्देहस्तस्मिन्क्षेत्रे गतो ध्रुवम्॥५४॥
इत्युक्तो हि मया देवि पुष्पदन्तो गणाग्रणीः ॥
मानी ममाज्ञया मौनी महाकालवने शुभम् ॥ ५५ ॥
लिङ्गमाराधयामास दुर्वासेशादथोत्तरे ॥
लिङ्गेनोक्तस्तु सहसा तुष्टोऽहं गणसत्तम ॥
त्वन्नाम्ना ख्यातिमेष्यामि प्रसादस्ते कृतोऽधुना ॥ ५६ ॥
एतस्मिन्नन्तरे देवि त्वया सार्द्धमहं गतः ॥
शक्राद्यैस्त्रिदशैः सार्द्धं गणैर्नानाविधैस्तथा ॥ ५७ ॥
हृष्टस्तु पुष्पदन्तोऽपि पुष्पपट्टासने शुभे ॥
पुष्पैः प्रकीर्यमाणोऽपि पुनः प्राप्तो ममान्तिकम् ॥ ५८ ॥
मया संश्लेषितः स्नेहादुत्सङ्गेऽप्यधिरोपितः ॥
स्थानं दत्तं विशालाक्षि इदमुक्तं मया तदा ॥ ५९ ॥
ये पश्यन्ति नरा लिङ्गं त्वया सम्पूजितं भुवि ॥
ते यास्यन्ति पुष्पकेण क्रीडन्तो वै त्रिविष्टपम् ॥ 5.2.77.६० ॥
गणाध्यक्षा भविष्यन्ति सर्वकामैरलङ्कृताः ॥
मम लोके गणाध्यक्षा यावदिन्द्राश्चतुर्दश ॥ ६१ ॥
दर्शनात्क्षीयते पापमैहिकं पूर्वकं तथा ॥
ततः प्रसादान्मे सर्वं ज्ञानं सम्यग्भविष्यति ॥ ६२ ॥
यः पूजयेच्चतुर्द्दश्यामष्टम्यां सोमवासरे ॥
अमरैः सह संहृष्टो मोदते दिवि सर्वदा ॥ ६३ ॥
पैतृकैर्मातृकैः सार्द्धं कुलैस्तु सप्तभिर्युतः ॥
न वदेत्केनचित्सार्द्धं नरो यः प्रातरुत्थितः ॥ ६४ ॥
पुष्पदन्तेश्वरं दृष्ट्वा सोऽश्वमेधफलंलभेत् ॥
मुच्यते पातकाद्यैश्च यः शाठ्येनापि पश्यति ॥ ६५ ॥
मृतो गान्धर्वलोके तु याति विद्याधरैर्वृतः ॥
न तस्य सन्तति च्छेदो यः पश्यति दिनेदिने ॥
नियमेन गणाध्यक्ष जायते ब्रह्मणो दिनम्॥ ६६ ॥
ऐश्वर्यं सप्तलोकेषु भुक्त्वा भोगान्यथाक्रमम्॥
पृथिव्यामेकराड्भूत्वा ममाङ्गे सम्भविष्यति ॥ ६७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पुष्पदन्तेश्वरेशस्य अविमुक्तेश्वरं शृणु ॥ ६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम् आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे पुष्पदन्तेश्वरमाहात्म्यवर्णनन्नाम सप्त सप्ततितमोऽध्यायः ॥ ७७ ॥ ॥ छ ॥