०७६ चतुरशीतिलिङ्गमाहात्म्येऽरुणेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
षट्सप्ततितमं देवमरुणेश्वरसञ्ज्ञकम् ॥
विद्धि पापहरं देवि दर्शनात्कामदं नृणाम् ॥ १ ॥
पुरा देवयुगे देवि प्रजापतिसुते शुभे ॥
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥ २ ॥
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता तथा ॥
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥ ३ ॥
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं तु ते ॥ ४ ॥
हर्षादभ्यधिकां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः ॥ ५ ॥
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥
ओजसा तेजसा चैव विक्रमेणाधिकौ च तौ ॥ ६ ॥
तस्यै भर्त्ता वरं प्रादाल्लप्स्यसे पुत्रकोत्तमौ ॥
एवमस्त्विति तां चाह कश्यपो विनतां तदा ॥ ७ ॥
यथा च प्रार्थितं लब्ध्वा वरं तुष्टाऽभवत्तदा ॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ॥ ८ ॥
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥
धार्यौ गर्भौ प्रयत्नेन इत्युक्त्वा स महातपाः ॥ ९ ॥
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥
कालेन महता कद्रूर्नागानां सा शतीर्दश ॥
जनयामास चार्वङ्गी द्वे चाण्डे विनता तदा ॥ 5.2.76.१० ॥
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ॥
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च ॥ ११ ॥
ततः पञ्चशते काले कद्रूपुत्रा विनिर्गताः ॥
अण्डभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥ १२ ॥
ततः पुत्रार्थिनी देवी व्रीडिता सा तपस्विनी ॥
अण्डं बिभेद विनता तत्र पुत्रं ददर्श ह ॥ १३ ॥
पूर्वार्द्धकायसम्पन्नमितरेणा प्रकाशितम् ॥
स पुत्रो रोषसंरब्धः शशापैनामिति श्रुतम् ॥ १४ ॥
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ॥
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि ॥ १५ ॥
पञ्चवर्षशतान्यस्या यया विस्पर्द्धसे सदा ॥
एष ते च सुतो मातर्दास्याद्वै मोक्षयिष्यति ॥ १६ ॥
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ॥
न करिष्यस्यनङ्गं वा पुत्रं चाति तरस्विनम् ॥१७॥
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया॥
विशिष्टबलमीप्सन्त्या पञ्चवर्षशतान्यतः॥१८॥
एवं शप्त्वा ततो देवि विनतां मातरं स्वकम् ॥
अरुणो विललापाथ वाष्पशोकपरिप्लुतः ॥ १९ ॥
हाहा मया नृशंसेन माता स्वजननी स्वका ॥
शप्ता विनापराधेन कथं यास्यामि सद्गतिम् ॥
माता देहारणिः पुंसां माता दुःखसहा परा ॥5.2.76.२०॥
गर्भक्लेशे परं दुःखं माता जानाति यादृशम् ॥
वात्सल्यं चाधिकं मातुर्दृश्यते न तु पैतृकम् ॥ २१ ॥
गुरूणामेव सर्वेषां माता गुरुतरा स्मृता ॥
एकस्यापि सुतस्यैव न दृष्टा निष्कृतिः श्रुतौ ॥२२॥
यदि पिण्डप्रदानं तु गयायां कुरुते सुतः ॥
गते पितरि पञ्चत्वं माता पुत्रस्य निर्वृतिः ॥
न च मातृविहीनस्य ममत्वं कुरुते पिता ॥२३॥
विकलो मातृहीनस्तु पुत्रो हि प्रोच्यते तदा ॥
यदा स वृद्धो भवति तदा भवति दुःखितः ॥
तदा शून्यं जगत्सर्वं यदा माता वियुज्यते ॥ २४ ॥
सोऽहं पापसमाचारो जातो मातृविहिंसकः ॥
मरिष्यामि न सन्देहः साधयित्वा हुताशनम् ॥ २५ ॥
जातोऽहं विकलाङ्गस्तु प्राक्कृतेनैव कर्मणा ॥
न माता कारणं यस्मात्स्वकीयं कर्म भुज्यते ॥ ॥ २६ ॥
एवं विलपतस्तस्य कश्यपस्य सुतस्य च ॥
अरुणस्य विशालाक्षि नारदः समुपागतः ॥ २७ ॥
दृष्ट्वारुणं सुदुःखार्त्तं विलपन्तं पुनः पुनः ॥
प्रत्युवाच प्रसन्नात्मा नारदः प्रहसन्निव॥२८॥
अरुणोऽयमहो रौति कश्यपस्यात्मसम्भवः ॥
विनतायाः सुतो ज्येष्ठः सम्भूतस्तपसां निधिः ॥ ॥ २९ ॥
उत्पादितोऽयमल्पाहैरर्द्धकायो महाबलः ॥
एनमाश्वासयिष्यामि विनतागर्भसम्भवम् ॥
मोहेन विलपन्तं च श्रेयो मे भविता धुवम् ॥ ॥ 5.2.76.३० ॥
इति सञ्चिन्त्य मनसि वाक्यैर्मध्वमृतोपमैः ॥
प्रत्युवाचारुणं तत्र नारदो द्विजसत्तमः ॥ ३१ ॥
तात कश्यपदायाद विनतागर्भसम्भव ॥
तेजोराशे दुराधर्ष सन्तापं मा कृथा वृथा॥ ३२ ॥
भाविनोऽर्था भवन्तीह दुःखस्य च सुखस्य च ॥
यत्त्वया विनता शप्ता रहस्यं देवनिर्मितम्॥ ॥ ३३ ॥
यदि तेस्ति घृणा चित्ते शप्तात्मजननी त्वया ॥
तदा गच्छ ममादेशान्महाकालवनं शुभम् ॥३४॥
उत्तरे देवदेवस्य यात्रेशस्य च पुण्यदम्॥
विद्यते त्रिदशैः पूज्यं सर्वदा सर्वदं शिवम् ॥ ३५ ॥
अरुणस्त्वेवमुक्तस्तु नारदेन महात्मना ॥
आजगाम क्षणार्द्धेन महाकालवनं शुभम् ॥ ३६ ॥
ददर्श तत्र तल्लिङ्गं तेजःकूटोपमं शुभम् ॥
पूजयामास विधिवत्पुष्पैर्भावसमन्वितः ॥ ३७ ॥
लिङ्गेनोक्तोऽरुणो देवि सारथ्यं कुरु सर्वदा ॥
सूर्यस्य भ्रमतस्तस्य त्वत्तुल्यो नास्ति सारथिः ॥ ३८ ॥
मया दत्तं तु सामर्थ्यं सूर्यस्य पुरतः सदा ॥
उदयस्तेऽरुण प्राग्वै पश्चात्सूर्य उदेष्यति ॥ ३९ ॥
त्वन्नाम्ना त्रिषु लोकेषु ख्यातोऽहमरुणेश्वरः ॥
भविष्यामि न सन्देहो नृणामर्थप्रदायकः ॥ 5.2.76.४० ॥
ये मां पश्यन्ति सततं त्वन्नाम्ना चारुणेश्वरम् ॥
ते यास्यन्ति परं स्थानं दाहप्रलयवर्जितम् ॥ ४१ ॥
मोदिष्यन्ति कुलैः सार्द्धं पितृमातृसमुद्भवैः ॥
कल्पकोटिसहस्रं तु ये पश्यन्ति समाहिताः ॥ ४२ ॥
न दुःखं जायते तेषां ये पश्यन्ति रवेर्द्दिने॥
संसारसागरोत्थं वै यावदिन्द्राश्चतुर्दश ॥४३॥
यः पश्यति चतुर्दश्यां कृष्णायामरुणेश्वरम् ॥४४॥
स नेष्यति पितॄन्स्वर्गे नरकस्थान्न संशयः ॥
सङ्क्रान्तौ रविवारे च यः पश्येदरुणेश्वरम् ॥
शुण्डीरस्वामिनो यात्रा कृता तेन न संशयः ॥४५॥
इत्युक्तस्तेन लिङ्गेन विनतानन्दनस्तदा॥
आगतः कृतकृत्यात्मा यत्र देवो दिवस्पतिः ॥४६॥
अस्य लिङ्गस्य माहात्म्यात्कश्यपस्यात्मसम्भवः ॥
अरुणो दृश्यते व्योम्नि सूर्यस्य पुरतः सदा ॥ ४७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
अरुणेश्वरदेवस्य पुष्पवन्तेश्वरं शृणु ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽरुणेश्वरमाहात्म्यवर्णनन्नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥