०७५ वडलेश्वरमाहात्म्यवर्णनम्

॥ईश्वर उवाच ॥ ॥
पञ्चसप्ततिकं देवं वडलेश्वरसञ्ज्ञकम्॥
विद्धि पापहरं देवि दर्शनात्कामदं नृणाम् ॥ १ ॥
धनदस्य सखा देवि मणिभद्रो बभूव ह ॥
ईर्ष्याप्रभावस्तत्पुत्रो वडलोनाम कोपनः ॥ २ ॥
रूपवान्सर्वदा कामी सदा मत्तो बलाधिकः ॥
कदाचित्स गतो रम्यां नलिनीं धनदस्य च ॥ ३ ॥
रत्यर्थं कामसेवार्थं गुप्तां रहसि निर्मिताम् ॥
ददर्श कुसुमैश्छन्नां वज्रवैडूर्यभूषिताम् ॥ ४ ॥
तां वै विद्रुमसञ्छन्नां मुक्तादामविरा जिताम् ॥
सुरम्यां विपुलच्छायां स्वर्णपङ्कजशोभिताम् ॥ ५ ॥
कुबेरभवनाभ्याशे वल्लभां धनदस्य च ॥
आक्रीडं राजराजस्य कुबेरस्य महा त्मनः ॥ ६ ॥
राक्षसैः किन्नरैश्चैव गुप्तां खङ्गधरैः सदा ॥
तां दृष्ट्वा परमप्रीतो बभूव वडलस्तदा ॥ ७ ॥
प्रियया सहितो रेमे स्थाने गुप्ते मनोहरे ॥
रेमे रमणकैर्योगैरनङ्गेन वशीकृतः ॥ ८ ॥
तत्र गुप्ता रणे शूरा राक्षसा रणकोविदाः ॥
रक्षन्ति शतसाहस्रं सर्वायुधपरिच्छदाः ॥ ९ ॥
ते तु दृष्ट्वैव वडलं मणिभद्रसुतं प्रिये ॥
भक्ष्यैः सम्पूरितमुखं दिव्यचन्दनभूषितम् ॥ 5.2.75.१० ॥
केतकीगर्भपत्राभैर्दन्तैर्दिव्यतराननम् ॥
युद्धार्थे बद्धनिस्त्रिंशं शक्तियुक्तमरिन्दमम् ॥ ११ ॥
भार्यासहायमुन्मत्तं पर्यङ्के च स्थितं सदा ॥
रत्यर्थमागतं ज्ञात्वा अन्योन्यमभिचुक्रुशुः ॥ १२ ॥
मा वीरानेन मार्गेण सभार्यो गन्तुमर्हसि ॥
आक्रीडोऽयं कुबेरस्य धनदस्य महात्मनः ॥ १३ ॥
देवा देवर्षयो यक्षा गन्धर्वाः किन्नरास्तथा ॥
आमन्त्र्य यक्षप्रवरं विहरन्ति रमन्ति च ॥ १४ ॥
नेह शक्यं विनादेशाद्विहर्तुं क्रीडितुं चिरम्॥
भ्रात्रामात्येन सुहृदा केनापि च सुतेन च ॥ १५ ॥
येनकेनचिदन्यायादवमन्य धनेश्वरम् ॥
विहारः क्रियते दर्पात्स विनश्येदसंशयम् ॥ १६ ॥
एवं स राक्षसैर्घोरैर्वडलो विनिवारितः ॥
मा मैवमिति सक्रोधं भर्त्सयद्भिः समन्ततः ॥ १७ ॥
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः ॥
व्यगाहत महातेजास्ते सर्वे तं न्यवारयन् ॥ १८ ॥
गृह्णीत बध्नीत निकृन्ततैनं पिबाम खादाम च वृत्तहीनम् ॥
क्रुद्धा ब्रुवन्तो ह्यपतन्द्रुतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥ १९ ॥
ततः स गुर्वीं यमदण्डकल्पां महागदां काञ्चनपट्टनद्धाम् ॥
प्रगृह्य तामभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥ 5.2.75.२० ॥
ते तस्य वीर्यं च वलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव ॥
न शक्नुवन्तः सहितुं समेता हताः प्रवीराः सहसा निवृत्ताः ॥ २१ ॥
विदार्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसञ्ज्ञाः ॥
कैलासशृङ्गाण्यभि दुद्रुवुस्ते यक्षार्दिता रक्षपालाः प्रभग्नाः ॥ २२ ॥
स शक्रवद्दानवदैत्यसङ्घान्विक्रम्य जित्वा मदनाभितप्तः ॥
विगाह्य तां पुष्करिणीं समर्थः कामं स चिक्रीडति यक्षपुत्रः ॥ २३ ॥
ततस्तु ते रक्षपालाः समेत्य धनेश्वरं वै वडलेन नुन्नाः ॥
यक्षस्य धैर्यं सुबलं च सङ्ख्ये यथावदाचख्युरतीव भीताः ॥ ॥ २४ ॥
तेषां तु वचनं श्रुत्वा मणिभद्रो महायशाः ॥
शशाप पुत्रं दयितं वडलं प्रभुकारणात् ॥ २५ ॥
यस्मात्सा नलिनी रम्या सेविता वडलेन तु॥
दयिता धनदस्यापि यथा माता तथैव सा ॥२६॥
तस्मात्पुत्रो मदीयस्तु सर्वभागविवर्जितः॥
पङ्ग्वन्धो बधिरो दीनः क्षयरोगमवाप्स्यति॥ ॥ २७ ॥
इति शप्तस्तदा जातो वडलो भोगवर्जितः ॥
पतितो भूतले चैव तस्मिन्स्थाने गतोऽपि सन् ॥ २८ ॥
पीडितः क्षयरोगेण न शशाक विचेष्टितुम् ॥
अन्धोऽथ बधिरो जातो गुरुशापहतस्तदा ॥ २९ ॥
चिन्तयामास सहसा शापमत्यद्भुतं महत् ॥
शप्तोऽहं केन सहसा जीवन्योन्यन्तरं गतः ॥ 5.2.75.३० ॥
कथं शप्तोऽस्मि तातेन मणिभद्रेण वल्लभः ॥
पुत्रो युवा च शूरश्च शत्रुपक्षक्षयङ्करः ॥ ३१ ॥
धन्योऽसौ मणिभद्रोऽपि मत्तातो येन भूतले ॥
प्रभुभक्त्या निजः पुत्रः शप्तस्त्यक्तश्च तत्क्षणात् ॥ ३२ ॥
वडलेन पुनः प्रोक्तं धन्योऽहं प्रभुकारणात्॥
उत्सवो निधनन्नाम भर्तृपिण्डोपजीविनाम् ॥ ३३ ॥
अन्यायेन यथाकामं प्रारब्धः सञ्चितश्चिरम्॥
तेनाहं शापतां प्राप्तो यास्यामि नरकं ध्रुवम्॥ ३४ ॥
एवं विलपतस्तस्य वडलस्य वरानने ॥
आजगाम तमुद्देशं मणिभद्रो महाबलः ॥
ददर्श पुत्रं पङ्ग्वन्धं क्षयरोगप्रपीडितम् ॥ ३५ ॥
निःश्वसन्तं सुदुःखार्त्तं विल पन्तं पुनःपुनः ॥
प्रत्युवाच सुतं यक्षो मणिभद्रोऽतिदुःखितः ॥
मया कुपित्रा हा वत्स शप्तस्त्वं प्रभुकारणात् ॥ ३६ ॥
त्वयेयं नलिनी रम्या धन दस्यातिवल्लभा ॥
सेविता कामतप्तेन प्रवरा राक्षसा हताः ॥ ३७ ॥
तस्मात्पुत्र मया शप्तो न मिथ्या स भविष्यति ॥
प्रभुर्देवः प्रभुः स्वामी प्रभुर्माता प्रभुः पिता ॥ ३८ ॥
स्वाम्यर्थे यः प्रियान्प्राणान्परित्यजति सङ्गरे ॥
स याति परमं स्थानं ब्रह्मलोकं सनातनम्॥ ३९ ॥
न मन्त्रसाध्यः शापोयं नौषधेन व्रतेन च ॥
नियमेन च दानेन तस्मान्मद्वचनं कुरु ॥ 5.2.75.४० ॥
मया श्रुतं शक्रलोके पुराणं स्कन्दकीर्त्तितम् ॥
ब्रुवतो नारदस्यैव देवानां सन्निधौ पुरा ॥ ४१ ॥
प्रभावो वर्णितस्तेन महाकालवनस्य च ॥
क्षेत्रे ह्यस्मिन्महालिङ्गं स्वर्गद्वारस्य दक्षिणे ॥ ४२ ॥
विद्यते व्याधिशमनं रूपसौभाग्यदायकम् ॥
तत्राहं त्वां च नेष्यामि विमानेनाशुगामिना ॥ ४३ ॥
इत्युक्त्वा मणिभद्रेण समानीतः सुतस्तदा ॥
यत्र देवाधिदेवोऽसौ स्वर्गद्वारस्य दक्षिणे॥ ४४ ॥
स्पर्शनात्तस्य लिङ्गस्य चक्षुष्मान्रूपवान्बली ॥
सुपादः श्रुतिसंयुक्तस्तत्क्षणादभवत्तदा ॥४५॥
दृष्ट्वा सुमहदाश्चर्यं मणिभद्रेण पार्वति॥
कृतं नाम सुहृष्टेन स्वीयपुत्रस्य नामतः॥
चक्षुष्मान्वडलो जातो लिङ्गस्यास्य प्रभावतः॥४६॥
अद्यप्रभृति देवोऽयं वडलेश्वरसञ्ज्ञकः॥
भविष्यति त्रिलोकेषु विख्यातो नेत्रदायकः॥४७॥
पूजयिष्यन्ति ये देवं वडलेश्वरसञ्ज्ञकम्॥
लिङ्गं लोकेषु विख्यातं ते प्राप्स्यन्ति मनोरथम्॥४८॥
दृष्टो हरति पापानि स्पृष्टो राज्यं प्रयच्छति॥
अर्चितो भक्तिभावेन मोक्षं दद्यान्न संशयः॥४९॥
कार्त्तिके शुक्लपक्षस्य तिथिर्वै द्वादशी भवेत् ॥
तस्यां ये पूजयिष्यन्ति वडलेश्वरसञ्ज्ञकम् ॥5.2.75.५० ॥
दानं तैः सततं दत्तं ते यान्ति परमं पदम् ॥
प्रयागे च प्रभासे च गङ्गासागरसङ्गमे ॥५१॥
तपस्तप्तं भवेत्तैस्तु ते मुक्ता नात्र संशयः ॥
गर्भवासे न जायन्ते सर्वसौख्यसमन्विताः ॥ ५२ ॥
गाणपत्या भविष्यन्ति शङ्करस्य सदा प्रियाः ॥
सौभाग्यरूपसम्पन्नाः पुत्रपौत्रैश्च संयुताः ॥
जायन्ते मानवा लोके वडलेश्वरदर्शनात् ॥ ५३ ॥
गर्भवासे महाकष्टे यस्य वासो न रोचते ॥
सोऽभ्यर्चयतु भावेन वडलेश्वरमीश्वरम् ॥ ५४ ॥
न लिङ्गेन विना सिद्धिर्दुर्लभं परमं पदम् ॥
गतिर्न जायते स्वर्गे यावल्लिङ्गं तु नार्चयेत् ॥५५॥
लिङ्गार्चन विहीनानां सिद्धिश्चापि सुदुर्लभा ॥
मम पुत्रेण सम्प्राप्तमीप्सितं लिङ्गतो यतः ॥ ५६ ॥
इत्युक्त्वा मणिभद्रोऽपि सुतेन सहितो ययौ ॥
यत्र देवो धनाध्यक्षः स्थानं स्वं परमं गतः ॥ ५७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
वडलेश्वरदेवस्य श्रूयतामरुणेश्वरम् ॥ ५८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे वडलेश्वरमाहात्म्यवर्णनं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥