०७४ राजस्थलेश्वरमाहात्म्यवर्णनम्

॥ श्रीहर उवाच ॥ ॥
चतुःसप्ततिकं विद्धि शिवं राजस्थलेश्वरम् ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १ ॥
विष्णुकल्पे पुरा वृत्ते मन्वन्तरमुखप्रिये ॥
अराजके महीपृष्ठे ब्रह्मा चिन्तापरोऽभवत् ॥ २ ॥
न मनुष्यैर्विना देवाः समर्था लोकधारणे ॥
दानेज्याजपतोदेवा भजन्ते पुष्टिमुत्तमाम् ॥ ३ ॥
योग्यो राजा प्रजापालः को भवेज्जनवत्सलः ॥
सोऽपश्यदथ राजर्षि स्तपस्यन्तं रिपुञ्जयम् ॥ ४ ॥
पृथ्व्यां सर्वगुणाकीर्णं धर्मनिष्ठं महाव्रतम् ॥
तमुवाचाथ देवेशो ब्रह्मा लोकपितामहः ॥ ५ ॥
॥ ब्रह्मोवाच ॥ ॥
रिपुञ्जय निबोधेदं वचनं मम पुत्रक ॥
राज्यं च पाल्यतां वत्स एककल्पेन चेतसा ॥ ६ ॥
अलं ते तपसा तात कष्टेनानेन साम्प्रतम् ॥
धर्मेण विजिताः सर्वे त्वया लोका नरोत्तम ॥ ७ ॥
क्रियतामधुना लोकपालनं तु ममाज्ञया ॥
यतः परोपकारो हि फलं देहस्य देहिनः ॥ ८ ॥
न धर्मस्तादृशोऽन्योऽस्ति न चान्योऽर्थस्य साधकः ॥
निरयाप्तिरपि श्रेय उपकृत्य परस्य वै ॥९॥
नापकारेण भूतानामपि स्याद्भुवनेशता ॥
सततं लोक कार्यार्थं मदाज्ञागौरवेण च ॥
पृथ्वीं समुद्रवसनां प्रजाश्चैव प्रपालय ॥ 5.2.74.१० ॥
इत्युक्तः स तु राजर्षिर्ब्रह्मणा पर्वतात्मजे ॥
प्रोवाच प्राञ्जलिर्भूत्वा ब्रह्माणं तु रिपुञ्जयः ॥ ११ ॥
स्वभावेनाचला पृध्वी त्वया पूर्वं विनिर्मिता ॥
विनैव पालकं ह्येषा कुत्र यास्यति मेदिनी ॥ १२ ॥
यद्यवश्यं मया पृध्वी पालनीया पितामह ॥
देहि मे नगरीं रम्यामवन्तीं सप्तकल्पगाम् ॥१३॥
मनुष्यलोके विख्याता सकले सामरावती ॥
स्वर्गच्युतानां देवानां निवासार्थं प्रतिष्ठिता ॥ १४ ॥
मर्यादामनुवत्तेंयुर्यदि मे नाकवासिनः ॥
अदत्ते च मया स्थाने न वासः कस्यचिद्भवेत् ॥
अनेन विधिना पृथ्वीं पालयिष्याम्यहं प्रभो ॥ १५॥
॥ ब्रह्मोवाच ॥ ॥
भविष्यत्येष ते कामो यस्त्वयोक्तो नरोत्तम॥
ये केचित्त्रिदशाः सन्ति मद्गौरववशेन ते ॥
तवादेशं करिष्यन्ति सदा त्वद्वशवर्त्तिनः ॥ १६॥
देवनाथेति वै नाम भविष्यति च सुव्रत॥
इत्युक्त्वान्तर्दधे ब्रह्मा हंसयानं समास्थितः ॥१७॥
अथ राजा प्रतिज्ञाय ब्रह्मणा भूमिपालनम्॥
पृथ्व्यामुद्घोषयामास प्रोवाच त्रिदिवौकसाम् ॥१८॥
भवतां विहितः स्वर्गो मनुजानां च भूतलम् ॥
ये चात्र कन्द ररताः स्थले वा भूधरेषु च ॥ १९॥
ये स्थिता यान्तु ते देवा मनुजानामियं धरा ॥
तच्छ्रुत्वा घोषितं तस्य राज्ञो भयनिपीडिताः ॥
त्रिदशा ब्रह्मणो वाक्याद्गौरवात्त्रिदिवं गताः ॥ 5.2.74.२० ॥
अथ प्रजाः स नृपतिर्धर्मेणावर्धयत्तदा ॥
पुत्रवत्सेहयुक्तेन हृदयेनातिनिर्वृताः॥२१।
प्रजास्तत्सुखसंवृद्धा जरामृ त्युविवर्जिताः ॥
पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः ॥२२॥
यौवनस्थाश्च निर्द्वन्द्वाः सततं धर्मसंश्रयाः ॥
नासीत्पुथिव्यां शैलस्तु स्थलो वा द्वीप एव च ॥ २३ ॥
अकृष्टपच्या पृथिवी स्वादवद्भिः फलैर्युता ॥
देवलोक इवासीद्भूः सर्वकामगुणोज्ज्वला ॥२४॥
एवं व्रजति काले वै राज्ञि राज्यं प्रकुर्वति ॥
महामर्षपरा देवा विप्रकार्यार्थमुद्यताः ॥२५॥
प्रजानां बहुदुःखानि मुहुः कुर्वन्त्यनेकशः ॥
अथानावृष्टिमकरोत्सुदीर्घां पाकशासनः ॥२६॥
तथा संह्रियमाणेषु लोकेषु नृपसत्तमः॥
मेघो भूत्वा दिवं प्राप्य सुवृष्टिमकरोन्नृपः ॥२७॥
तेनैवाप्यायितो लोकः सुखी जातो यशस्विनि॥
ततः काले तु कस्मिंश्चिद्वर्षत्पाकशासनः ॥
संवर्त्तो वारिदो भूत्वा मेघान्वै विन्यपातयत् ॥ २८ ॥
ततस्तु मारुतो भूत्वा नृपतिस्तामधारयत् ॥
ततोनलः प्रनष्टोऽभूत्सर्वतः पृथिवीतलात् ॥ २९ ॥
न यज्ञा न जपो होमो न च पक्तिरवर्त्तत ॥
लोकश्च व्याधिसङ्क्षुब्धस्तदाभूद्विषमे स्थितः ॥ 5.2.74.३० ॥
ततः स राजा तं दृष्ट्वा त्वभवद्धव्यवाहनः ॥
सोऽधारयत्प्रजाः सर्वा यज्ञांश्च त्रिदिवौकसः ॥ ३१ ॥
एतस्मिन्नन्तरे देवि त्वया सार्द्धं समागतः ॥
दर्शनार्थं स्वनगरीमहं भूतगणैर्वृतः ॥ ३२ ॥
ततो देवगणाः सर्वे सकिन्नरमहोरगाः ॥
सयक्षरक्षोगन्धर्वाः सिद्धविद्याधरोरगाः ॥ ३३ ॥
भूताः प्रेताः पिशाचाश्च ये चान्ये गगनेचराः ॥
चत्वारः सागराश्चैव क्षारक्षीरादिसिन्धवः ॥ ३४ ॥
गङ्गा च यमुना सिन्धुश्चन्द्रभागा सरस्वती ॥
चर्मण्वती भीम रथी पुण्या गोदावरी नदी ॥ ३५ ॥
विपाशा देविका पुण्या शरयूः कौशिकी तथा ॥
गोमती धूतपापा च बाहुदा च दृषद्वती ॥ ३६ ॥
पारा वेद स्मृतिश्चैव वेत्रघ्नी नर्मदा शिवा ॥
तापी पयोष्णी निर्विन्ध्या सर्वास्तत्र समागताः ॥ ३७ ॥
पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥
पृथुतीर्थोदकश्चैव तथैवामरकण्टकः । ३८ ॥
गङ्गाद्वारः कुशावर्त्तो बिल्वको नीलपर्वतः ॥
वाराहपर्वतश्चैव तीर्थं कनखलं तथा ॥ ३९ ॥
भृगुतुङ्गः सुकुक्षश्चाप्यजगन्धश्च पार्वति ॥
कालिञ्जरः सकेदारो रुद्रकोटिर्महालयः ॥ 5.2.74.४० ॥
स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥
मेरुर्महेन्द्रो मलयो मन्दरो गन्धमादनः ॥ ४१ ॥
मुनयो वालखिल्याश्च वेदाश्चत्वार एव च ॥
एते चान्ये च बहवः समायाता मया सह ॥ ४२ ॥
अनन्तरं मया मेरुः स्थलाकारः कृतस्ततः ॥
तस्मिन्स्थले स्थितो देवि उपविष्टः सुरैर्वृतः ॥
नियुक्ताः सागराः पार्श्वे चत्वारो लवणादयः ॥ ४३ ॥
अथ व्याकुलतां प्राप्तः स च राजा रिपुञ्जयः॥
स्वस्थलस्थं मां दृष्ट्वा समायातस्तु मां प्रति॥४४॥
तेजसा दह्यमानोऽपि मदीयेन वरानने ॥
भीतोऽपि तोषयामास कोऽसि देव नमोऽस्तु ते ॥ ४५ ॥
स्थलेस्मिन्नृप राजाहं मयाप्युक्तं विनोदतः ॥
चतुर्वर्गश्चतुर्मूर्त्तिश्चतुर्द्धा संस्थितो नृपः ॥ ४६ ॥
तेनाहं सर्वतो दृष्टो वाङ्मये सचराचरे ॥
अनन्तरं स्तुतस्तेन भक्त्या परमया प्रिये ॥ ४७ ॥
प्रभावमतुलं दृष्ट्वा मदीयं व्यापकं परम् ॥
भक्त्या परमया देवि स च मां शरणं गतः॥
भूयःस्तुतोऽपि तेनाहं तुष्टो वै तस्य भूपतेः ॥
तेनोक्तं यदि मे देव तुष्टस्त्वं परमेश्वर ॥ ४९ ॥
भक्तिर्मे सुदृढा भूयात्त्वयि सर्वॆश शाश्वती।
तुष्टोहं तेन वाक्येन पुनः प्रोक्तो मया नृप ॥ 5.2.74.५० ॥
एवं भविष्यतीत्युक्त्वा पुनर्मां ब्रूहि पार्थिव ।
हृदि स्थितश्च ते कामः सर्वकालं भविष्यति ॥ ५१ ॥
अधृष्यः सर्वेदेवानां सर्वदा सम्भविष्यसि ॥
तेनाहं प्रार्थितो देवि भूयो वरमनुत्तमम् ॥ ५२ ॥
अतीव राजते देव स्थलोऽयं तव सन्निधौ ॥
मेरुरेष न सन्देहो वृल्लभः सर्वदा तव ॥ ५३॥
राजस्थलेश्वरोऽसि त्वं विख्यातो भुवनत्रये॥
भविष्यसि यथा देव तथा त्वं कर्तुमर्हसि ॥ ५४॥
अत्रागत्य च यो देव भक्त्या परमया युतः ॥
यात्रां करोति भावेन पुराणोक्तविधानतः ॥५५ |॥
तस्य त्वया प्रदातव्यं सर्वं मनसि चिन्तितम् ।
अणिमादिगुणाः सर्वे गुटिकासिद्धिरञ्जनम्॥ ५६॥
खड्गं च पादुकां चैव जलवासं रसायनम्॥
राजस्थलेश्वरं यस्तु भक्त्या पश्यति मानवः ॥ ५७॥
दशम्यां तु विशेषेण कृत्वा नियमपूर्वकम्॥
देवानामपि देवत्वं सम्प्राप्नोति महेश्वरः ॥ ५८ ॥
पूजनीयस्तु त्रिदिवैर्यथा देवः पुरन्दरः॥
दृष्ट्वा राजस्थले देवं योऽत्र यात्रां करिष्यति ॥५९॥
तस्य श्रीर्विजयश्चैव भवत्येव वरो मम ॥
शत्रवः सङ्क्षयं यान्तु सम्पद्यतां मनोरथाः ॥ 5.2.74.६०॥
वृद्धिर्भवतु वंशे च दर्शनात्तव शङ्कर॥
सर्वेऽत्र देवास्तिष्ठन्तु मेरुरत्रैव तिष्ठतु ॥
तिष्ठन्तु सागराः सर्वे तव देव समीपतः ॥ ६१ ॥
इत्युक्तोऽहं तदा तेन मया चोक्तं वरानने॥
सुद्युम्नोनाम भूपालो यदात्रैवागमिष्यति ॥ ६२ ॥
पुत्रार्थं भार्यया सार्द्धं तदा दास्यामि वाञ्छितम् ॥
तदा समुद्राश्चत्वारः स्थास्यन्ति सफलाः स्वयम् ॥६३॥
तस्याराधनतो भूप पुत्रं दास्यामि शोभनम्॥
ये चात्र मानवा राजन्यात्रां कुर्वन्ति भक्तितः ॥
तेषां मनोरथावाप्तिर्भविष्यति न संशयः ॥ ६४ ।
राजा रिपुञ्जयो भक्त्या गणाधीशः कृतो मया।॥ ६५॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
राजस्थलेश्वरेशस्य श्रूयतां वडलेश्वरम् ॥ ६६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये राजस्थलेश्वरमाहात्म्यवर्णनन्नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥