०७३ वर्णनम्

॥ श्रीहर उवाच ॥ ॥
त्रिसप्ततीश्वरं विद्धि करभेशं वरानने ॥
यस्य दर्शनमात्रेण कुयोनिर्नैव लभ्यते ॥ १ ॥
वीरकेतुरभूद्धीमानयोध्याया महीपतिः ॥
विद्याविनयसौभाग्यलावण्यामृत पूरितः ॥ २ ॥
स सम्यक्पालयामास प्रजाः पुत्रानिवौरसान् ॥
अतीतानागतज्ञानपरिनिष्ठितमानसः ॥ ३ ॥
अथैकस्मिन्दिने राजा जगाम गहनं वनम्॥
मृगसिंहगजाकीर्णं व्याघ्रसम्बरसङ्कुलम् ॥ ४ ॥
स तत्र विविधान्वन्यान्विव्याध परवीरहा ॥
मृगांश्च महिषांश्चैव वराहांश्च सहस्रशः ॥ ५॥
लोडितं तद्वनं सर्वं पशुपक्षिमृगाकुलम् ॥
रहितं श्वापदैः सर्वैः कृतं तेन महीभृता ॥ ६ ॥
यदा न श्वापदास्तस्मिन्दृश्यते गहने वने ॥
तदा विद्धस्तु करभो बाणेनानतपर्वणा ॥ ७ ॥
स चापि करभो देवि बाणमादाय सत्वरम् ॥
विद्धोऽपि निःसृतोऽत्यर्थं राज्ञस्तस्यैव पश्यतः ॥
स च राजा बली तूर्णं ससार करभं प्रति ॥ ८ ॥
ततो निम्नस्थलं चैव स चोष्ट्रोऽद्रवदाशुगः ॥
मुहूर्तेन ततो देवि योजनानि बहून्यपि ॥ ९ ॥
ततः स राजा तारुण्या दौरसेन बलेन च ॥
ससार बाणासनधृक्सखड्गः सहयो नृपः ॥ 5.2.73.१० ॥
ततो नदान्नदीश्चैव पल्वलानि वनानि च ॥
अतिक्रम्यानतिक्रम्य ससारैव वनेचरम् ॥ ११ ॥
स चापि करभो देवि आसाद्यासाद्य तं नृपम् ॥
पुनरप्येति जवनो जवेन महता ततः ॥ १२ ॥
स तस्य बाणैर्बहुभिः करभो विह्वलीकृतः ॥
पृष्ठतः पार्श्वतश्चैव पुनरभ्येति चान्तिकम् ॥
पुनश्च जवमास्याय पार्श्वे चाग्रे च दृश्यते ॥ १३ ॥
अथारण्यं महारौद्रं प्रविष्टः करभस्तदा ॥
अन्तर्धानं जगामाशु स च राजा वनेऽविशत् ॥ १४ ॥
प्रविश्य च महारण्यं तापसानामथाश्रमम् ॥
आससाद ततो राजा श्रान्ताश्वोपा विशत्पुनः॥१५॥
तं कार्मुककरं दृष्ट्वा श्रमार्त्तं क्षुधितं तदा ॥
समभ्येत्यर्षयस्तस्मै पूजां चकुर्यथाविधि ॥ १६ ॥
स पूजामृषिभिर्दत्तां प्रतिगृह्य यथाविधि ॥
अपृच्छत्तापसान्सर्वांस्तपसो वृद्धिमुत्तमाम् ॥ १७ ॥
ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः ॥
ऋषयो राजशार्दूलं पप्रच्छुस्त त्प्रयोजनम्॥ १८ ॥
केन भद्र सुखार्थेन सम्प्राप्तोऽसि तपोवनम् ॥
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ॥ १९ ॥
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद ॥
कस्मिन्कुले च जातस्त्वं किं नामा ब्रूहि पार्थिव ॥ 5.2.73.२० ॥
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभः ॥
आचख्यौ तद्यथा न्यायं कुलं गोत्रं च तत्त्वतः ॥ २१ ॥
इक्ष्वाकूणां कुले जातो वीरकेतुर्द्विजर्षभाः ॥
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ॥ २२ ॥
बलेन महता युक्तः सामात्यः सपरिच्छदः ॥
यदा न लब्धो गहने मृगो वा सूकरोऽपि वा ॥ २३ ॥
महिषश्चित्तलो वापि शशो वा शम्बरो वने ॥
तदा मे करभो विद्धो बाणेनानतपर्वणा ॥ २४ ॥
स प्रणष्टः क्षणेनैव सबाणो मम पश्यतः ॥
तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया ॥ २५ ॥
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥
भवन्तः सुमहाभागास्तस्मात्पृच्छाभि संशयम् ॥ २६ ॥
क्व गतः करभो विद्धो मया बाणेन साम्प्रतम् ॥
क्व च प्राप्स्यामि सहसा ब्रूत तत्सुसमाहिताः ॥ २७ ॥
ततस्तेषां समस्तानामृषीणामृषिसत्तमः ॥
ऋषभो देवि करभं स्मरन्निदमथाब्रवीत् ॥ २८ ॥
गतः स करभो भूप महाकालवने शुभे ॥
गच्छ त्वं च महाराज महाकालवने शुभे ॥ २९ ॥
यत्र देवो महादेवः कारभं रूपमास्थितः ॥
विनोदार्थं च देवानां लिङ्गमूर्त्तिरभूत्पुरा॥5.2.73.३०॥
पश्चिमे क्षेत्रपालस्य कैलासस्य महीपते ॥
समीपे तस्य विघ्नेशो मोदक प्रियसञ्ज्ञकः ॥ ३१ ॥
ब्रह्मणा पूजितो राजन्देवानामर्थसिद्धये ॥
स च धर्मध्वजो राजा हैहयानां कुलोद्वहः ॥ ३२ ॥
तुरगेण कदाचित्तु नीतो बदरिकाश्रमम् ॥
प्रसिद्धं त्रिषु लोकेषु नरनारायणाश्रमम् ॥ ३३ ॥
तत्र वीराजिनधरं कृशं विप्रं ददर्श ह ॥
शरीरमपि राजेन्द्र न केनापि समं तदा ॥
दृष्ट्वा च हसितो विप्रस्तेन राज्ञा प्रमादतः ॥ ३४ ॥
यस्माद्धससि मां दृष्ट्वा तस्मादुष्ट्रो भविष्यसि ॥
लम्बोष्ठो लम्बदन्तश्च विस्वरो विकृता कृतिः ॥ ३५ ॥
इत्युक्तस्तेन विप्रेण शप्तोपि नृपसत्तमः ॥
तं विप्रं प्रार्थयामास स च तुष्टोब्रवीदिदम् ॥ ३६ ॥
न मे वागनृता भूप कदा चिदपि विद्यते ॥
अवश्यं करभो भूत्वा पश्चान्मुक्तिमवाप्स्यसि ॥ ३७ ॥
यदा त्वं करभो जातो विद्धो वै वीरकेतुना ॥
अयोध्याधिपभूपेन गमिष्यसि शराहतः ॥ ३८ ॥
महाकालवनं दिव्यं तत्र त्वं लिङ्गदर्शनात् ॥
गमिष्यसि परं स्थानं यत्र देवो महेश्वरः ॥ ३९ ॥
स चेक्ष्वाकुकुलद्भूतो वीरकेतुर्महाबलः ॥
लिङ्गदर्शनतो भूप चक्रवर्तित्वमाप्स्यति ॥ 5.2.73.४० ॥
इत्युक्तो नृप भूपालः करभत्वं समागतः ॥
स त्वयाभिहतो भूप बाणेनानतपर्वणा ॥
द्रक्ष्यसि त्वं विमानस्थं विमुक्तं लिङ्गदर्शनात् ॥ ४१ ॥
इत्युक्तो नृपतिस्तेन ऋषभेण द्विजेन तु ॥
आजगाम त्वरायुक्तो महाकालवनं शुभम् ॥ ४२ ॥
ददर्श तत्र तल्लिङ्गं पूजितं त्रिदशैः सदा ॥
एतस्मिन्नन्तरे वाणी श्रुता तेन महीभृता ॥ ॥ ४३ ॥
विमानस्थेन या प्रोक्ता तूष्ट्रेण मधुरस्वरा ॥
भोभो राजेन्द्र मां पश्य विमाने चोद्धृते शुभे ॥ ४४ ॥
दर्शनादस्य लिङ्गस्य प्राप्ता मे परमा गतिः ॥
त्वया हतोऽहं बाणेन तेनाहं त्वागतो वने ॥
समीपमस्य लिङ्गस्य त्वं मे बन्धुः परो यतः ॥ ४५ ॥
इत्युक्त्वा स नृपं देवि वचः समधुराक्षरम्॥
गतस्तु परमं स्थानं नित्यमव्ययमक्षयम् ॥ ४६ ॥
ततो देवगणा व्योम्नि सकिन्नरमहोरगाः ॥
यक्षराक्षसगन्धर्वाः सपिशाचाप्सरोगणाः ॥४७॥
ब्रह्मेन्द्रहरिमुख्याश्च विमानैर्देवि संस्थिताः ॥
आजग्मुर्मुदितास्तत्र द्रष्टुं कौतुकमानसाः ॥ ४८ ॥
विलोक्य करभं मुक्तं विमानस्थं विराजितम् ॥
लिङ्गदर्शनमात्रेण संस्तुतं विविधैः स्तवैः ॥ ४९ ॥
अच्छरत्नसमूहेन मुकुटेनोज्वलत्विषा ॥
भासन्तं रविकोटीनां जगदानन्दकारकम् ॥ 5.2.73.५० ॥
नाम चक्रुस्ततो देवा दृष्ट्वा माहात्म्यमुत्तमम् ॥
दर्शनादस्य लिङ्गस्य मुक्तोऽयं करभो यतः ॥ ५१ ॥
तस्मात्त्रिष्वपि लोकेषु विख्यातः करभेश्वरः ॥
भविष्यति न सन्देहः पशुयोनिविमोचकः ॥ ५२ ॥
इत्युक्त्वा त्रिदशाः सर्वे गताः स्वं धिष्ण्यमुत्तमम् ॥
अयोध्याधिपतिर्वीरो वीरकेतुः स्वमालयम्॥
समृद्धं निःसपत्नं च ततो राज्यं चकार सः ॥ ५३ ॥
यः पश्यति नरो देवि करभेश्वरसञ्ज्ञकम् ॥
स प्रयात्यक्षयाल्ँलोकान्पूज्यमानो गणाधिपः ॥ ५४ ॥
यदा कालादिहायातो राजराजेश्वरो महान् ॥
पृथिव्यामेकराड्भूत्वा क्रमान्मोक्षमवाप्नुयात् ॥ ॥ ५५ ॥
न दुःखं जायते तस्य व्याधिशोकभयं तथा ॥
ये पश्यन्ति प्रसङ्गेन तल्लिङ्गं करभेश्वरम् ॥ ५६ ॥
सर्वमेधेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥
तत्फलं त्वधिकं देवि करभेश्वरदर्शनात्॥५७॥
व्याधयो नोपजायन्ते दारिद्र्यं न कदाचन॥
ऐश्वर्यं चातुलं तेषां जायते दर्शनात्सदा॥५८॥
पशुयोनिगता ये च पितरो दुःखितास्तु ये॥
तिष्ठन्ति चाम्बरे ते तु चिन्तयन्तः स्वगोत्रजम्॥५९॥
आगमिष्यति नः पुत्रो नप्ता वा सन्तताविह॥
कदा पश्यति देवेशं करभेश्वरमीश्वरम्॥
तेन दर्शनमात्रेण मुक्तिर्नो भविता ध्रुवम्॥5.2.73.६०॥
यो यमुद्दिश्य वै कामं दर्शनं तु करिष्यति॥
तस्य तज्जायते सर्वं मृतस्य परमा गतिः ॥ ६१ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
करभेशस्य देवस्य शृणु राजस्थलेश्वरम् ॥ ६२ ॥।
इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे करभेश्वरमाहात्म्य वर्णनन्नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥