॥ ईश्वर उवाच ॥ ॥
द्विसप्ततीश्वरं विद्धि चन्द्रादित्येश्वरं प्रिये ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ॥ १ ॥
शम्बरेण पुरा देवि निर्जिताः सङ्गरे सुराः ॥
नष्टा रणं परित्यज्य प्राणत्राणपरायणाः ॥ २ ॥
ग्रस्तं च राहुणा दृष्ट्वा शशाङ्कं भयविह्वलम् ॥
विनतायाः सुतो ज्येष्ठः प्रोक्तः सूर्येण सारथिः ॥ ३ ॥
वहारुण रथं शीघ्रं यत्र युद्धं न विद्यते ॥
श्रूयते चन्द्रसूर्यौ तौ दैत्यानां बलवत्तरौ ॥ ४ ॥
राहुर्दंष्ट्राकरालस्तु स तृतीयो भयङ्करः ॥
न ज्ञायते रणे चन्द्रो मृतो नष्टोऽथवा पुनः ॥५ ॥
स च न ज्ञायते शक्रः क्व गतो वरुणो रणे॥
यमो न ज्ञायते कुत्र धनदस्य च का कथा॥६॥
एवमुक्तोऽरुणो रुग्णो रविणा रणमध्यतः॥
रथं सम्प्रेरयामास यत्र युद्धं न विद्यते ॥ ७ ॥
एतस्मिन्नन्तरे चन्द्रः समायातस्तु तत्क्षणात् ॥
राहुग्रहगृहीतोऽपि यत्र देवो दिवस्पतिः ॥ ८ ॥
सन्त्रस्तः स विलोलाक्षः क्षणमात्रमचेतनः ॥
बभूव सहसा चन्द्रो दृष्ट्वा देवं दिवाकरम् ॥ ९ ॥
शम्बरेण रणे रुद्धा रुद्राश्च भयविद्रुताः ॥
जग्मुर्दिशो दश भयादसुरेन्द्रविभीषिताः ॥ 5.2.72.१० ॥
साध्याः सर्वे भयत्रस्ता गता यत्र न दानवाः ॥
तेषु भग्नेषु देवेषु हतशिष्टेषु सङ्गरे ॥ ११ ॥
व्यधमत्सर्वगात्राणि वर्माणि च जनक्षये ॥
पलायमानदेवानामसुरो बलवच्छरैः ॥ १२ ॥
पृष्ठतो निजघानाथ निकृत्ताश्च सहस्रशः ॥
अहं नष्टच्छलेनैव व्यग्रीभूते ऽसुरे तदा ॥ १३ ॥
आसुरं रूपमास्थाय प्राणत्राणपरायणः ॥
शीघ्रं च गम्यते तावद्यावन्नायाति शम्बरः ॥ १४ ॥
इत्युक्तं निशिनाथेन भयभीतेन पार्वति ॥
चन्द्रादित्यौ क्षणान्नीतावरुणेन रथेन वै ॥ १५ ॥
यत्र देवो जगन्नाथो गरुडस्थो जनार्दनः ॥
सुरसङ्घातसङ्केतकिन्नराकीर्णकन्दरे ॥ ॥ १६ ॥
मन्दरे सुरनारीणां नन्दने वरचन्दने ॥
दृष्ट्वा तत्र जगन्नाथं शङ्खचक्रगदाधरम् ॥
स्तुतिं तौ चक्रतुर्देवौ चन्द्रसूर्यौ यशस्विनि ॥ १७ ॥
नमो लोकत्रयाध्यक्ष स्वप्रभाजितभास्कर ॥
नमो विष्णो नमो जिष्णो नमस्ते कैटभान्तक ॥ १८ ॥
नमः सर्वक्रियाकर्त्रे जगत्त्रात्रे च ते नमः ॥
नमश्चक्रायुधाधृष्य नमो दानवघातिने ॥ १९ ॥
नमः क्रमत्रयाक्रान्तत्रैलोक्यान्तर्हितोद्भव ॥
नमः प्रचण्डदैत्येन्द्रकुलकाल महाबल ॥ ॥ 5.2.72.२० ॥
नमो नाभिह्रदोद्भूतपद्मगर्भमहाप्रभो ॥
जनिताशेषलोकेशविरञ्चाय महाद्युते ॥ २१ ॥
अमरारिविनाशाय महासमरशालिने ॥
नमस्ते विबुधाधीश शरणं भव नः प्रभो ॥ २२ ॥
चन्द्रसूर्यकृतं स्तोत्रं श्रुत्वा देवो जनार्दनः ॥
आश्वास्य स्तुतिपूर्वेण प्राह देवो ह्यधोक्षजः ॥ २३ ॥ ॥
॥ विष्णुरुवाच ॥ ॥
स्वागतं चन्द्रसूर्यौ भो भवन्तौ स्तुतिभाजनौ ॥
किं कारणमिह प्राप्तौ तद्ब्रूतां विगतज्वरौ ॥ २४ ॥
नारायणेनैवमुक्तौ प्रोचतुश्चन्द्रभास्करौ ॥
समरे निर्जिता देवाः शम्बरेण दुरात्मना ॥ २५ ॥
न ज्ञाताः क्त्र गतास्ते च आवां नष्टौ प्रयत्नतः ॥
अरुणेन इहानीतौ दृष्टस्त्वं देव दैवतः ॥ २६ ॥
शम्बरेण जिता देवाः स च सर्वत्र दृश्यते ॥
स्थले चैव जले चैव शम्बरः क्रूरपौरुषः ॥ २७ ॥
नश्यतां त्रिदशेन्द्राणां पृष्ठतः शरवृष्टिभिः ॥
चिच्छेद नरवर्माणि च्छत्राणि च धनूंषि च ॥ २८ ॥
वर्माणि च विचित्राणि मुकुटानि महान्ति च ॥
पृथूनि चापि चापानि चर्माणि विविधानि च ॥ २९ ॥
गजाश्च मदसम्भिन्नकपोलाः कोटिशः सुराः ॥
वाजिनश्चामरापीडा रत्नपर्याणभूषणाः ॥ 5.2.72.३० ॥
विबुधा ध्वस्तसन्नाहा विगजा विपदातिनः ॥
विपदामाकराकारा बभूव सुरवाहिनी ॥ ३१ ॥
ततो दैत्याधिपो मानी परिवृत्तो महारणात् ॥
निर्जितारिर्महातेजा ज्वालावानिव पावकः ॥ ३२ ॥
वन्द्यमानो मुनिगणैः स्तूयमानो महर्षिभिः ॥
आनन्दितो जयाशीर्भिः प्रवरैर्दैत्यपुङ्गवैः॥ ३३॥
तत्र सर्वर्द्धिसम्पूर्णमासनं हेमभूषणम् ॥
अध्यतिष्ठत दैत्येन्द्रस्तत्र मङ्गलवेश्मनि ॥
तत्रोपविष्टः शुशुभे दैत्यराजो महायशाः ॥ ३४ ॥
दिव्यचन्दनपुष्टाङ्गः सुरपुष्पसमुज्ज्वलः ॥
मुकुटाकारजुष्टाङ्गः सितचामरवीजितः ॥
मृतोत्थितैस्तथा दैत्यैर्दैत्याधीशैरधिष्ठितः ॥ ३५ ॥
क्रतुभिर्मूर्त्तिमद्भिश्च सेव्य मानो महाबलः ॥
सर्वपुष्पोत्करयुतैर्नानाविहगनादिभिः ॥ ३६ ॥
तत्र श्रीरतुला लोके तत्र लक्ष्मीर्निरर्गला ॥
तत्र कान्तिर्द्युतिः शोभा शम्बरो यत्र दानवः ॥ ३७ ॥
एवं स दैत्यनृपतिः सभृत्यस्तत्र मोदते ॥
स्वयमिन्द्रस्तु सञ्जातश्चन्द्रसूर्यौ कृतौ स्वकौ ॥ ३८॥
तयोरिति वचः श्रुत्वा स देवः पुरुषोत्तमः ॥
चिरं ध्यात्वा स्वमनसि तदावोचदिदं प्रिये ॥ ३९ ॥
चन्द्रसूर्यौ मया ज्ञातं शम्बरस्य विचेष्टितम् ॥
ब्रह्मणो वरदानेन भोक्तव्यं तपसः फलम्॥ 5.2.72.४० ॥
शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना ॥
हृदये निहतः सोऽपि तथापि न मृतोऽसुरः ॥ ४१ ॥
गम्यतां च मयाज्ञप्तौ महाका लवनोत्तमे ॥
चन्द्रसूर्यौ ममादेशात्तत्र सिद्धिं च लप्स्यथ ॥ ४२ ॥
तत्रानन्तो महाकालो लिङ्गरूपो महेश्वरः ॥
तस्य चोत्तरतो देशे लिङ्गं कामप्रदं शिवम् ॥ ४३ ॥
तस्य दर्शनमात्रेण कृतकृत्यौ भविष्यथः ॥
तस्य ज्वालासमूहेन मरणं शम्बरस्य च ॥
भविष्यति न सन्देहस्तस्मात्तत्रैव गम्य ताम्॥ ४४ ॥
इत्युक्तौ वासुदेवेन चन्द्रसूर्यौ यशस्विनि ॥
सत्वरं हृष्टरोमाणौ महाकालवनं गतौ ॥ ४५ ॥
तत्र दृष्ट्वा महादेवं तेजसो राशिमव्य यम् ॥
स्तुतं च विविधैः स्तोत्रैः पूजितं कुसुमैः शुभैः ॥ ४६ ॥
एतस्मिन्नन्तरे वाणी लिङ्गमध्यात्समुत्थिता ॥
आश्वासयन्ती तरसा चन्द्रसूर्यौ हिमात्मजे ॥ ४७ ॥
हतः स शम्बरो दैत्यो गतौ तौ चन्द्रभास्करौ ॥
दैत्यानां निर्मितौ दुष्टौ पातालान्तरसंस्थितौ ॥ ४८ ॥
राहुकेतू ग्रहान्ते तु कृतौ समयपूर्वकौ ॥
स्थापितः स्वपदे शक्रो देवैः सह न संशयः ॥ ४९ ॥
स्वं स्वं स्थानं गताः सर्वे लोकपाला मुदा युताः ॥
कान्तिप्रतापसंयुक्तौ भवन्तौ भुवनत्रये ॥ 5.2.72.५० ॥
गगने ग्रहनक्षत्रैः सहितौ विचरिष्यथः ॥
पूर्ववत्पुण्यपापानां साक्षिभूतौ भविष्यथः ॥ ५१ ॥
इत्युक्तौ चन्द्रसूर्यौ तु तया वाण्या वरानने ॥
सन्तुष्टौ कृतकृत्यौ तु सञ्जातौ लिङ्गदर्शनात् ॥ ५२ ॥
एतस्मिन्नन्तरे देवा विमानस्था समागताः ॥
यत्र चन्द्रश्च सूर्यश्च महाका लवने शुभौ ॥ ५३ ॥
ज्ञात्वा लिङ्गस्य माहात्म्यं नाम चकुः समाहिताः ॥
सेवितं चन्द्रसूर्याभ्यां लिङ्गं तेजोमयं परम् ॥ ५४ ॥
चन्द्रादित्येश्वरन्नाम ख्यातिं यास्यति भूतले ॥
लिङ्गस्यास्य समुत्थेन ज्वालासङ्घेन शम्बरः॥
दग्धो भृत्यजनैः सार्द्धं चन्द्रसूर्यानुसेवनात्॥ ५५ ॥
इत्युक्त्वा त्रिदशाः सवें समीपे सर्वतः स्थिताः॥
स्तुवन्तो विविधैः स्तोत्रैश्चन्द्रादित्येश्वरं शिवम्॥ ५६ ॥
चन्द्रादित्यौ च तत्रस्थौ स्थितौ लिङ्गसमीपतः ॥
आराधयन्तौ देवेशं पदं प्राप्तौ च पूर्ववत् ॥ ५७ ॥
ये पश्यन्ति नरा भक्त्या चन्द्रादित्येचरं शिवम् ॥
ते यान्ति सूर्यलोकं तु चन्द्रलोकं तथैव च ॥५८॥।
विमानैः सूर्यसकाशैस्तथा चन्द्रप्रभैः शुभैः ॥
यावच्चन्द्रश्च सूर्यश्च तावत्तेषां सुखं भवेत् ॥ ५९ ॥
चन्द्रसूर्योपरागे तु चन्द्रादित्येश्वरं शिवम् ॥
ये पश्यन्ति नरा भक्त्या स्नात्वा शिप्रां च पावनीम्॥ 5.2.72.६० ॥
तेषां कुलशतं यावत्पैतृकं मातृकं तथा ॥
लोके चन्द्रस्य सूर्यस्य मोदते शाश्वतीः समाः॥ ॥ ६१ ॥
अमासोमसमायोगे ये पश्यन्ति प्रसङ्गतः ॥
चन्द्रादित्येश्वरं देवं न ते यान्ति यमालयम् ॥ ६२ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
चन्द्रादित्येश्वरेशस्य श्रूयतां करभेश्वरम् ॥ ६३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीति लिङ्गमाहात्म्य उमामहेश्वरसंवादे चद्रादित्येश्वरमाहात्म्यवर्णनन्नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥