॥ ईश्वर उवाच ॥ ॥
एकसप्ततिकं विद्धि प्रयागेश्वरसञ्ज्ञकम् ॥
अद्वितीयं विजानीहि महापातकनाशनम् ॥ १ ॥
हास्तिनेऽ भूत्पुरे श्रीमाञ्छन्तनुर्नृपसत्तमः ॥
वैवस्वतेंऽतरे कल्पे युगे द्वापरसञ्ज्ञके ॥ २ ॥
स चाद्भुतमहावीर्यो वज्रसंहननो युवा ॥
सर्वशास्त्रेषु कुशलः कला पुञ्जविचक्षणः ॥ ३ ॥
बलेन विष्णुसदृशस्तेजसा भास्करोपमः ॥
गङ्गामेष चचारैकः सिद्धचारणसेविताम् ॥ ४ ॥
स कदाचिन्महाबाहुः प्रभूत बलवाहनः ॥
वनं जगाम गहनं हयनागशतैर्वृतः ॥ ५ ॥
गत्वा तत्र मृगान्व्याघ्रान्घातयामास लीलया ॥
महिषाश्ववराहांश्च विनिघ्नन्राजसत्तमः ॥ ॥ ६ ॥
स कदाचिद्वने तस्मिन्ददर्श परमां स्त्रियम् ॥
जाज्वल्यमानां वपुषा साक्षात्पद्मामिवापराम् ॥ ७ ॥
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा ॥
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥ ८ ॥
सा दृष्ट्वैव च राजानं विचरन्तं महाद्युतिम् ॥
स्नेहादागतसौहार्दान्नातृप्यत विलासिनी ॥ ९॥
तामुवाच ततो राजा सान्त्वयञ्छ्लक्ष्णया गिरा ॥
देवी वा दानवी त्वं च गन्धर्वी यदि वाप्सराः ॥ 5.2.71.१० ॥
यक्षी वा पन्नगी वा त्वं मानुषी वा सुमध्यमे ॥
याचे त्वांऽभोजगर्भाभे भार्या मे भव शोभने ॥ ११ ॥
एतच्छ्रुत्वा वचो राज्ञः संस्तुतं मृदु वल्गु च ॥
अङ्गीकृतं तया देवि समयं प्रार्थितो नृपः ॥ १२ ॥
वारिता विप्रिये वापि त्यजेयं त्वामसंशयम् ॥
न प्रष्टव्या त्वया राजन्कासि कस्येति सर्वथा ॥ १३ ॥
एवमस्त्विति तेनोक्तं सत्येन सुकृतेन च ॥
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च ॥ १४ ॥
उपचारेण च रहस्तुतोष जगतीपतिः ॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी ॥ १५ ॥
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनि ॥
राजानं रमयामास यथा रेमे तथैव च ॥ १६ ॥
स राजा रति सक्तत्वादुत्तमस्त्रीगुणैर्हृतः ॥
संवत्सरानृतून्मासान्न बुबोध बहून्गतान्॥ १७ ॥
रममाणस्तया सार्द्धं यथाकामं नरेश्वरः ॥
अष्टावजनयत्पुत्रां स्तस्याममरवर्णिनः ॥ १८ ॥
जातं जातं च सा पुत्रं क्षिपत्यम्भसि मुक्तये ॥
प्रीणामि त्वामहमिति गङ्गास्रोतसि पावने ॥ १९ ॥
नास्य तत्तु प्रियं राज्ञः शन्तनोर्ह्यभवत्तदा ॥
नोवाच किञ्चित्तां देवीं त्यागाद्भीतो महीपतिः ॥ 5.2.71.२० ॥
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव ॥
उवाच राजा दुःखार्त्तः परीप्सन्पुत्रमात्मनः ॥ २१ ॥
मा वधीः कस्य कासीति किं विध्वंसि सुतानिति ॥
पुत्रहिंसा महत्पापं मा प्राप्सीस्तिष्ठ गर्हिते ॥ २२ ॥
॥ गङ्गोवाच ॥ ॥
पुत्रकामा न ते हन्मि पुत्रं पुत्रवतांवर ॥
जीर्णस्तु मम वासोऽयं यथा मे समयः कृतः ॥ २३ ॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता ॥
देवकार्यार्थसिद्ध्यर्थमुषित्वाहं त्वया सह ॥ २४ ॥
इमेऽष्टौ वसवो देवा महाभीमा महौजसः ॥
वशिष्ठशापदोषेण मानुषत्वमुपागताः ॥ २५ ॥
तेषामानयिता नान्यस्त्वदृते भुवि विद्यते ॥
मद्विधा मानुषी धात्री न चैवास्ति कदाचन ॥ २६ ॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ॥
स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रत ॥ २७ ॥
सैवमुक्त्वा तदा गङ्गा विष्णुमायाविमोहिता ॥
रुरोद मानुषं भावमाश्रिता तनुमध्यमा ॥ २८ ॥
अहो बत महत्कष्टं यदमी घातिताः सुताः ॥
मया नृशंसया मोहाज्जले क्षिप्तास्तु बालकाः ॥ २९ ॥
हा वत्सा हा सुताः पुत्रा हा तातास्तनयाः क्व वै ॥
मां विहाय गताः कुत्र हृदयं किं न दीर्यते ॥ 5.2.71.३० ॥
मातर्मातेति करुणं ब्रुवाणाः स्वयमागता ॥
उपगुह्ये कदा पुत्रान्वत्सवत्सेति सौहृदात् ॥ ३१ ॥
कस्य जातु प्रणीतेन पिङ्गेन क्षितिरेणुना ॥
ममोत्तरीयमुत्सङ्गं कदाङ्ग मलयिष्यति ॥ ३२ ॥
अङ्गप्रत्यङ्गसम्भूता मनोहृदयनन्दनाः ॥
मया तु मात्रा हा वत्सा मारिता निधनं गताः ॥ ३३ ॥
काल्ँलोकान्नु गमिष्यामि कृत्वा कर्म सुदारुणम् ॥
कथं पुण्या भविष्यामि पुत्रप्नी निर्दया सती ॥ ॥ ३४ ॥
इत्येवं करुणं कृत्वा रुदित्वा च पुनःपुनः ॥
मूर्छिता पतिताप्यार्ता निश्चेष्टा धरणीतले॥ ३५॥
एतस्मिन्नन्तरे देवि नारदो मुनिसत्तमः ॥
तस्या विलापशब्दं तमाकर्ण्य सहसा तदा॥ ३६ ॥
विस्मयोप्फुल्लनयनः किमेतदिति चिन्तयत् ॥
एषा सा जाह्नवी गङ्गा पावनी देववन्दिता ॥ ३७ ॥
समुद्रमहिषी दिव्या पुण्या त्रिपथगा नदी ॥
मानुषं भावमाश्रित्य कस्माद्रोदिति विह्वला ॥ ३८ ॥
इत्येवं चिन्तयित्वा च समीपमगमन्मुनिः ॥
गङ्गाया विलपन्त्याश्च ब्रह्मपुत्रस्तु नारदः ॥
उवाचोच्चैर्वियत्स्थोऽसौ देवि गङ्गे नमोऽस्तुते ॥ ३९ ॥
नारदोऽहं महापुण्ये कस्माद्रोदिषि पावनि ॥
हिमाद्रिपुत्री विख्याता देवगन्धर्वसेविता॥ 5.2.71.४० ॥
धृता शिरसि देवेन शिवेन परमेष्ठिना ॥ ४१ ॥
नारदस्य वचः श्रुत्वा दिव्या देवनदी तथा ॥
अवलोक्य विमानस्थं प्रत्युवाच महामुनिम् ॥ ४२ ॥
मया नारद मोहेन कृतोऽधर्मो जुगुप्सितः ॥
जानन्त्या सुमहत्पापं सप्तपुत्रा हता मया ॥ ॥ ४३ ॥
समुद्रेण वियोगस्तु सञ्जातो मम दैवतः ॥
भार्या जाता मनुष्यस्य पुत्रा जाता हताश्च मे ॥ ४४ ॥
अतो मया विलपितं मग्नया शोकसागरे॥
कथ्यतां मम देवर्षे येन पुण्या भवामि वै ॥ ४५ ॥
इति तस्या वचः श्रुत्वा नारदो मुनिसत्तमः ॥
त्रिकालवेदी शुद्धात्मा गङ्गां वचनमब्रवीत्॥ ४६ ॥
॥ नारद उवाच॥ ॥
किं विस्मृतो जगद्वन्द्ये देवानां समयः शुभः ॥
प्रतिज्ञातं त्वया देवि वसूनां मोक्षकारणे ॥ ४७ ॥
प्राप्तास्ते वसवो लोकान्प्रसादात्तव सुव्रते ॥
त्वयावतारितो देवि समुद्रः शन्तनुः स्मृतः ॥ ४८ ॥
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः ॥
गङ्गा त्रिपथगा पुण्या प्रत्युवाच महामुनिम्॥ ४९ ॥
सत्यमुक्तं त्वया ब्रह्मञ्ज्ञातं सर्वं मयाऽधुना ॥
किन्तु योनिर्यतो लब्धा मानुषी तेन मोहिता ॥ 5.2.71.५० ॥
अपवादभयाद्भीता भवन्तं शरणं गता ॥
दीयतामुपदेशो मे कथ्यतां स्थानमुत्तमम् ॥ ५१ ॥
॥ नारद उवाच ॥ ॥
किं विस्मृतो जगद्वन्द्ये देवानां समयः कृतः ॥
अपवादभयाद्भीता यदि त्वं देवि पुण्यदे ॥
मां पृच्छसि परं स्थानं शृणु त्वं वच्मि सुव्रते ॥ ५२ ॥
अवन्ती तु समाख्याता सप्त कल्पसनातनी ॥
तस्यां सखी त्वदीया तु शिप्रा विप्रप्रिया सदा ॥ ५३ ॥
तस्यास्तीरे शुभं लिङ्गं दुर्द्धर्षेश्वरदक्षिणे ॥
विद्यते त्रिदशैः पूज्यं सर्वती र्थैश्च सेवितम् ॥ ५४ ॥
तस्य दर्शनमात्रेण कृतकृत्या भविष्यसि ॥
तस्माद्गच्छ महापुण्ये गङ्गे देवर्षिसेविते ॥ ५५ ॥
इत्युक्ता सा त्रिपथगा नारदेन महात्मना ॥
गता तत्र महापुण्या सखीं शिप्रां ददर्श ह ॥ ५६ ॥
संश्लेषं च तदा कृत्वा लिङ्गं दृष्ट्वा सुपावनम् ॥
पूजयामास भावेन तत्रैव च चिरं स्थिता ॥ ५७ ॥
अथ सूर्यसुता देवी यमुना पापनाशिनी ॥
तत्रायाता सुहार्द्देन यत्र गङ्गा व्यवस्थिता ॥ ५८ ॥
ददर्श देवी तां गङ्गां ध्यायन्ती शङ्करं शिवम्॥
सापि तत्रैव तिष्ठन्ती पूजयन्ती परं शिवम्॥ ५९ ॥
अथ तेनैव कालेन प्राचीदेवी सरस्वती ॥
समायाता सुगुप्ता च गङ्गायमुनयो र्जले ॥ 5.2.71.६० ॥
एतस्मिन्नन्तरे देवि शक्रं .प्राह स नारदः ॥
न दृश्यते प्रयागस्तु महाकालवनं गतः ॥ ६१ ॥
गङ्गायमुनयोर्मध्ये यत्र गुप्ता सरस्वती ॥
प्रयागः स तु विज्ञेयः सर्वपापप्रणाशनः ॥ ६२ ॥
स साम्प्रतं प्रयागस्तु महाकालवनोत्तमे ॥
केनापि कारणेनैव गतो न ज्ञायते मया॥६३॥
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः॥
शक्रेण सहिताः सर्वे ह्यवन्तीं तु समागताः॥६४॥
स्तुवन्तो विविधैः स्तोत्रैर्गङ्गां त्रिपथगां शुभाम्॥
गङ्गे देवि नमस्तुभ्यं सर्वपापप्रणाशिनि॥६५॥
वसूनां जननी देवि वसूनां मोक्षदायिनि॥
त्रैलोक्यपावनी नित्यं हरेण शिरसा धृता ॥ ६६ ॥
सेविता वालखिल्यैश्च कृष्णस्य परमा कला ॥
यमुने त्वां नमस्यामः कालिन्दीं वरवाहिनीम्॥ ६७॥
सुता त्वं पाविनी देवि मार्त्तण्डस्य दिवस्पतेः॥
शिप्रे देवि नमस्तुभ्यं ब्रह्मदेहोद्भवे शुभे॥६८॥
प्राची त्वमेव विख्याता पुण्यदेहा सरस्वती ॥
या प्राची कौरवक्षेत्रे पुष्करे या महालये ॥
सा त्वं शिप्रा प्रसिद्धा च सर्वपातकनाशिनी॥ ६९ ॥
त्वं दया सर्वजन्तूनां स्वर्गः शरणं नृणाम् ॥
त्वं माता सर्वजन्तूनां त्वं प्राची भुवि गीयसे ॥ 5.2.71.७० ॥
बहुजन्मकलङ्काङ्कं दृष्ट्वा या देहिनां भुवि ॥
करोषि क्षालनं देवि सा त्वं त्रैलोक्यसंस्थिता ॥ ७१ ॥
आसां च सङ्गमो यस्तु स प्रयागो बुधैः स्मृतः ॥
अत्रागत्य तु युष्माभिः स्थापितः स्नापितोऽधुना ॥ ७२ ॥
सोद्य प्रभृति देवोऽयं प्रयागेश्वरसञ्ज्ञकः ॥
त्रिषु लोकेषु विख्यातः स्मरणात्पापनाशनः ॥ ७३ ॥
अत्रागत्य प्रपश्यन्ति ये प्रयागेश्वरं ततः ॥
ते कृतार्था भविष्यन्ति सर्वपातकवर्जिताः ॥ ७४ ॥
कुलं च तारितं तेषां पैतृकं मातृकं तथा ॥
गङ्गायास्त्रियुगं पुण्यं चतुर्वर्गफलप्रदम् ॥
जायते नात्र सन्देहः प्रयागेश्वरदर्शनात् ॥ ७५ ॥
गङ्गायां च प्रयागे च देवदारुवने शुभे॥
नैमिषे पुष्करे चैव श्रीशैले च त्रिपुष्करे ॥ ७६ ॥
त्र्यम्बके धौतपापे च महेन्द्रे भैरवे तथा॥
गोकर्णे च सुवर्णाख्ये रेवाकपिलसङ्गमे ॥७७॥
एतेषां दर्शनेनैव या सिद्धिर्द्वादशाब्दिका ॥
सा लभ्या मासमात्रेण प्रयागेश्वरदर्शनात् ॥ ७८॥
ये पश्यन्ति चतुर्द्दश्यामष्टम्यां च विशेषतः ।
भक्त्या च नियमं कृत्वा प्रयागेश्वरसञ्ज्ञकम् ॥ ७९ ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
भोगदं मोक्षदं लिङ्गं भविष्यति महीतले ॥ 5.2.71.८०॥
कलास्तिस्रो भविष्यन्ति लिङ्गेऽस्मिन्मोक्षदे शुभे ॥
गङ्गा च यमुना प्राची सर्वपातकनाशिनी ॥ ८१ ॥
एवमुक्त्वा स्तुता गङ्गा यमुना च सरस्वती ॥
देवैः प्रणतिपूर्वेण गताः स्थानं स्वकं तदा ॥ ८२ ॥
देवाः प्रहृष्टाः शकाद्याः प्रयागेश्वरसञ्ज्ञकम् ॥
स्तुत्वा च विविधैः स्तोत्रैः पूजयित्वा दिवं गताः॥८३॥
एष ते कथितो देवि प्रभावः पापनाशनः॥
प्रयागेश्वर देवस्य चन्द्रादित्येश्वरं शृणु ॥ ८४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये उमामहेश्वरसंवादे प्रयागेश्वरमाहात्म्यवर्णनन्नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥