॥ ईश्वर उवाच ॥ ॥
शृणु सप्ततिकं देवं दुर्द्धरेश्वरमीश्वरम् ॥
यस्य दर्शनतो देवि नरः पापैः प्रमुच्यते ॥ १ ॥
दुर्द्धर्षोनाम राजाभून्नेपालविषये पुरा ॥
पुण्यकेतुर्यशस्वी च सत्यसन्धो दृढव्रतः ॥ २ ॥
तिस्रस्तस्याभवन्भार्यास्तत्तुल्याः सुमनोहराः ॥
विहरन्त वनोद्याने वसन्ते पृथिवीपतिः ॥ ३ ॥
कदा मृगरसाविष्टो देवाद्वै वातरंहसा॥
तुरगेणोहितः प्राप वनं रुचिरपादपम् ॥४॥
गजेन्द्रमृगशार्दूलसिंहसम्बरसङ्कुलम् ॥
ऋक्षवानरवाराहगण्डकादिविराजितम् ॥५ ॥
तस्मिन्वने सुविस्तीर्णं कदलीखण्डमण्डितम् ॥
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ६ ॥
ददर्श दर्पणस्वच्छं सरो नीरजराजितम् ॥
स्नातसिद्ध वधूवृन्दकुचकुङ्कुमपिञ्जरम् ॥ ७ ॥
ददर्श कन्यां तत्रैव काननस्येव देवताम् ॥
स तां दृष्ट्वा सुचार्वङ्गीं मन्मथेन प्रपीडितः ॥ ८ ॥
चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः ॥
सा भुजङ्गीव सङ्कृष्टा मन्त्रेणेवान्तिकं ययौ ॥ ९ ॥
कन्दर्पकोटिसदृशं विश्रान्तं नृपमब्रवीत् ॥
सुतां मां विद्धि राजेन्द्र कल्पस्य प्राणवल्लभाम् ॥ 5.2.70.१० ॥
तपोरतस्य शान्तस्य सर्वदा ब्रह्मचारिणः ॥
मदर्थे प्रार्थ्यतां विप्र स मां तुभ्यं प्रदास्यति ॥ ११ ॥
इति तस्या वचः श्रुत्वा मन्मथेनाकुलीकृतः ॥
लज्जां त्यक्त्वा स भूपालो ययाचे विजने च ताम् ॥ १२ ॥
मम प्राणव्ययः सुभ्रूस्त्वां विना समुपस्थितः ॥
कार्याकार्यविचारो हि कस्य जीवितशान्तये ॥ १३ ॥
त्यज्यते प्राप्तममृतं यदेतद्बुद्धिलाघवम् ॥
को जानीते परे लोके कस्य किं नु भविष्यति ॥ ॥ १४ ॥
भज मामनवद्याङ्गि तवेतद्वदनामृतम्॥
न पाययसि चेन्मह्यं मृतं जानीहि मे प्रिये ॥ १५ ॥
स्वयं पिबामि चेद्विद्धि परलोकगतं हि माम् ॥
श्रुत्वेति चकिता तन्वी प्रोवाच विनयान्विता ॥ १६ ॥
भ्रष्टायां मयि तातस्य विनष्टे कन्यकाफले ॥
कुलं पतति नः सर्वं तस्मादेतद्विचि न्त्यताम्॥ १७ ॥
यदि ते परमं प्रेम ममोपरि महीपते ॥
मदर्थे प्रार्थ्यतां विप्र स मां नृनं प्रदास्यति ॥ १८ ॥
तस्यास्तद्वचनं श्रुत्वा नान्यथा मे भविष्यति ॥
ज्ञात्वा कन्यां द्विजस्यैव कल्पस्य ब्रह्मचारिणः ॥ १९ ॥
गत्वा ययाचे प्रणतः स्थितं निजतपोवने ॥
मुनीन्द्रश्चन्द्रवदनां स चास्मै तां ददौ मुदा ॥ 5.2.70.२० ॥
तत्रैव सङ्गतो राजा मन्मथेन वशीकृतः ॥
रेमे रमणकैर्योगैर्न सस्मार निजं पुरम् ॥ २१ ॥
कदलीखण्डकुञ्जेषु रम्यासु वनराजिषु ॥
बहुलाम्रकदम्बेषु राजा भेजे नवां वधूम् ॥
सिषेवे चारु सुरतं स विदग्धोऽतिमुग्धया ॥ २२ ॥
एवं हि वसतस्तस्य दुर्द्धर्षस्य वरा नने ॥
आजगाम सुदुर्द्धर्षो राक्षसोऽतिभयङ्करः ॥ २३ ॥
ज्वलितो विकटाकारो दंष्ट्रोत्कटकटाननः ॥
तं नृपं मोहयित्वा तु तरसा तरलेक्षणाम् ॥
जहार मन्मथाविष्टो रूपयौवनशालिनीम् ॥ २४ ॥
राजा च तां हृतां दृष्ट्वा वियोगविषमूर्छितः ॥
स्मृत्वास्मृत्वा सुचार्वङ्गीं विललापाकुलेन्द्रियः ॥ ॥ २५ ॥
हा प्रिये प्रेमपीयूषे प्रणयामृतदीर्घिके ॥
हा सुन्दरि विशालाक्षि वक्व गता मां विहाय वै ॥ २६ ॥
पुनरिन्दुमिवानन्दं कदा द्रक्ष्यामि ते मुखम् ॥
इति प्रलापमकरोत्स्मरंस्तां चारुहासिनीम् ॥
उन्मत्त इव बभ्राम तत्र तत्र स्मरातुरः ॥ २७ ॥
एवं विलपतस्तस्य दुर्दर्षस्य नृपस्य तु ॥
आजगाम तमुद्देशं कल्पो ब्राह्मणसत्तमः ॥
ददर्श नृपतिं तत्र भ्रमन्तं भ्रमरं यथा ॥ २८ ॥
ज्ञात्वा जामातरं सम्यक्समाश्वास्य वचोऽब्रवीत् ॥
एहि दुर्द्धर्ष राजेन्द्र गहना कर्मणो गतिः ॥
क्व गतो हि महीपाल नेपालविषयस्तव ॥ २९ ॥
कुलीना रूपवत्यश्च तिस्रो भार्याः क्व वै गताः ॥
क्व ते राज्यं गतं भूप कुत्र पुत्री गता मम ॥ 5.2.70.३० ॥
सर्वं विनश्वरं लोके गन्धर्वनगरोपमम् ॥
अनित्यं जीवितं भूप राज्यं वै बुद्बुदोपमम् ॥ ३१ ॥
एवमाश्वासितो राजा कल्पेन च पुनःपुनः ॥
सस्मार तां सुचार्वङ्गी मन्मथेन प्रपीडितः ॥ ३२ ॥
ब्रूहि मे भगवन्सम्यग्यदि तेऽस्ति दया मयि ॥
कथं राज्यं स्वकीयं स्यात्कथं मे सुहृदागमः॥ ३३ ॥
तिस्रो भार्याः कथं विप्र पश्यामि पृथिवीतले ॥
लावण्यामृतशालिन्यस्तव पुत्र्या द्विजोत्तम ॥
कथं समागमो भूयो भविष्यति मया सह॥३४॥
इति तस्य वचः श्रुत्वा विप्रेणोक्तं वरानने॥
गच्छ भूपाल नेपालं महाकालं ततो व्रज॥३५॥
तस्मिन्क्षेत्रे तीर्थवरे लिङ्गं सर्वार्थसाधकम् ॥
विद्यते यत्र सूर्येण तपस्तप्तं सुदुष्करम्॥ ३६ ॥
शिप्रायास्तु तटे रम्ये पुण्ये ब्रह्मेशपश्चिमे॥
तस्य दर्शनमात्रेण तवाभीष्टं भविष्यति ॥ ३७ ॥
कल्पस्य वचनं श्रुत्वा सत्वरो नृपसत्तमः ॥
नेपालं च ततो गत्वा समाश्वास्य सुहृज्जनम्॥ ३८ ॥
सान्तःपुरपरीवारो महाकालवनं गतः ॥
सर्वदा सर्वसिद्धीनामाश्रयं विषयं श्रियः ॥ ३९ ॥
तत्र स्नात्वा जले पुण्ये शिप्रायाश्चाशुसिद्धिदे ॥
सूर्येणाराधितं लिङ्गं ददर्श नृपसत्तमः ॥ 5.2.70.४० ॥
पूजयामास रत्नैश्च दिव्यैर्वस्त्रैः सुभूषणैः ॥
कर्पूरेण सुगन्धेन लिङ्गपूजा कृता तदा ॥ ४१ ॥
मुक्ताफलैः सुतारैश्च जलधाराभिरेव च ॥
भक्त्या ननर्त्त तस्याग्रे संस्तुवन्विविधैः स्तवैः ॥ ४२ ॥
शुश्राव श्रोत्रपीयूषं गीतं देवगृहे शुभे ॥
तच्छ्रुत्वा कौतुकाविष्टो ध्वनिं श्रुत्वा मनोरमाम् ॥
प्रियामपश्यत्तत्रस्थां लावण्यललनावधिम् ॥ ४३ ॥
तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत् ॥
क्षिप्रं तद्दर्शनेनैव स्मरेण तरलीकृतः ॥ ४४ ॥
ज्ञात्वा मे सैव पत्नीयं दृष्टा देवप्रसादतः ॥
सापि लावण्यनलिनी राजहंसं विलोक्य तम् ॥ ४५ ॥
क्षिप्रं पुलिकिता तस्या विरराज कुचस्थली ॥
एतस्मिन्नन्तरे देवि वाणी लिङ्गात्समुत्थिता ॥ ४६ ॥
विश्वावसोः सिद्धपतेः सुतैषा प्राणवल्लभा ॥
कल्पेन पालिता सम्यस्त्वदर्थं नृपसत्तम ॥ ४७ ॥
आनीता ते मया पत्नी हत्वा तं राक्षसाधि पम् ॥
गृहाण च मया दत्तां भुङ्क्ष्व राज्यमकण्टकम् ॥ ४८ ॥
इत्युक्तोऽसौ गतो देवि लब्ध्वा भार्यां प्रियां तदा ॥
सान्तःपुरपरीवारो लिङ्गस्यास्य प्रभावतः ॥ ४९ ॥
आराधितो नरेन्द्रेण दुर्द्धर्षेण महात्मना ॥
तदाप्रभृति देवोऽयं दुर्द्धर्षेश्वरसञ्ज्ञकः ॥
त्रिषु लोकेषु विख्यातो वाञ्छितार्थफल प्रदः ॥ 5.2.70.५० ॥
ये पश्यन्ति विशालाक्षि दुर्द्धर्षेश्वरसञ्ज्ञकम् ॥
ते दुर्द्धर्षा भविष्यन्ति शत्रूणां समरे सदा ॥ ५१ ॥
सङ्क्रान्तौ रविवारे च ग्रहणे चन्द्र सूर्ययोः ॥
गत्वार्चयन्ति ये देवि देवं दुर्द्धर्षमीश्वरम्॥
ते प्रयान्ति विमानेन मदीयं स्थानमुत्तमम् ॥ ५२ ॥
पापाचाराश्च ये जीवा दुष्कर्मनिरता नराः ॥
मुच्यन्ते पातकात्सद्यो दुर्द्धषेंश्वरदर्शनात् ॥ ५३ ॥
दर्शनात्स्पर्शनात्सद्यो नामसङ्कीर्तनादपि ॥
ब्रह्महत्यासहस्रं हि तत्क्षणादेव नश्यति ॥ ॥ ५४ ॥
कृतघ्नो निन्दको दुष्टः पापकर्मा दुरात्मवान् ॥
परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः ॥
मुच्यते सर्वपापेभ्यो दुर्द्धर्षेश्वरदर्शनात् ॥ ५५ ॥
अयने विषुवे चैव सम्प्राप्ते सोमपर्वणि ॥
ये पश्यन्ति च दुर्द्धर्षं स्नात्वा शिप्राजले शुभे ॥
गङ्गायास्त्रिगुणं पुण्यं जायते नात्र संशयः ॥ ५६ ॥
तत्र यद्दीयते दानं तस्य सङ्ख्या न विद्यते ॥
पितरस्तोषितास्तेन आत्मा वै तोषितस्ततः ॥ ५७ ॥
कल्पकोटिसहस्रं तु मत्पुरे पूजितो वसेत् ॥
यदा याति च भूलोके तदासौ भूपतिर्भवेत् ॥ ५८ ॥
अधृष्यः शत्रुवर्गेण फलं प्राप्नोति चाक्षयम् ॥
पदं यत्त्रिदशैर्वन्द्यं पुनरावृत्तिवर्जितम् ॥ ॥ ५९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
दुर्द्धर्षेश्वरदेवस्य प्रयागेशमतः शृणु ॥ 5.2.70.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे दुर्द्धर्षेश्वरमाहात्म्यवर्णनन्नाम सप्ततितमोऽध्यायः ॥ ७० ॥