०६९ सङ्गमेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच।॥ ॥
एकोनसप्ततिं देवि शृणु पार्वति यत्नतः ॥
यस्य दर्शनमात्रेण सङ्गमो जायते सदा ॥ १ ॥
कलिङ्गविषये देवि सुबाहुर्नाम पार्थिवः॥
बभूव भुवि विख्यातो यज्वा परमधार्मिकः ॥ २ ॥
तस्य पत्नी विशालाक्षी दुहिता दृढधन्वनः ॥
काञ्चीपुरनिवासस्य क्षात्रव्रतरतस्य च ॥ ३ ॥
परस्परानुरागत्वात्परा प्रीतिरभूत्तयोः ॥
तस्य राज्ञः शिरोऽर्त्तिस्तु मध्याह्ने जायते सदा ॥ ४ ॥
आयुर्वेदविदां मुख्यैः शरीरस्य चिकित्सकैः ॥
तैः प्रणीताः प्रिये योगा व्यथावृद्धिर्दिनेदिने ॥ ५ ॥
एवं बहुतरे काले गते देवि महीपतिम् ॥
प्रत्युवाच विशालाक्षी भर्त्तुर्दुःखेन पीडिता ॥ ६ ॥
कथमेषा शिरोरोगे जरा ते पृथिवीपते ॥
वैद्याश्च बहवो देव नानाशास्त्रविशारदाः ॥
प्रयतन्तेऽस्य नाशाय तथाप्येष न शाम्यति ॥ ७ ॥
एवं स प्रियया प्रोक्तः सुबाहुः पृथिवीपतिः ॥
प्रत्युवाच प्रियां भार्यां प्रेम्णा प्रणयवत्सलाम् ॥ ८ ॥
सुखदुःखाश्रयं देवि शरीरं सर्वदेहिनाम् ॥
पूर्वकर्मानुसारेण सुखं दुःखं च जायते ॥ ९ ॥
इति सम्बोधिता राज्ञी तेन राज्ञा वरानने ॥
पुनः प्रोवाच हार्द्देन तमेवार्थं सुदुःखिता ॥ 5.2.69.१० ॥
यदा सा वारितात्यर्थं पृच्छत्येव पुनःपुनः ॥
तदा राजा प्रहस्यैव तां च राज्ञीमुवाच ह ॥ ११ ॥
यदि त्वं श्रोतुकामासि रोगस्यास्य समुद्भवम् ॥
कारणं तत्त्वतो देवि नाख्यास्याम्यहमत्र वै ॥ १२ ॥
महाकालवनं गत्वा सिद्धगन्धर्वसेवितम् ॥
तत्र ते कथयिष्यामि यदि कौतूहलं तव ॥ १३ ॥
श्वः प्रभाते गमिष्यामि त्वया सार्द्धं शुचिस्मिते ॥
इति तस्य वचः श्रुत्वा सा राज्ञी विस्मिता स्थिता॥
उत्सुका गमनार्थाय महाकालवनं शुभम् ॥१४॥
अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥
प्रतस्थे भार्यया सार्द्धं सैन्येन महता वृतः ॥ १५ ॥
आजगाम क्रमेणैव महाकालवनं शुभम् ॥
आवासं विदधे धीमाच्छिप्रातीरे नृपस्तदा ॥ १६ ॥
पातालवाहिनी तत्र गङ्गा त्रिपथगामिनी ॥
द्वितीया नीलगङ्गा च शिप्रया सह सङ्गता ॥ १७ ॥
तासां च सङ्गमस्तत्र तल्लिङ्गं सङ्गमेश्वरम् ॥
पूजितं गङ्गया सार्द्धं शिप्रया नीलगङ्गया ॥ १८ ॥
अथ प्राप्ते सुबाहौ च सा राज्ञी विस्मयान्विता ॥
पप्रच्छ प्रणयोपेता कथ्यतामत्र कारणम् ॥
यत्त्वयोक्तं पुरा देव कथयिष्यामि तत्र वै ॥ १९ ॥
एवमुक्तः सुबाहुस्तु प्रियया पृथिवीपतिः ॥
प्रत्युवाच प्रियां प्रेम्णा प्रहस्य च पुनःपुनः ॥ 5.2.69.२० ॥
सुखं स्वपिहि भद्राङ्गि श्रान्ता वयमनिन्दिते ॥
प्रभाते कथयिष्यामि शिरोरोगस्य कारणम् ॥ २१ ॥
अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥
कथयामास माहात्म्यं देवस्य परमेष्ठिनः ॥ २२ ॥
अहमासं कुशूद्रस्तु सर्वदा वेदनिन्दकः ॥
विश्वासघातको नित्यं त्वमप्येवं तथाविधा ॥ २३ ॥
पुत्रो जातस्तु दुःशीलो देवब्राह्मणवञ्चकः ॥
कुरूपः कर्कशो दुष्टः प्रकृत्या पापपूरुषः ॥ २४ ॥
अथ दीर्घेण कालेन द्वादशाब्दं भयावहा ॥
अनावृष्टिस्तु सञ्जाता सर्वप्राणिभयङ्करी ॥ २५ ॥
वियोगस्तु त्वया प्राप्तो मया सार्द्धं सुतेन च ॥
ततोऽहं दुःखसन्तप्तो वैराग्यं परमं गतः ॥ २६ ॥
इच्छता निधनं सद्यो मया प्रोक्तमिदं वचः ॥
मम पुण्यविहीनस्य पापध्यानरतस्य च॥२७॥
सुतेन भार्यया सार्द्धं सङ्गमो दुर्लभः पुनः ॥
कथं स्वपिति पापिष्ठः कृत्वा पापं सुदारुणम् ॥२८॥
कुटुम्बार्थे करोत्येवमेकाकी निस्तरत्यसौ ॥
धर्म एव परो बन्धुर्धर्म एव परा गतिः॥
धर्मेण साध्यते सर्वं तस्माद्धर्मं समाश्रयेत् ॥२९॥
इति चिन्तयतोऽत्यर्थं मम प्राणा गताः प्रिये ॥
विविधा यातना प्राप्ता मया नरककोटिषु ॥ 5.2.69.३० ॥
अन्तकालेऽपि धर्मस्य प्रशंसा या मया कृता ॥
मत्स्योऽहं तेन पुण्येन जातः शिप्राजले शुभे ॥ ३१ ॥
त्वं च श्येनी ततो जाता तस्मिन्नेव वनोत्तमे ॥
प्रावृट्कालेऽथ सम्प्राप्ते आश्लेषानुगते रवौ ॥ ३२ ॥
नदीत्रयरयेणैव निःसृतोऽहं जलात्ततः ॥
त्वया शिरसि सम्प्राप्तो नखैर्विद्धोऽस्मि सुन्दरि ॥ ३३ ॥
आनीतोऽहं त्वया देवि सङ्गमेश्वरसन्निधौ ॥
कैवर्तैर्निधनं प्राप्तं त्वया सार्द्धं वरानने ॥ ३४ ॥
म्रियमाणेन मे दृष्टो देवोऽसौ सङ्गमेश्वरः ॥
शिप्रया स्नापितोऽत्यर्थं गङ्गया नीलगङ्गया ॥ ३५ ॥
तस्य दर्शन मात्रेण जातोऽहं पृथिवीपतिः ॥
कलिङ्गविषये देवि सर्वभूपालवन्दितः ॥ ३६ ॥
सुता त्वं वल्लभा जाता काञ्चीपुरनिवासिनः ॥
क्षात्रव्रतरतस्यैव सुभगा दृढधन्वनः ॥ ३७ ॥
आवां राजत्वमापन्नौ तस्य लिङ्गस्य दर्शनात् ॥
त्वया कररुहैर्विद्धो मारितो लगुडैश्च तैः ॥ ३८ ॥
मध्याह्ने कदनं स्मृत्वा ततो मे शिरसि व्यथा ॥
स्मरामि जातिमात्मीयामस्य देवस्य दर्शनात् ॥३९ ॥
एतत्ते कथितं देवि पृष्टोऽहं यत्त्वया पुरा ॥
गच्छ सुन्दरि भद्रं ते यत्र ते वर्त्तते मनः ॥5.2.69.४०॥
स्थातव्यं च मयात्रैव सेव्योऽसौ सङ्गमेश्वरः ॥४१॥
ततः सा निरवद्याङ्गी नीलोत्पलविलोचना ॥
करुणं सुस्वरं कृत्वा भर्त्तार मिदमब्रवीत् ॥ ४२ ॥
मयापि संस्मृतं देव पूर्वजन्मनि चेष्टितम् ॥
अस्य लिङ्गस्य माहात्म्यात्तिर्यग्योनिगतावपि ॥ ४३ ॥
प्राप्तावावां मनुष्यत्वं निर्मलेषु कुलेषु च ॥
प्राप्ता श्रीरतुला लोके प्राप्तं राज्यमकण्टकम् ॥ ४४ ॥
प्राप्ता भार्या प्रियाहं ते त्वं च प्राप्तो मया नृप ॥
ख्यातोयं त्रिषु लोकेषु नामतः सङ्गमेश्वरः ॥ ४५ ॥
अस्य देवस्य माहात्म्याद्वियोगो न भविष्यति ॥
यथा कृष्णस्य लक्ष्म्या च पार्वत्या च शिवस्य च ॥ ४६ ॥
पुनः प्रणम्य प्रणता सहसा मन्मथाकुला ॥
भर्त्ता सुबाहुर्मे भूयादन्यस्मिन्निह जन्मनि ॥ ४७ ॥
तव देवप्रसादेन यदि त्वं सङ्गमेश्वरः ॥
ततो विलोक्य सोन्मेषं कुसुमेषुतरङ्गिताम् ॥
कान्तां पिबन्निव दृशा प्राह तां तरलेक्षणाम् ॥ ४८ ॥
सहजेनाभिजन्येन गुणैः कान्त्या विभूषिता ॥
मया प्राप्ता विशालाक्षि प्राप्तं मज्जन्मनः फलम्॥४९॥
ततस्तां भयसन्त्रस्तां कम्पिताधरपल्लवाम्॥
गृहीत्वा च करे कान्तां जगामान्तःपुरं निजम्॥5.2.69.५०॥
वदन्कन्दर्पसर्पेण दष्टोऽहं दैवतोऽधुना॥
चचार तत्र निःसारं संसारं कलयन्धिया॥५१॥
पुरे मम वरारोहे चिरं रेमे तया सह॥
एवं राजा प्रियां प्राप्य निवेद्य च निजां कथाम् ॥ ५२ ॥
भेजे राज्यं तया सार्द्धं विस्तारितमहोत्सवः ॥
अशाश्वतमिदं ज्ञात्वा अर्थिभ्योऽपि ददौ धनम् ॥ ५३ ॥
अपूर्वत्यागिना तेन त्रैलोक्यं विस्मयं ययौ ॥
राज्यं कृत्वा चिरं कालं सभार्यो नृपसत्तमः ॥५४॥
भुक्त्वा च विपुलान्भोगांस्तस्मिल्ँलिङ्गे लयं गतः ॥
अतो देवि सुविख्यातो देवोऽसौ सङ्गमेश्वरः ॥ ५५ ॥
यः पश्येत्परया भक्त्या तल्लिङ्गं सङ्गमेश्वरम् ॥
न वियोगो भवेत्तस्य पुत्रभ्रातृप्रियादिभिः ॥ ॥। ५६ ॥
नियमेन तु यः पश्येत्तल्लिङ्गं सङ्गमेश्वरम् ॥
राजसूयसहस्रस्य फलं तस्याधिकं भवेत् ॥ ५७ ॥
गाङ्गं च सफलं पुण्यं यामुनं नामर्दं तथा॥ ।
जायते चान्द्रभागं च सङ्गमेश्वरदर्शनात् ॥ ५८ ॥
यः पश्येच्छ्रावणे मासि तल्लिङ्गं सङ्गमेश्वरम् ॥
कार्तिकस्वामिनो यात्रा कृता तेन न संशयः ॥ ॥। ५९॥
मासि चाश्वयुजे देवं यः पश्येत्सङ्गमेश्वरम्॥
कृतं तेन सहस्रं तु वाजपेयं वरानने ॥ 5.2.69.६० ॥
यः पश्येत्कार्त्तिके मासि तल्लिङ्गं सङ्गमेश्वरम्॥ ।
राजसूयसहस्रं तु कृतं तेन न संशयः ॥ ६१ ॥
चतुरो वार्षिकान्मासान्यः पश्येत्सङ्गमेश्वरम् ॥
स याति परमं स्थानं ममाभीष्टतरं प्रिये ॥ ६२॥ ।
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सङ्गमेश्वरदेवस्य शृणु दुर्द्धर्षमीश्वरम्॥ ६३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये सङ्गमेश्वरमाहात्म्यवर्णनन्नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥ ॥ छ ॥