०६८ पिशाचेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
अष्टषष्टिकसङ्ख्याकं पिशाचाख्यमथेश्वरम्॥
शृणु देवि प्रयत्नेन दर्शनात्पापनाशनम् ॥ १ ॥
आदौ कलियुगे देवि शूद्रो बहुधनोऽभवत्॥
सोमो नाम सुविख्यातो नास्तिको वेदनिन्दकः ॥२॥
अब्रह्मण्यो नृशंसश्च कदर्यो निरपत्रपः ॥
विश्वासघातकश्चैव परस्वहरणे रतः॥ ॥३॥
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्त्तकः ॥
स कदाचिन्मृतो देवि कष्टेन परमेण च ॥ ४ ॥
मरुदेशे पिशाचोऽभून्नग्नो दीनो भयावहः ॥
नाशकृत्स पिशाचानां स्वपक्षोच्छेदकारकः ॥५॥
बहवो मर्द्दितास्तेन पिशाचा बलवत्तराः ॥६॥
अथ तेनैव मार्गेण कदाचिच्छाकटायनः ॥
स्वाध्यायनिरतो विद्वान्वाग्ग्मी शमपरायणः ॥ ७ ॥
उदयादित्यसङ्काशो विभावसुसमद्युतिः ॥
शकटेन सदा याति स पश्यन्पर्वतात्मजे ॥ ८ ॥
गतो ददर्श तं रौद्रं पिशाचं च भयावहम्॥
स पिशाचः क्षुधाविष्टो भोक्तुकामोऽभ्यधावत ॥ ९ ॥
दृष्ट्वा तं शकटारूढं ब्राह्मणं शाकटायनम् ॥.
शकटस्य ध्वनिं श्रुत्वा रूपं दृष्ट्वा द्विजस्य च ॥ 5.2.68.१० ॥
तथारूपः पिशाचस्तु कर्णाभ्यां बधिरीकृतः ॥
आत्मत्राणपरो भूत्वा नष्टः कष्टेन पार्वति ॥
तं धावन्तं समालोक्य पिशाचं ब्राह्मणोऽब्रवीत्॥ ११ ॥
पिशाच त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ॥
क्व धावसि समाचक्ष्व कुतस्ते भयमागतम् ॥ १२ ॥ ॥
॥ पिशाच उवाच ॥ ॥
शकटस्यास्य महतो घोषं श्रुत्वा भयङ्करम् ॥
कर्णाभ्यां बधिरो जातो विसञ्ज्ञस्तव दर्शनात् ॥ १३ ॥ ॥
॥ब्राह्मण उवाच ॥ ॥
पिशाचानां बलिष्ठाश्च श्रूयन्ते ब्रह्मराक्षसाः ॥
स त्वं मां भोक्तुकामोऽसि विख्यातो ब्रह्मराक्षसः ॥१४ ॥ ॥
॥पिशाच उवाच ॥
पिशाचानां समर्थोऽस्मि नष्टोऽहं तव दर्शनात् ॥
दुःखं हि मृत्युः सर्वेषां जीवितं च सुदुर्ल्लभम् ॥
अतो भीतः पलायामि जीवहेतोः सुखार्थतः ॥ १५ ॥
॥ ब्राह्मण उवाच ॥ ॥
कुतः पिशाच सौख्यं ते मरणं श्रेय एव ते ॥
पैशाची कुत्सिता योनिः पापिनामेव जायते॥१६॥
॥पिशाच उवाच॥ ॥
सर्वत्र हि गतो जीवो भवत्येव सुखाश्रयः॥
तस्माज्जीवितुमिच्छामि प्रसीद ब्रह्मराक्षस॥ ॥१७॥
॥ ब्राह्मण उवाच॥ ॥
नाहं त्वां भोक्तुकामोऽस्मि ब्राह्मणोऽहं न राक्षसः॥
सर्वभूतहितार्थाय विचरामि महीतले॥१८॥
सर्वेषामेव जन्तूनां मैत्रो ब्राह्मण उच्यते ॥
मा कुरुष्व भयं मत्तो मित्रभावगतो ह्यहम् ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा पिशाचः स्वस्थमानसः ॥
प्रणम्य प्रत्युवाचेदं ब्राह्मणं शाकटायनम् ॥ 5.2.68.२० ॥
यदि ते सर्वभूतानां दत्ता ह्यभयदक्षिणा ॥
कर्मणा मनसा वाचा मित्रभावं गतो यदि ॥ २१ ॥
पृच्छामि त्वां महाभाग संशयो हृदये स्थितः ॥
श्रुत्वानुकम्पया सम्यक्तन्मे व्याख्यातुमर्हसि ॥ २२ ॥
केन कर्मविपाकेन पैशाचं याति मानवः ॥
पिशाचत्वात्कथं मुक्तिः प्राप्यते पापकर्मभिः ॥२३॥
इति तस्य वचः श्रुत्वा पिशाचस्य वरानने ॥
ममत्वेनावृतस्तस्मै प्रावोचच्छाकटायनः ॥२४॥
अपहृत्य च विप्रस्वं देवस्वं च विशेषतः ॥
तेन पापेन पापिष्ठाः पिशाचत्वं प्रयान्ति च ॥ २५ ॥
पितरं मातरं चैव स्त्रियं बालं द्विजं तथा ॥
वञ्चयित्वा हरत्यर्थं स पिशाचो भवेन्नरः ॥ २६ ॥
राजद्रव्यं गृहीत्वा तु न यजेन्न ददाति यः ॥
आत्मानमेव पुष्णाति पिशाचत्वं स गच्छति ॥ २७ ॥
विश्वासघातका ये च परदाररताश्च ये ॥
प्राप्नुवन्ति पिशाचत्वं तथा ये वेदनिन्दकाः ॥ २८ ॥
निन्दन्ति ये पुराणानि धर्मशास्त्राणि सर्वदा ॥
ते भवन्ति पिशाचाश्च ये सदा पिशुना नराः ॥ २९ ॥
इति ते कथितं सर्वं वेदप्रामाण्यतोऽधुना ॥
इदानीं कथयिष्यामि यस्त्वं जातोसि तच्छृणु ॥ ॥ 5.2.68.३० ॥
सोमको नाम शूद्रस्त्वं परमर्मप्रकाशकः ॥
विश्वासघातको जातो देवब्राह्मणदूषकः ॥ ३१ ॥
नास्तिको भिन्नमर्यादो जन्मन्यत्रापि सप्तमे ॥
सकुलं पातयित्वात्र नरके दारुणे भृशम् ॥ ३२ ॥
पिशाचयोनिं सम्प्राप्तः पुनः प्राप्स्यसि रौरवम् ॥
महारौरवसञ्ज्ञं तु क्रकचं कालसूत्रकम्॥
यन्त्रपीडनकं रौद्रं मथनं कुम्भवालुकम् ॥ ३३ ॥
इत्येवं वदतस्तस्य ब्राह्मणस्य यशस्विनि ॥
सस्मार प्राक्तनं जन्म सत्सङ्गात्कुत्सितं स्वकम् ॥ ॥ ३४ ॥
दुःखाभिभूतो निश्चेष्टो धिग्धिगित्यसकृद्ब्रुवन् ॥
पतितो भूतले देवि इदं वाक्यमथाब्रवीत् ॥ ३५ ॥
अहो केनापि पुण्येन भवता सह दर्शनम् ॥
जातं ममाल्पपुण्यस्य दीनस्य कृपणस्य च ॥ ३६ ॥
नास्ति धर्मसमं मित्रं नास्ति धर्मसमा गतिः ॥
नास्ति धर्मसम्ं त्राणं स च नास्ति मम प्रभो ॥ ३७ ॥
मग्नोऽहं दुःखजलधौ मग्नोऽहं पापकर्दमे ॥
भ्रान्तोऽहमन्धतमसि ततस्त्वां शरणं गतः ॥ ३८ ॥
नमस्तेऽस्तु महाभाग किं करोमि प्रशाधि माम् ॥
तत्तपोबलनिर्दिष्टमिदं प्राप्तं मयाऽधुना ॥ ३९ ॥
एवं निगदतस्तस्य पिशाचस्य वरानने ॥
कथयामास माहात्म्यं स विप्रः शाकटायनः ॥ 5.2.68.४० ॥
पृथिव्यां यानि तीर्थानि आसमुद्रगतानि वै ॥
क्षेत्राणि यानि सन्तीह तेषां क्षेत्रं सुपुण्यदम् ॥४१॥
महाकालवनं क्षेत्रं प्रलयेऽप्यक्षयं गतम् ॥
लिङ्गं तत्र महाक्षेत्रे पिशाचत्वविनाशनम् ॥ ४२ ॥
ढुण्ढेश्वरस्य देवस्य दक्षिणे त्रिदशार्चितम् ॥
पैशाचं विद्यते भूयः पिशाचयोनिनाशनम् ॥
तस्य दर्शनमात्रेण पिशाचत्वात्प्रमोक्ष्यसे ॥ ४३ ।
तस्य तद्वचनं श्रुत्वा स पिशाचो वरानने ॥
आजगाम त्वरायुक्तो नमस्कृत्य द्विजं तदा ॥४४॥
महाकालवने पुण्ये समीहितफलप्रदे॥
ददर्श तत्र तल्लिङ्गं स्नात्वा शिप्राजले शुभे॥४५॥
दर्शनात्तस्य लिङ्गस्य स पिशाचो वरानने ॥
तत्क्षणाद्दिव्यदेहस्तु दिव्याभरणभूषितः ॥ ४६ ॥
दिव्यं विमानमारूढो गतो लोके सनातने ॥
उद्धृत्य सकलं गोत्रं मातृकं पैतृकं तथा॥४७॥
दृष्ट्वा तन्महदाश्चर्यं माहात्म्यातिशयं श्रिये ॥
प्रोक्तं देवैर्विमानस्थैः सिद्धैराकाशगैस्तथा ॥ ४८॥
पिशाचोपि गतः स्वर्गमस्य लिङ्गस्य दर्शनात्।
अतो देवः स विख्यातो भविष्यति महीतले॥
पिशाचेश्वरसञ्ज्ञस्तु सर्वपापप्रणाशनः ॥ ४९ ॥
ये पश्यन्ति नरा देवि पिशाचेश्वरसञ्ज्ञकम् ।
तेषां हि पितरः सद्यो ये चापि निरये स्थिताः ॥
पिशाचत्वाद्विमुच्यन्ते स्वर्गं यान्ति न संशयः ॥ 5.2.68.५० ॥
अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम् ॥
तत्फलं लभते सोऽपि पिशाचेश्वरदर्शनात् ॥ ५१ ।
गयायां पिण्डदानेन यत्पुण्यं समुदाहृतम्॥
तत्पुण्यमधिकं ज्ञेयं पिशाचेश्वरदर्शनात् ॥ ५२॥
ये पश्यन्ति चतुर्दश्यां पिशाचेश्वरसञ्ज्ञकम् ॥
प्रेतत्वं च पिशाचत्वं कुले तेषां न जायते ॥ ५३॥
न वियोनिं नरो याति नरकं च न पश्यति ॥
प्रसङ्गेनापि यः पश्येत्पिशाचेश्वरसञ्ज्ञकम् ॥ ५४ ॥
सर्वैश्वर्यसमायुक्तः सर्वबन्धुसमन्वितः ॥
मोदते पितृलोके स पिशाचेश्वरदर्शनात् ॥ ५५ ॥
कीर्तनान्मुच्यते पापाद्दृष्ट्वा स्वर्गं च गच्छति ॥
स्पर्शनादस्य लिङ्गस्य पुनात्यासप्तमं कुलम्॥ ५६ ॥
तदैव स नरो मुक्तः संसारनिगडादिभिः ॥
यदैव वीक्षते लिङ्गं पिशाचेश्वरसञ्ज्ञकम् ॥ ५७ ॥
यज्ञानां तपसां चैव दानानां चैव यत्फलम् ॥
तत्फलं कोटिगुणितं जायते तस्य दर्शनात् ॥ ५८॥
यदि पश्येच्चतुर्दश्यां वैशाखे कार्त्तिके तथा ।
तस्य पुण्यमसङ्ख्यातं जायते नात्र संशयः॥ ५९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पिशाचेश्वरदेवस्य श्रूयतां सङ्गमेश्वरम् ॥ 5.2.68.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे पिशाचेश्वरमाहात्म्यवर्णनन्नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥॥छ॥. ॥