०६७ केदारेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥
सप्तषष्टिकसङ्ख्याकं केदारेश्वरसञ्ज्ञकम् ॥
देवं शृणु वरारोहे दर्शनात्पापनाशनम् ॥ १ ॥
सृष्टिकाले पुरा देवि देवा व्याप्ता हिमेन हि ॥
शीतार्त्ता विह्वलाः सर्वे ब्रह्माणं शरणं गताः ॥ २ ॥
हिमाद्रिणार्दिताः सर्वे वयं देव जगत्पते ॥
त्राहि भीतांश्चतुवक्त्र पितामह नमोऽस्तु ते ॥ ३ ॥
देवानां वचनं श्रुत्वा प्रोक्तं वै ब्रह्मणा प्रिये ॥
पीडिता हिमशैलेन शङ्करश्वशुरेण च ॥ ४ ॥
नाहं यातुं समर्थोऽस्मि सत्यमेतन्मयोदितम्॥ ॥
महादेव मृते देवा गतिरन्या न विद्यते ॥ ५ ॥
स एव शरणं देवः सर्वेषां नो भविष्यति ॥
तस्याज्ञया मया सर्वे पर्वता रचिताः पुरा ॥ ६ ॥
कृता बुद्धिर्विचित्रा च हिमाद्रिश्च मया कृतः ॥
असेव्यः सर्वजन्तूनामधृष्यो दुर्गमो गिरिः ॥ ७॥
हिमाचलस्य तस्यैव शास्ता देवो महेश्वरः ॥
तस्माद्यास्यामहे देवा कैलासं पर्वतोत्तमम्॥ ८ ॥
यत्र तिष्ठति विश्वात्मा देवदेवो महेश्वरः ॥
एवमुक्त्वा गतो ब्रह्मा देवैः सार्द्धं ममान्तिकम् ॥
दृष्टोहं पूजितस्तैस्तु स्तुतोऽहं विविधैः स्तवैः ॥ ९ ॥
मया सम्मानिता देवाश्चतुवक्त्रः प्रपूजितः ॥
पूजयित्वा मया पृष्टो ब्रह्मा गमनकारणम् ॥5.2.67.१०॥
किं कार्यं त्रिदशैः सार्द्धमागतोऽसि पितामह ॥
कथितं ब्रह्मणा सर्वं श्रुतं सर्वं मया प्रिये ॥ ११ ॥
हिमाचलं समाहूय मर्यादा च कृता मया ॥
शैलानां राजराजत्वे हिमाद्रिश्च प्रतिष्ठितः ॥ १२ ॥
देवानां विषयाश्चैव गन्धर्वाणां तथैव च ॥
यक्षाणामथ नागानां किन्नराणां तथैव च ॥ १३ ॥
विद्याधराणां क्रीडार्थं पृथक्पृथङ्निवेशिताः ॥
रूपतो भाति शैलेन्द्रः शुद्धस्फटिकसन्निभः ॥ १४ ॥
जाह्नवीनिर्झरोष्णीषः शर्वाणीजनकस्तथा ॥ १५ ॥
सर्वदेवमयो दिव्यः सर्वतीर्थमयः कृतः ॥
सर्वाश्रमनिवासश्च सर्वामरनिषेवितः ॥ १६ ॥
एवं संस्थाप्य शैलेन्द्रं लिङ्गमूर्त्तिरहं स्थितः ॥
विख्यातस्त्रिषु लोकेषु केदारेश्वरनामतः ॥ १७ ॥
उदकं निर्मितं तत्र मन्त्रपूर्णं मया प्रिये ॥
माहात्म्यं विविधं प्रोक्तं लिङ्गस्य च जलस्य च ॥ १८ ॥
योत्रागत्य नरो भक्त्या सम्यङ्मां पूजयिष्यति ॥
जलं योऽत्रैव गृह्णाति विधानेन वरानने ॥
तस्योदरे भविष्यामि लिङ्गरूपी न संशयः ॥ १९ ॥
इत्युक्ते वचने देवि सदेवासुरपन्नगाः ॥
यक्षरक्षःपिशाचाश्च भूतवैतालकिन्नराः ॥ 5.2.67.२० ॥
विद्याधरगणाश्चैव मम दर्शनलालसाः ॥
समायाता वरारोहे पीत्वा तत्र जलं शुभम् ॥ २१ ॥
दृष्टोऽहं विधिना तैस्तु लिङ्गमूर्त्तिगतः प्रिये ॥
मम तुल्याश्च ते जातास्तस्मिन्नद्रिवरे स्थिताः ॥
जनलोकगतैः सिद्धैः पूज्यमाना वरानने ॥ २२ ॥
अथ कालेन बहुना श्रुत्वा माहात्म्यमुत्तमम् ॥
केदारेश्वरदेवस्य जलस्य च विशेषतः ॥ २३ ॥
मनुष्याः समुपायातास्ते रजोबहुला यतः ॥
तमःप्राया विशालाक्षि तदाहं माहिषं वपुः ॥ २४ ॥
कृतवांस्तद्भयार्थाय न च ते भीतिमागताः ॥
इह देवोत्र देवोऽत्र बभ्रमुस्ते दिदृक्षवः ॥ २५ ॥
न तैर्दृष्टो महादेवि यतोऽहं महिषाकृतिः ॥
स्थितोऽस्म्यलक्ष्यरूपेण ततस्ते दीनमानसाः ॥
उद्विग्ना निश्वसन्तश्च वैराग्यं परमं गताः ॥ २६ ॥
नात्र देवो न तीर्थानि न गङ्गा पुण्यदायिनी ॥
न धर्मो न परो लोकः सर्वमे तद्विडम्बनम् ॥ २७ ॥
एवं किल पुराणेषु श्रूयते सर्वदा श्रुतौ ॥
हिमालये च केदारं लिङ्गं मोक्षप्रदायकम्॥ २८ ॥
एवं तु वदतां तेषां मानुषाणां यशस्विनि ॥
आकाशादुत्थिता वाणी मया प्रोक्तानुकम्पया ॥ २९ ॥
अमार्गं मा वदत्वत्र न निन्द्याः श्रुतयोऽव्ययाः ॥
पुराणं नान्यथा प्रोक्तं ब्रह्मणा लोककर्तृणा ॥ 5.2.67.३० ॥
ये निन्दन्ति पुराणानि धर्मशास्त्राणि नास्तिकाः ॥
ते यान्ति नरकं घोरं यावदाभूतसम्प्लवम् ॥ ३१ ॥
सदा देवोत्र केदारः स्वर्गमोक्षप्रदायकः ॥
विद्यते त्रिदशैः पूज्यः सततं नैव दृश्यते ॥ ३२ ॥
करोति पूजां हिमवान्मासानष्टौ च शाश्वतान् ॥
हिमाद्रिस्तेन पुण्येन नगेन्द्रस्तु कृतो नगैः ॥
सेव्यश्च रमणीयश्च सर्वतीर्थनमस्कृतः ॥ ३३ ॥
सर्वरत्ननिधानश्च देवानां वल्लभस्तथा ॥
ग्रीष्मे चैव वसन्ते च देवदेवोऽत्र दृश्यते ॥ ३४ ॥
नियतेनैव कालेन मानुषाणां च सर्वदा ॥
यदि बुद्धिः परा जाता सर्वदा मम दर्शने ॥ ३५ ॥
आख्यास्ये तदुपायं च श्रूयतां सावधानतः ॥
मा विकल्पोऽत्र कर्त्तव्यः सर्वान्कामानवाप्स्यथ ॥ ३६ ॥
क्षेत्राणामुत्तमं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ॥
प्रलयेऽप्यक्षयं प्रोक्तं महाकालवनं नराः ॥ ३७ ॥
तत्राहं सम्भविष्यामि लोकानामनुकम्पया ॥
लिङ्गरूपेण शिप्रायास्तटे पुण्ये सुशोभने ॥ ३८ ॥
सोमेश्वरस्य देवस्य पश्चिमे स्थानमुत्तमम् ॥
प्रसिद्धमुपयास्यामि केदारेश्वरनामतः ॥ ३९ ॥
सर्वदा दर्शनं तत्र मया सार्द्धं भविष्यति ॥
सर्वेषां च प्रदास्यामि सर्वा न्कामान्न संशयः ॥ 5.2.67.४० ॥
इह यावत्फलं तस्माद्दास्यामि ह्यधिकं ततः ॥
इति ते मानवाः सर्वे श्रुत्वा वाणीं मनोरमाम् ॥
आकाशादुत्थितां दिव्यां मनःप्रह्रादकारिकाम् ॥ ४१ ॥
गता वनं महाकालं संस्मरन्तो महेश्वरम् ॥
विकल्पेन विचित्रेण सत्यमेवेति नान्यथा ॥ ४२ ॥
स्नात्वा शिप्राजले पुण्ये यावत्पश्यन्ति भास्करम् ॥
तावदृष्टिपथोत्पन्नं लिङ्गं पापप्रणाशनम् ॥ ४३ ॥
अथ ते हर्षिताः प्रोचुः केदारोऽयं न संशयः ॥
दृष्टोऽस्माकं न सन्देहो गङ्गा शिप्राजले स्थिता ॥ ४४ ॥
ततस्ते पूजयामासुः पुष्पैर्नानाविधैस्तथा ॥
पूजितोऽहं विशालाक्षि तेषां तुष्टो वरानने॥ ॥ ४५ ॥
दुर्लभोऽतिवरो दत्तः कैलासे स्थानमुत्तमम् ॥
अक्षयं च पदं दत्तं पुनरावृत्तिवर्जितम् ॥ ४६ ॥
अतोऽहं त्रिदशैः प्रोक्तः केदारेश्वरना मतः ॥
प्रार्थितः परया भक्त्या लोकानामनुकम्पया ॥ ४७ ॥
इहागत्य नरा ये च त्वां पश्यन्ति सुभक्तितः ॥
तेषां फलं त्वया देव दातव्यमधिकं यतः ॥ ४८ ॥
हिमाद्रौ हिमनाथस्य यात्रायाः प्रत्यहं फलम् ॥
लभन्ते च नरा नित्यं नात्र कार्या विचारणा ॥ ४९ ॥
ब्रह्महा वा सुरापो वा स्ते यी वा गुरुतल्पगः ॥
तत्सम्पर्की नरो यस्तु त्वां दृष्ट्वा किल्विषाकरः ॥ 5.2.67.५० ॥
सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम् ॥
चान्द्रायणानां विधि वच्छतानां चैव यत्फलम् ॥
तत्फलं समवाप्नोति केदारेश्वरदर्शनात् ॥ ५१ ॥
ते नराः पशवो लोके तेषां जन्म निरर्थकम् ॥
यैर्न दृष्टो महाकाले केदारेश्वरसञ्ज्ञकः ॥ ५२ ॥
कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम्॥
तत्पापं सङ्क्षयं याति केदारेश्वरदर्शनात् ॥ ५३ ॥
हिमालयकृता यात्रा तस्याः प्रोक्तं च यत्फलम्॥
तत्फलं समवाप्नोति केदारेश्वरदर्शनात्॥५४॥
इत्युक्तोऽहं तदा देवि देवैः प्रणतिपूर्वकम् ॥
तथेति च मया प्रोक्तं तेऽपि देवा दिवं गताः ॥ ५५ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
केदारेश्वरदेवस्य पिशाचाख्यमतः शृणु ॥ ५६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये केदारेश्वरमाहात्म्यवर्णनन्नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥