॥ ईश्वर उवाच ॥ ॥
षट्षष्टितमकं विद्धि देवं जल्पेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण महापापं शमं व्रजेत् ॥ १ ॥
जल्पोनाम महादेवि राजाभूद्भुवि विश्रुतः ॥
सदा जल्परतो नित्यं जल्प वादप्रवर्तकः ॥२ ॥
विकल्पबहुलो नित्यं संसारगतिचिन्तकः ॥
सुबाहुप्रमुखाः पञ्च पुत्रा जाता महाबलाः ॥३॥
तस्य राज्ञो वरारोहे मूर्ताः पञ्चाग्नयो यथा ॥
सुबाहुः शत्रुमर्द्दी च जयो विजय एव च ॥
विक्रान्तः पञ्चमः पुत्रः सर्वे शस्त्रास्त्रपारगाः ॥।४।
पित्रा जल्पेन ते राज्ञा पृथग्राज्ये प्रतिष्ठिताः ॥
पृथक्पुत्रा हि ते सर्वे पृथग्देशाधिपाः कृताः ॥५॥
प्राच्यां सुबाहुर्नृपतिर्याम्यां वै शत्रुमर्दनः ॥
पश्चिमायां जयो राजा उत्तरे विजयो नृपः ॥ ६ ॥
मध्ये विक्रान्तसञ्ज्ञस्तु स्वपदे विनियोजितः ॥
व्यवस्थामीदृशीं कृत्वा स्वयमेव वनं ययौ ॥ ७ ॥
बभूवुर्मन्त्रिणस्तेषां हिता वंशक्रमागताः ॥
बुभुजुः स्वस्वराज्यानि मन्त्रिभिः सहितास्तदा ॥ ८ ॥
विक्रान्तस्य च यो मन्त्री विकल्पैकपरायणः ॥
तेनोक्तं विजने देशे विक्रान्तस्य महीभृतः ॥ ९ ॥
यस्यैषा पृथिवी कृत्स्ना स समर्थः प्रकीर्तितः ॥
उद्यमेन पदं लब्धं वासवेन महात्मना ॥ 5.2.66.१० ॥
त्रिदशैश्चामृतं लब्धमुद्यमेन महीपते ॥ ११ ॥
हीनोद्यमा मानवा ये क्षत्त्रियाश्च विशेषतः ॥
ते हास्यास्पदतां यान्ति हीनवीर्या दिनेदिने ॥ १२ ॥
स्नेहं च कुरुते भ्राता राज्यलुब्धोऽर्थकारणात् ॥
अर्थवीर्येण तेनैव सन्तोषं कुरुते नृपः॥
क्रियते न किमर्थं तु भूप मन्त्रपरिग्रहः॥
भुज्यते सकलं राज्यं मया ते मन्त्रिणा बलात्॥१४॥
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः ॥
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १५ ॥
भूमिमेते निर्गिलन्ति सर्पा बिलशयानिव ॥
राजानमविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ १६ ॥
मायया मोहितं सर्वं को वा कस्य च बान्धवः ॥
उद्यमः क्रियतां तस्माद्भ्रातॄणां निग्रहे द्रुतम् ॥ १७ ॥
भ्रातृभिर्भ्रातरः सर्वे निहता राज्यकारणात् ॥
धर्मं च शाश्वतं ज्ञात्वा निहताश्चासुराः सुरैः ॥ १८ ॥
इति मन्त्रिवचः श्रुत्वा स राजा विस्मयान्वितः ॥
हसित्वा प्रत्युवाचेदं ममायं शत्रुरागतः ॥ १९ ॥
॥ विक्रान्त उवाच ॥ ॥
वयं च भ्रातरः पञ्च पृथिवीं कामयामहे ॥
अतुष्टाः पृथगैश्वर्यं कथं कृत्स्ना भविष्यति ॥5.2.66.२०॥
ज्येष्ठो भ्राता सुबाहुश्च द्वितीयः शत्रुमर्दनः ॥
जयश्च विजयश्चैव तेषां लघुरहं यतः ॥ २१ ॥
॥ मन्त्र्युवाच॥ ॥।
राज्ये स्थितं पूजयन्ति ज्येष्ठं पूजार्हणैर्वरैः ॥
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम् ॥ २२ ॥
तथेति च प्रतिज्ञाते विक्रान्तेन महीभृता॥
स मन्त्री कारयामास अभिचारविधिं तदा ॥ २३ ॥
अथर्वणेन मन्त्रेण पुरोधाः प्रचकार ह ॥
ज्ञातं पुरोहितैस्तेषां तेऽपि चक्रुः समाहिताः ॥ २४ ॥
अथ कृत्या समुत्पन्ना पश्चात्कृत्याचतुष्टयम् ॥
सपुरोहितभृत्यांस्तानग्रसंस्तु समं तदा ॥ २५॥
ततः समस्तलोकस्य विस्मयश्चाभवन्महान् ॥
यदैक कालं नेशुस्ते पृथक्पुरनिवासिनः ॥२६॥
ततः श्रुत्वा च निधनं पुत्राणां जल्पको नृपः ॥
वने वशिष्ठं पप्रच्छ किमेतद्भगवन्प्रभो ॥ २७ ॥
तेनापि कथितं सर्वं वशिष्ठेन महात्मना ॥
दिव्यज्ञानेन वृत्तान्तं विकल्पं चाकरोन्नृपः ॥ २८ ॥
॥ राजोवाच ॥ ॥
निमित्तोऽहं विनाशस्य धिग्धि ग्जन्म मदीयकम् ॥
सार्द्धं त्वमात्यपुत्रैश्च मृतं ब्राह्मणपञ्चकम् ॥ २९ ॥
मत्तोऽन्यः कः पापरतो भविष्यति महान्भुवि ॥
यदि जन्म मदीयं स्या न्न च जातु महीतले ॥ 5.2.66.३० ॥
ततस्ते न विनश्येयुर्मम पुत्रपुरोहिताः ॥
धिग्राज्यं धिक्च मे जन्म भूभुजां च महाकुले ॥ ३१ ॥
कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् ॥
कुर्वन्तः स्वामिनस्तेऽर्थं पुत्राणां मम याजकाः ॥
नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे ॥ ३२ ॥
इत्थमुद्विग्नहृदयः स जल्पः पृथिवीपतिः ॥
पप्रच्छ च पुनः प्रह्वो वशिष्ठं ज्ञानिनां वरम् ॥ ३३ ॥ ॥
॥ राजोवाच ॥ ॥
भगवन्ब्रूहि मे तीर्थमवियोगकरं सदा ॥
सद्यः पापहरं विप्र लिङ्गं वा कथय प्रभो ॥ ३४ ॥
तस्य तद्वचनं श्रुत्वा जल्पस्य पृथिवीपतेः ॥
वशिष्ठः कथयामास दिव्यज्ञानेन पार्वति ॥ ३५ ॥
गच्छ जल्प ममादेशान्महाकालवनोत्तमम् ॥
कृत्वा निः क्षत्रियां पृथ्वीं यत्र रामस्तपस्यति ॥
तत्र लिङ्गमनाद्यं च कुक्कुटेश्वरपश्चिमे ॥ ३६ ॥
तदाराधय राजेन्द्र जामदग्न्याश्रमे स्थितः ॥
वशिष्ठस्य वचः श्रुत्वा जल्पोऽसौ पृथिवीपतिः ॥ ३७ ॥
देवदारुवनं त्यक्त्वा महाकालवनं गतः ॥
ददर्श तत्र तल्लिङ्गमनाद्यं देवसंस्तुतम्॥
पूजयामास विधिवत्परमेण समाधिना ॥ ३८ ॥
तत्र वाणी समुत्पन्ना लिङ्गमध्याद्वरानने ॥
न त्वं पापसमाचारो न त्वं मरणकारणम् ॥
पुत्राणां नृपविप्राणामदृष्टं तत्र कारणम् ॥ ३९ ॥
विपाकेन स्वकीयेन गता वैवस्वतं पुरम् ॥
मा शोकं कुरु राजेन्द्र गहना कर्मणो गतिः ॥ 5.2.66.४० ॥
अनेन शुद्धभावेन तुष्टोऽहं नृपसत्तम ॥
यदभीष्टं वरं ब्रूहि तत्ते दास्यामि नान्यथा ॥४१॥
॥ राजोवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
संसारसागरे घोरे मा भवेन्मम जन्म च ॥ ४२ ॥
अक्षयां देहि मे कीर्त्तिं नाम्ना मे विश्रुतो भुवि ॥
अयं जल्पेश्वरो देवो जल्पेनाराधितो विभुः ॥ ४३ ॥
वदन्तु त्रिदशाः सर्वे एष मे दुर्लभो वरः ॥
ये त्वां पश्यन्ति मनुजा मन्नाम्ना ख्यातिमागतम्॥
तेषां वियोगो मा भूयात्पुत्रतो धनतोऽपि वा ॥ ॥ ४४ ॥
न संसारभयं तेषां दस्युतो नैव राजतः ॥
न भूतग्रहरोगेभ्यो भयमस्तु कदाचन ॥ ४५ ॥
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ॥
ते धन्या मानुषे लोके ये त्वां शरणमागताः ॥ ४६ ॥
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ॥
तत्सर्वमधिकं देव लभ्यते तव दर्शनात ॥ ॥ ४७ ॥
तावत्पतन्ति संसारे घोरे दुःखशताकुले ॥
यावन्न दृश्यते देवः संसारार्णवतारकः ॥ ४८ ॥
यदा पापक्षयः पुंसां तदा ते दर्शनं भवेत् ॥
महता सुकृतेनैव नाल्पेन तपसा प्रभो ॥ ४९ ॥
एवं भविष्यतीत्युक्त्वा तेन लिङ्गेन पार्वति ॥
पश्यतां सर्वदेवानां स्वतनौ सन्निवेशितः ॥ 5.2.66.५० ॥
तस्मिल्ँलिङ्गे लयं प्राप्ते नृपे जल्पे वरानने ॥
देवो जल्पेश्वरः ख्यातो देवैरुक्तो महीतले ॥
भुक्तिदो मुक्तिदश्चैव सदाभीष्टकरः स्मृतः ॥ ५१ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
जल्पेश्वरस्य देवस्य शृणु केदारसञ्ज्ञकम् ॥ ५२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जल्पेश्वरमाहात्म्यवर्णनन्नाम षदषष्टितमोऽध्यायः ॥ ६६ ॥