०६५ ब्रह्मेश्वरमाहात्म्यवर्णनम्

॥ श्रीहर उवाच ॥ ॥
पञ्चषष्टिकसङ्ख्याकं विद्धि ब्रह्मेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण ब्रह्मलोको ह्यवाप्यते ॥ १ ॥
पुलोमानाम दैत्येन्द्रो महाबलपराक्रमः ॥
पौलोमानां सहस्रैस्तु पूज्यमानः स तिष्ठति ॥ २ ॥
आनर्चुस्तेऽपि तं दैत्यं सुरेशं त्रिदशा इव ॥
स कदाचित्समक्षं तु दैत्यानामिदमब्रवीत् ॥ ३ ॥
अद्यापि लोकपालानामर्केन्दुज्वलनाम्भसाम् ॥
शतक्रतोर्द्धनेशस्य यमस्य वरुणस्य च॥४॥
यदि नाम ततः किं मे तपसा जीवितेन च॥
सोऽहं विद्रावयिष्यामि सर्वानेव दिवौकसः॥५॥
सर्वैरेतैः परिवृतः पौलोमैर्बलवत्तरैः॥
इत्युक्त्वा गतवान्देवि सागरं दैत्यसंवृतः॥
तावच्छयानं सहसा ह्यपश्यन्मधुसूदनम्॥ ६॥
शारदाभ्रसमाभासं मध्येकालं यथा घनम् ॥
तमालोक्य ततो दैत्यानब्रवीदनुगांस्तथा ॥ ७ ॥
अयं स दानवगिरिवज्रो हि मधुसूदनः ॥
कीर्त्तिकान्ताकलाकेलिवैधव्यादेशको द्विषाम्॥ ८ ॥
दैत्यसीमन्तिनीकान्तपत्रवल्लीप्रभञ्जकः ॥
अयमस्मज्जयवधूवैधव्यादेशकः परः ॥ ९ ॥
गतशङ्कः स्वपित्येकः सर्वदा कुटिलाशयः ॥
हन्तव्यस्त्वरया दुष्टः काङ्क्षितो दर्शनं गतः ॥ 5.2.65.१० ॥
इत्युक्त्वा स हि दैत्येन्द्रः पुलोमातिरुषान्वितः ॥
अभिदुद्राव वेगेन तावदग्रे पितामहम् ॥
ददर्श नाभिकमले चिन्तयानं पुनःपुनः ॥ ११ ॥
अथ व्याकुलतां प्राप्तो ब्रह्मा दृष्ट्वा तदद्भुतम् ॥
आयान्तं दैत्यसिंहानां सैन्यं रणसुदुर्जयम् ॥ ॥ १२ ॥
अथ बोधं गतः क्षिप्रं कैटभारिर्महाबलः ॥
ददर्शाग्रे पुलोमं तु स्वसैन्यपरिवारितम् ॥ १३ ॥
अजेयः सङ्गरे धीरो ब्रह्माणमिदम ब्रवीत् ॥ १४ ॥
॥ विष्णुरुवाच ॥ ॥
पुलोमस्य विनाशार्थमुद्योगः क्रियतामिति ॥
असौ लब्धवरो दैत्यः सहसा मां विजेष्यति ॥ १५ ॥
तस्माद्गच्छ त्वरायुक्तो महाकालवने शुभे ॥
लिङ्गं द्रक्ष्यसि तत्रैव सप्तकल्पोद्भवं परम् ॥ १६ ॥
उत्तरे च्यवनेशस्य शिवशक्तिसमन्वितम् ॥
तस्य लिङ्गस्य माहात्म्याद्बलं प्राप्स्यति शाश्वतम् ॥ १७ ॥
कुण्डेश्वरकरस्पर्शकारि वारि निरन्तरम् ॥
तदानय गृहीत्वा तु तेनायं वध्यतामिति ॥ १८ ॥
इति तस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥
आजगाम मुहूर्तेन यत्र तल्लिङ्गमुत्तमम् ॥ १९ ॥
स्तुतिं चकार सहसा दृष्ट्वा भक्त्या पितामहः ॥ ॥ 5.2.65.२० ॥
॥ ब्रह्मोवाच ॥ ॥
नमस्ते दिव्यरूपाय नमस्ते बहुरूपिणे ॥
नमोऽविषह्यवीर्याय नमो विश्वक्रियात्मने ॥ २१ ॥
नमः पिङ्गकपर्द्दाय नमः खण्डेन्दुधारिणे॥
नमः कनकवर्णाय नमो वननिवासिने ॥ २२ ॥
वन्दे त्वां भूतभर्त्तारं सदा शत्रुविनाशनम् ॥
रणत्कनककेयूरं धृतपूर्णेन्दुमण्ड लम् ॥ २३ ॥
वन्दे त्वां त्रिदशाध्यक्षं विश्वाध्यक्षं महेश्वरम् ॥
क्षीणसंसारदुःखौघं मुनिध्यातपदं सदा ॥ २४ ॥
वन्दे त्वां सर्वदा देवं दैत्यसङ्घातनाशनम् ॥
टङ्कपट्टिशशूलाग्रधनुःखड्गगदाधरम् ॥ २५ ॥
एवं स्तुतः स भगवाल्ँलिङ्गरूपी महेश्वरः ॥
किञ्चित्स्मितमुखः प्राह ब्रह्माणं लोककारणम् ॥ २६ ॥
किं तेऽभीष्टं करोम्यद्य किं ददामि पितामह ॥
कस्मात्स्तौषि मुनिश्रेष्ठ कस्मादार्तोऽसि दृश्यसे ॥ ॥ २७ ॥
इति लिङ्गवचः श्रुत्वा कथितं ब्रह्मणा तदा ॥
वृत्तान्तं विस्तरात्सर्वं लिङ्गेनोक्तं तदा प्रिये ॥ २८ ॥
जलं गृहाण वाणीश शस्त्रजं शत्रुवारणम् ॥
हनिष्यसि क्षणेनैव पुलोमं सहसैन्यकम् ॥ २९ ॥
इत्युक्तः सत्वरो ब्रह्मा गतो यत्र जनार्द्दनः ॥
जलेन तेन तान्दै त्यान्पातयामास भूतले ॥ 5.2.65.३० ॥
स पुलोमा महानासीत्स्वारोचिषेंऽतरे मनौ ॥
कृष्णोऽपि ब्रह्मणा सार्द्धमाजगाम कुशस्थलीम् ॥ ३१ ॥
ददर्श तत्र तल्लिङ्गं नाम चक्रे जनार्द्दनः ॥
ब्रह्मणा संस्तुतो देवो ममानुग्रहकारणात् ॥
तस्माद्ब्रह्मेश्वरोनाम ख्यातिं लोकेषु यास्यति ॥ ३२॥
ये द्रक्ष्यन्ति नरा भक्त्या देवं ब्रह्मेश्वरं शिवम्॥
ते ब्रह्मलोकमाक्रम्य समेष्यन्ति ममान्तिकम् ॥ ३३ ॥
यस्तु पश्येत्प्रसङ्गेन देवं ब्रह्मेश्वरं शिवम् ॥
कृतकृत्यः स पुरुषो न शोचेन्मरणं सदा ॥ ३४ ॥
यः पुष्करं नरो गत्वा तपो वर्षशतं चरेत् ॥
अन्यो ब्रह्मेश्वरं पश्येत्तस्य पुण्यं ततोऽधिकम् ॥ ३५ ॥
पञ्चपातकसंयुक्तो यो मर्त्त्यो दुष्टमानसः ॥
सोपि गच्छेच्छिवं स्थानं दृष्ट्वा ब्रह्मेश्वरं शिवम् ॥ ३६ ॥
चान्द्रायणानां विधिवद्दशानामेव यत्फलम् ॥
तत्फलं समवाप्नोति ब्रह्मेश्वरस्य दर्शनात् ॥ ३७ ॥
इत्युक्त्वा गतवान्विष्णुर्वैकुण्ठं शाश्वतं प्रिये ॥
ब्रह्मलोकं जगामाथ ब्रह्मा लोकपितामहः ॥ ३८ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
ब्रह्मेश्वरस्य देवस्य जल्पेश्वरमथो शृणु ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनन्नाम पञ्चषष्टितमोऽध्यायः ॥६५॥