०६४ श्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
शृणु त्वं पशुपत्याख्यं चतुःषष्टिकमीश्वरम्॥
यस्य दर्शनमात्रेण पशुयोनिर्न लभ्यते ॥ १ ॥
पशुपालो महादेवि बभूव भुवि विश्रुतः ॥
राजा परम धर्मिष्ठः पशूनां पालने रतः ॥२॥
दिदृक्षुः स कदाचिच्च गतस्तोयनिधिं प्रति ॥
ददर्श तत्र पुरुषान्पञ्च प्राधान्यतः स्थितान् ॥
एका स्त्री मुक्तकेशा सा भ्रमन्ती च पुनःपुनः ॥ ३ ॥
अथ राजा भयाविष्टो विसञ्ज्ञः समपद्यत ॥
संवेष्टितो दस्युभिस्तैस्तया नार्या विशेषतः ॥ ४ ॥
ततोन्ये समपातं च आगत्य नृपसत्तमम् ॥
संवेष्ट्य संस्थितैः सर्वैस्ततो रुद्धो महीपतिः ॥ ५ ॥
रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः ॥
घातिताः पशुपालेन न मृताः पुनरुत्थिताः ॥ ६ ॥
तस्य तां धृष्टतां ज्ञात्वा स्थैर्यं च नृपतेर्मृधे॥
तस्यैव नृपतेर्देहे लीनास्ते दश दस्यवः ॥ ७ ॥
अमूर्ता इव ते सर्वे एकीभूतास्ततोऽभवन् ॥
तान्दृष्ट्वा दुःखितो राजा पशुपालोऽभवत्क्षणात् ॥ ८ ॥
अथापश्यत्तदाऽऽयान्तं नारदं मुनिपुङ्गवम् ॥
ब्रह्मपुत्रं तपोयुक्तं पप्रच्छ स नृपस्तदा ॥ ९ ॥
॥ पशु पाल उवाच ॥ ॥
भगवन्ब्रह्मपुत्राद्य मया दृष्टं तु कौतुकम् ॥
अकस्मात्पुरुषाः पञ्च समायाता भयावहाः ॥ 5.2.64.१० ॥
तैरहं वेष्टितो दुष्टैर्व्याकुलश्च कृतस्तदा ॥
मुष्टिभिर्हन्यमानोऽहं स्वस्थो जातो द्विज क्षणात् ॥ ११ ॥
ततोऽन्ये पुरुषाः पञ्च समायाता नियुध्य माम् ॥
हन्यतां हन्यतामेष मुक्तिकामो नृपाधमः ॥ १२ ॥
एवं तैः पीडितोऽत्यर्थं पुनर्मोहमुपागतः ॥
एतस्मिन्नन्तरे सा स्त्री मामुवाच पुनःपुनः ॥ १३ ॥
दृढो भव महाराज मा विषादं कुरु प्रभो ॥
हीनवीर्या ह्यमी चोराः समर्थस्त्वं स्थिरो भव ॥ १४ ॥
तस्या वाक्येन विप्रेन्द्र मया धैर्येण संयुगे ॥
दश प्रधान पुरुषा जितास्ते न मृताः प्रभो ॥ १५ ॥
प्रलीना मच्छरीरे तु केप्यते कापि साऽबला ॥
पशुपालवचः श्रुत्वा नारदो वाक्यमब्रवीत् ॥ १६ ॥
ये त्वया पुरुषा दृष्टास्त्वयि लीना जिता मृधे ॥
बुद्धीन्द्रियाणि ते पञ्च पञ्च कर्मेन्द्रियाणि च ॥
भ्रमन्ती या च नारी सा त्वया दृष्टा नृपोत्तम ॥ ॥ १७ ॥
मनोरूपेण सा बुद्धिर्भ्रमत्येव हि न स्थिरा ॥
जितानि तानि पूर्वेण ब्रह्मणा लोककर्तृणा ॥ १८ ॥
सोऽपि क्रोधवशं नीत इन्द्रियैर्विषयैः प्रियैः ॥
पितामहेन स्वे यज्ञे शम्भोर्भागो न कल्पितः ॥ १९ ॥
महादेवो जगन्नाथः सृष्टिसंहारकारकः ॥
इन्द्रियैर्मोहितो राजन्क्रोधं चक्रे सुरा न्प्रति ॥ 5.2.64.२० ॥
सुरा विभूतयो यस्य क्रीडार्थं भुवनत्रयम् ॥
तेन भागनिमित्तार्थं चक्रे सज्यं धनुस्तदा ॥ २१ ॥
पूष्णश्च दन्ताः सम्भग्ना मोहितश्च दिवाकरः ॥
नेत्रे भग्ने भगस्यापि विद्धो यज्ञो मृगाकृतिः ॥ २२ ॥
पशवश्च कृता देवा मुनयो वेदवर्जिताः ॥
ऋषीणां धर्मशास्त्राणि हृतानि विभुना तथा ॥ २३ ॥
दुर्जयानीन्द्रियाण्याहुर्मुनयो वेदपारगाः ॥
मनोरूपेण या बुद्धिः सा चातीव सुदुर्जया ॥ २४ ॥
तस्माद्राजन्महाबाहो मा विषादं वृथा कृथाः ॥
तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः ॥
पशुपालो महादेवि वक्तुं समुपचक्रमे ॥ २५ ॥
॥ पशुपाल उवाच ॥ ॥
कथं ते भगवन्मुक्ता देवाः शक्रपुरोगमाः ॥
पशुभावाच्च ब्रह्मापि श्रोतुमिच्छामि कथ्यताम् ॥२६॥
तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् ॥
पशु त्वेऽपि गता देवा ऋषिभिर्मुनिभिः सह ॥ २७ ॥
ब्रह्माणमग्रतः कृत्वा गताः शरणमीश्वरम् ॥
स्तुतिभिस्तोषितो देवो भक्तानुग्रहकारकः ॥ २८ ॥
उवाच वचनं राजन्यत्कर्तव्यं तदुच्यताम्॥२९॥
देवा ऊचुः॥
वेदशास्त्राणि विज्ञानं देहि नो भव मा चिरम्॥
देवस्त्वं पूर्ववद्देव यदि तुष्टो महेश्वरः ॥5.2.64.३०॥
॥ईश्वर उवाच ॥ ॥
भवन्तः पशवः सर्वे मया सार्द्धं च गम्यताम् ॥
महाकालवने क्षेत्रे पशुभावविमोक्षके॥३१॥
अहं पतिर्वो भविता ततो मोक्षमवाप्स्यथ ॥
भवतामनुकम्पार्थं लोकानुग्रहकारणम् ॥
लिङ्गरूपी भविष्यामि नाम्ना पशुपतीश्वरः ॥ ३२ ॥
अथ ते त्रिदशाः सर्वे दृष्ट्वा देवं तमीश्वरम् ॥
पशुभावविनिर्मुक्ता गता हृष्टास्त्रिविष्टपम् ॥
ब्रह्मा पशुपतिं प्राह प्रसन्नेनान्तरात्मना ॥ ३३ ॥
ये त्वां पश्यन्ति देवेश भक्त्या परमया युताः ॥
तेषां कुले पशुत्वं च ये गताः पितरः प्रभो ॥
स्वकैः कर्मविपाकैश्च तेषां मोक्षो भविष्यति ॥३४॥
अज्ञानाज्ज्ञानतो वापि यत्पापं क्रियते नरैः ॥
तत्पापं विलयं यातु तस्य देवस्य पूजनात् ॥ ३५ ॥
ते नराः पशवो लोके किं तेषां जीविते फलम् ॥
यैर्न दृष्टः पशुपतिः पशुयोनिविमोचकः ॥ ३६ ॥
कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम् ॥
तत्पापं विलयं याति दृष्ट्वा पशुपतिं शिवम्॥ ३७ ॥
पौषमासे तु सम्प्राप्ते ये त्वां पश्यन्ति मानवाः ॥
तेषां त्वं वरदो देव सदाभीष्टकरो भवेत् ॥ ३८ ॥
सूर्यग्रहे यथा दत्तं कुरुक्षेत्रे विशेषतः ॥
पात्रे दानं सुवर्णस्य प्रोक्तमक्षय्यमव्ययम् ॥ ३९ ॥
पौषमासे दिनैकेन नराणामधिकं तथा ॥
तद्दर्शनेन देवेश भविष्यति न संशयः ॥ 5.2.64.४० ॥
इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकं गतो नृप ॥
कृतकृत्यः प्रहृष्टात्मा मुनिभिः कविभिः सह ॥ ४१ ॥
तस्मात्त्वमपि राजेन्द्र यदीच्छसि परां गतिम् ॥
समाराधय तल्लिङ्गं पशुयोनिविमोचनम् ॥
महाकालवनं गत्वा इन्द्रेश्वरस्य दक्षिणे ॥४२॥
तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः ॥
जगाम पशुपालोऽपि महाकालवनं प्रिये ॥
दर्शनात्तस्य लिङ्गस्य गतोऽसौ परमां गतिम् ॥ ४३ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पशुपत्याख्यदेवस्य शृणु ब्रह्मेश्वरं शिवम् ॥ ४४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पशुपती श्वरमाहात्म्यवर्णनन्नाम चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥