०६३ धनुःसाहस्रमाहात्म्यवर्णनम्

॥ श्रीहर उवाच ॥ ॥
धनुःसाहस्रनामानमीश्वरं शृणु पार्वति ॥
त्रिषष्टिसङ्ख्यकं दिव्यं दर्शनात्पापनाशनम् ॥ १ ॥
विदूरथोनाम नृपः ख्यातकीर्त्तिरभूद्भुवि ॥
तस्य पुत्रद्वयं जातं सुनीतिः .सुमतिस्तथा ॥ २ ॥
एकदा तु वनं यातो मृगयां स विदूरथः ॥
ददर्श गर्त्तं सुमहद्भूमेर्मुखमिवोद्गतम् ॥ ३ ॥
तं दृष्ट्वा चिन्तयामास किमेतदिति पार्थिवः ॥
पातालविवरं मन्ये वडवानलसन्निभम् ॥ ४ ॥
चिन्तयन्निव तत्रासौ ददर्श विजने वने ॥
ब्राह्मणं सुव्रतं नाम तपस्विनमकल्मषम् ॥ ५ ॥
स तं पप्रच्छ नृपतिः किमेतदिति भो द्विज ॥ ६ ॥
॥ ब्राह्मण उवाच ॥ ॥
दानवः सुमहावीर्यो वसत्युग्रो रसातले ॥
कुजम्भोनाम विख्यातो भिनत्ति वसुधामिमाम् ॥ ७ ॥
तमजित्वा कथं राज्यं भोक्ष्यसे वसुधाधिप ॥
तेन विध्वंसिता विप्रा रात्रौ निःसृत्य पार्थिव ॥ ८ ॥
उपद्रुतास्तथा देशा ध्वस्ताश्चैव तथाश्रमाः ॥
आप्याययति दैत्योऽयं सबली मुशलायुधः ॥ ९ ॥
यदि त्वं घातयस्येनं पातालान्तरगोचरम् ॥
ततः समस्तवसुधापतिरेव भविष्यसि ॥ 5.2.63.१० ॥
इति विप्र वचः श्रुत्वा मन्त्रयामास पार्थिवः ॥
मन्त्रिभिः सहितोऽमोघं श्रुत्वा मुशलमद्रिजे ॥ ११ ॥
तं मन्त्रं क्रियमाणं तु सूनुभ्यां सह मन्त्रिभिः ॥
तत्पार्श्ववर्त्तिनी कन्या शुश्रावाथ मुदावती ॥ १२ ॥
ततः कतिपयाहे तु तां कन्यां जलजेक्षणाम् ॥
जहारोपवनाद्दैत्यः कुजम्भः स्वसखीवृताम् ॥ १३ ॥
एतच्छ्रुत्वा महीपालः क्रोधपर्याकुलेक्षणः ॥
उवाच पुत्रौ जानेऽहं सकुजम्भो महासुरः ॥ १४ ॥
दृष्ट्वा भूमौ पुरा गत्तें तत्र संशयिते मयि ॥
कथितो द्विजमुख्येन मया पृष्टेन पुत्रकौ ॥ १५ ॥
स हन्यतां सोऽपहर्त्ता मुदावत्याः सुदुर्मतिः ॥
प्रस्थितौ नृपभक्त्याथ स्वसैन्यपरिवारितौ ॥ १६ ॥
तौ सुतौ तत्र सम्प्राप्तौ पाताले पितृशासनात्॥
युयुधाते कुजम्भेन स्वशक्त्या सेनया वृतौ ॥ १७ ॥
ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ॥
बाणैश्चिरतरं युद्धं तेषामासीत्सदारुणम्॥ १८ ॥
ततो मायाबलवता तेन दैत्येन तत्क्षणात् ॥
अमोघेनाद्वितीयेन मुशलेन वरानने ॥ १९ ॥
हत सैन्यौ रणे बद्धौ राजपुत्रौ महाबलौ ॥ 5.2.63.२० ॥
ततः श्रुत्वा महीपालो विवर्णवदनोऽभवत् ॥
बद्धपुत्रः परामार्त्तिं जगाम गिरिपुत्रिके ॥ २१ ॥
रुरोद बहुधात्यर्थं पुत्रस्नेहेन पार्थिवः ॥
ततो विलपतस्तस्य मार्कण्डेयो महामुनिः ॥
अनेकसृष्टिसंहारदृष्टकार्यपरावरः ॥ २२ ॥
उदितादित्यसङ्काशः सप्तकल्पानुगो वशी ॥
आजगाम नृपाभ्याशे विलपन्तं ददर्श सः ॥
राजानं कथयामास त्रिकालज्ञो महामुनिः ॥ २३ ॥
मा शुचस्त्वं महीपाल क्षत्त्रियोऽसि दृढव्रतः ॥
क्व शोक क्व महीपालो दुर्जयो लोकपालवत् ॥ २४ ॥
शोकं कुपुरुषाचीर्णं त्यज त्वं राजसत्तम ॥
उद्यमं कुरु राजेन्द्र कुजम्भं घातयिष्यसि ॥ २५ ॥
नात्युच्चं मेरुशिखरं नातिनीचं रसातलम् ॥
व्यवसायः सखा यस्य नास्ति दूरे महोदधिः ॥ २६ ॥
महाकालवने लिङ्गमाराधय समाहितः ॥
रूपेश्वरस्य देवस्य पार्श्वे दक्षिणतः स्थितम् ॥ २७ ॥
धनुःसाहस्रतुल्यं तु मुशलस्य निवारणम् ॥
धनुः प्राप्स्यसि राजेन्द्र कुजम्भं विनिपातय ॥ २८ ॥
धनुःसाहस्रहस्तैस्तु रक्षितं योधसत्तमैः ॥
लिङ्गं देवासुरैर्युद्धे सहस्राक्षेण सेवितम् ॥
इन्द्रेण च धनुर्लब्धं जम्भो वै येन पातितः ॥२९ ॥
तस्य तद्वचनं श्रुत्वा स राजाथ विदूरथः ॥
जगाम त्वरितो देवि महाकालवनं शुभम् ॥ 5.2.63.३० ॥
ददर्श तत्र तल्लिङ्गं पूजयामास भक्तितः ॥
तस्य तुष्टस्तदा देवो ददौ दिव्यं धनुस्तदा ॥ ३१ ॥
धनुःसाहस्रतुल्यं च मुशलस्य निवारणम् ॥
धनुर्लब्ध्वा तदा राजा बद्धगोधाङ्गुलित्रवान्॥
जगाम धीरः पातालं तेन गर्तेन सत्वरम् ॥ ३२ ॥
ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवस्तदा ॥
येन पातालमखिलमासीदापूरितान्तरम्॥ ३३ ॥
ततो ज्यास्वनमाकर्ण्य कुजम्भो दानवेश्वरः ॥
आजगामातिकोपेन स्वसैन्यपरिवारितः ॥ ३४ ॥
ततो युद्धमभूत्तस्य सह राज्ञा वरानने ॥
दिनानि त्रीणि स यदा योधितस्तेन दानवः ॥ ३५ ॥
ततः कोपपरीतात्मा मुशलायाभ्यधावत ॥
गन्धैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति ॥ ३६ ॥
यावद्गृह्णाति मुशलं तावत्सा च मुदावती ॥
पस्पर्श चन्दनव्याजैरनेकैश्च पुनःपुनः ॥ ३७ ॥
ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ॥
तदा मुसलपातास्ते धनुषा निष्प्रभीकृताः ॥ ३८ ॥
धनुर्ज्याघातशब्देन पतिते भूतले तदा ॥
गतो वैवस्वतं लोकं कुजम्भोनाम दानवः ॥ ३९ ॥
ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः ॥
जगुर्गन्धर्वपतयो देववाद्यानि सस्वनुः ॥ 5.2.63.४० ॥
स चापि राजा तं हत्वा पुत्रौ लब्ध्वा सुतां तदा ॥
मुदावतीं मुदा युक्तो हर्षगद्गदनिर्भरः ॥ ४१ ॥
पुत्राभ्यां सहितो देवि सुसम्पूर्णमनोरथः ॥
सान्तःपुरपरीवारः पुनरायाद्वरानने ॥ ४२ ॥
महाकालवने रम्ये यत्र तल्लिङ्गमुत्तमम्॥
पूजयामास रत्नैश्च वस्त्रैराभरणैस्तथा ॥ ४३ ॥
ततः स पूजितो देवैः शक्रेण च पुनःपुनः ॥
अस्य लिङ्गस्य माहात्म्याद्धनुः प्राप्तं नृपेण ३ ॥ ४४ ॥
कुजम्भोऽपि हतो दैत्यो देवविद्वेषकारकः ॥
धनुःसाहस्रनामायमतः ख्यातिं गमिष्यति ॥ ४५ ॥
भक्त्या ये पूजयिष्यन्ति धनुःसाहस्रमीश्वरम्॥
यास्यन्ति शत्रवस्तेषां क्षयं नैवात्र संशयः ॥ ४६ ॥
अर्चिते देवदेवेशे धनुःसाहस्रिके शिवे ॥
अर्चिताः सर्वदेवाः स्युर्वरदाश्च न संशयः ॥ ४७ ॥
प्रातर्मध्येऽपराह्णे च धनुःसाहस्रकं शिवम् ॥
ये नमन्ति नरा नित्यं न ते नरकभोगिनः ॥४८ ॥
तीर्थानां च यथा गङ्गा रक्षिता योधसत्तमैः ॥
तथायं रक्षको देवो नाम्ना धनुःसहस्रकः ॥४९॥
तत्र गङ्गादितीर्थानि विद्यन्ते विविधानि च ॥
सुरहस्यातिपुण्यानि सद्यः पापहराणि च ॥ 5.2.63.५० ॥
तेषां फलं विनिर्दिष्टं ये पश्यन्ति तु भक्तितः ॥
धनुःसाहस्रकं नाम सदा शत्रुक्षयङ्करम् ॥ ५१ ॥
एष ते कथितो देवि प्रभावः पापना शनः ॥
धनुःसाहस्रदेवस्य देवं पशुपतिं शृणु ॥ ५२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीति लिङ्गमाहात्म्ये धनुःसाहस्रमाहात्म्यवर्णनन्नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ ॥ ॥