॥ ईश्वर उवाच ॥ ॥
द्विषष्टिकं विजानीहि देवं रूपेश्वरं प्रिये॥
यस्य दर्शनमात्रेण रूपवाञ्जायते नरः ॥ १ ॥
पाद्मकल्पे महादेवि पद्मोनाम महीपतिः ॥
पद्मगर्भसमुद्भूतो बभूवातिपराक्रमी ॥
पृथिव्याश्चतुरन्ताया जातो धर्मरतो बली ॥ २ ॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः॥
वनं जगाम गहनं हयनागशतैर्वृतः ॥ ३ ॥
बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥ ४॥
तत्र वन्यसहस्राणि हत्वा सबलवाहनः ॥
राजा मृगप्रसङ्गेन वनमन्यद्विवेश सः ॥ ९ ॥
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः।
स वनस्यान्तमासाद्य महदारण्यमासदत् ॥ ६॥
तच्चाप्यतीत्य नृपतिर्ददर्शाश्रममुत्तमम् ॥
मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥ ७॥
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥
ततोऽगच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ॥ ८॥
नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम्॥
उवाच क इहेत्युच्चैर्वनं सन्नाद्यन्निव ॥९॥
श्रुत्वाथ तं तथा शब्दं कन्या श्रीरिव रूपिणी ॥
निश्चक्रामाश्रमात्तस्मात्तापसाकारधारिणी॥5.2.62.१०॥
सा तं दृष्ट्वैव राजानं पद्मगर्भसमुद्भवम्॥
आसनेनार्चयित्वा च पप्रच्छ नाम तं तदा ॥११॥
उवाच स्मयमानाथ किं कार्यं क्रियतामिति॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्॥१२॥
दृष्ट्वा चैवानवद्याङ्गीं यथावत्प्रतिपूजितः ॥
आगतोऽहं महाभागे मुनिश्रेष्ठमुपासितुम् ॥ १३ ॥
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥
एवमुक्ता तु सा कन्या तेन राज्ञा तदाश्रमे ॥
हसन्ती प्रत्युवाचेदं वाक्यं समधुराक्षरम्॥ १४॥
कन्याहं पृथिवीपाल कौमारब्रह्मचारिणः ॥
तपस्विनो धृतिमतो धर्मज्ञस्य मनस्विनः ॥ १५॥
सुता कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥
कण्वं हि पितरमन्ये पितरं स्वमजानती ॥ १६ ॥
तस्यास्तद्वचनं श्रुत्वा नृपेणोक्तं वरानने ॥
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ॥ १७ ॥
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥
सुवर्णरत्नवासांसि कुण्डले परिहारके ॥ १८ ॥
आहरामि तवाद्याहं भार्या मे भव शोभने ॥
गान्धर्वेण च मां भीरु विवाहेनैव सुन्दरि ॥
विवाहानां च रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ १९ ॥
नृपस्य वचनं श्रुत्वा कन्या वचनमब्रवीत् ॥
मुहूर्त्तं सम्प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥ 5.2.62.२० ॥
॥राजोवाच ॥ ॥
इच्छामि त्वां वरारोहे भजमानमनिन्दिते ॥
तदर्थं मां स्थितं विद्धि त्वया मेऽपहृतं मनः ॥ २१ ॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ॥
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥ ॥ २२ ॥
॥ कन्योवाच ॥ ॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम ॥
सत्यं मे प्रतिजानीहि दत्तमात्मानमद्य मे ॥ २३ ॥
इति तस्या वचः श्रुत्वा परिणीता नृपेण हि ॥
गान्धर्वेण विवाहेन कामासक्तेन पार्वति ॥ २४ ॥
कामिता सा नृपेणेव ततो गन्तुं समुद्यतः ॥
एतस्मिन्नन्तरे देवि कण्वश्चाश्रममभ्यगात् ॥ २५ ॥
सा कन्या पितरं दृष्ट्वा ह्रिया नोपजगाम तम् ॥
विज्ञायाथ च तां विप्रो दिव्यज्ञानो महातपाः ॥ २६ ॥
उवाच परमं कुद्धस्तां कन्यां काममोहिताम् ॥
त्वयापि दुष्टे रहसि मामवज्ञाय यत्कृतः ॥ २७ ॥
स्वयं स्वयंवरो मोहात्तस्मात्कृष्णा भविष्यसि ॥
कुत्सिता निर्घृणा दीना निर्लज्जा रूपवर्जिता ॥ २८ ॥
अयं ते नृपतिर्भर्त्ता दुष्टरूपो भविष्यति ॥ २९ ॥
इत्युक्ता तत्क्षणाज्जाता सा कन्या रूपवर्जिता ॥
कुरूपो नृपतिर्जातः शापात्तस्य महात्मनः ॥ 5.2.62.३० ॥
अथ प्रसादयामास सा कन्या पितरं तदा ॥
बालानभिज्ञा मूढाहं मन्मथेन प्रपीडिता ॥ ३१ ॥
अज्ञानाच्च कृतं पापं तात त्वं क्षन्तुमर्हसि ॥
अयं महीपतिस्तात प्रत्यग्लीनो महाव्रतः ॥ ३२ ॥
न चाहं प्रार्थिता तेन मयासौ प्रार्थितो नृपः ॥
तस्मादनुग्रहं तात कर्त्तुमर्हसि चावयोः ॥ ३३ ॥
इति तस्या वचः श्रुत्वा स विप्रोऽतिकृपान्वितः ॥
उवाच स्वां दुहितरमाश्वास्यैवं पुनःपुनः ॥ ३४ ॥
नैव वागनृतं पुत्रि यावदद्य स्मराम्यहम् ॥
दैवमत्र परं मन्ये धिग्बुद्धिं धिक्पराक्रमम् ॥ ३५ ॥
अकार्यं कारितो येन बलादहमनिन्दिते ॥
उपदेशं प्रदास्यामि तत्त्वं कर्तुमिहार्हसि ॥ ३६ ॥
महाकालवने पुण्ये लिङ्गं रूपप्रदायकम् ॥
पशुपेश्वरपूर्वे तु विद्यतेऽभीष्टदायकम् ॥३७ ॥
तत्त्वं गच्छ त्वरा युक्ता सह भर्त्रा नृपेण हि ॥
रूपं प्राप्स्यसि दुष्प्राप्यं लिङ्गदर्शनमात्रतः ॥ ३८ ॥
इत्युक्ता सा तदा कन्या सह भर्त्रा गता प्रिये ॥
महाकालवने रम्ये यत्र लिङ्गमनुत्तमम् ॥ ३९ ॥
ददर्श परया भक्त्या स च राजा नरोत्तमः ॥
तत्क्षणाद्दिव्यदेहा सा रूपेणातिमनोहरा ॥
दिव्यवस्त्रपरीधाना दिव्यालङ्कारभूषिता ॥ 5.2.62.४० ॥
स च राजा तथा जातः कन्दर्पसदृशाकृतिः ॥
रूपेणाप्रतिमो लोके तस्य लिङ्गस्य दर्शनात् ॥ ४१ ॥
अतो लोकेषु विख्यातो देवो रूपेश्वरः प्रिये ॥
रूपदो धनदोऽत्यर्थं पुत्रदः स्वर्गदस्तथा ॥ ४२ ॥
स च राजा स्वकं प्राप्तो राष्ट्रं सस्यादिसंयुतम् ॥
प्रियया परया सार्धं चक्रे राज्यमकण्टकम् ॥ ४३ ॥
राज्यं कृत्वा गतः स्वर्गं भार्यया सह पार्वति ॥
देदीप्यमानो वपुषा द्वितीय इव भास्करः ॥ ४४ ॥
विमानेन सुदीप्तेन वन्द्यमानो दिवालये ॥
दर्शनात्तस्य लिङ्गस्य प्राप्तः पदमनामयम् ॥ ४५ ॥
ये पश्यन्ति विशालाक्षि देवं रूपेश्वरं शिवम् ॥
न ते रूपेण हीयन्ते यशसा च कुलेन च ॥ ४६ ॥
सदा रूपकरं लिङ्गं भुक्तिमुक्तिफलप्रदम् ॥
ये पश्यन्ति वरारोहे तेषां लोकाः सदाऽक्षयाः ॥ ४७ ॥
येऽर्चयन्ति नरा नित्यं देवं रूपेश्वरं परम् ॥
तेऽर्चिता यान्ति यानेन मम लोकं सनातनम् ॥ ४८ ॥
स एव सुकृती लोके कुलं तेनाप्यलङ्कृतम्॥
यः पूजयति रूपेशं रूपसौभाग्यदायकम् ॥ ४९ ॥
यः पूजयति देवेशं प्रसङ्गादपि पार्वति ॥
धनवान्रूपवान्सोऽपि राजा भवति भूतले ॥ 5.2.62.५० ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
रूपेश्वरस्य देवस्य धनुःसाहस्रकं ७ब् ॥ ५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये रूपेश्वरमाहात्म्यवर्णनन्नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥ ॥ छ ॥ ॥ ॥