०६१ सौभाग्येश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
एकषष्टितमं विद्धि सौभाग्येश्वरमीश्वरम् ॥
यस्य दर्शनमात्रेण सौभाग्य मतुलं लभेत् ॥ १ ॥
प्रधमं प्राकृते कल्पे राजाभूदश्ववाहनः ॥
प्राग्ज्योतिषपुरे रम्ये धर्मात्मा कीर्त्तिवर्द्धनः ॥ २ ॥
अनेकयज्ञकृत्प्राज्ञः सङ्ग्रामेष्वप राजितः ॥
तस्य भार्या विशालाक्षि नाम्ना मदनमञ्जरी ॥ ३ ॥
काशिराजसुता सुभ्रू रूपेणातीव शोभना ॥
दक्षा सुशीला धर्मिष्ठा गृहव्यापारको विदा ॥ ४ ॥
चतुःषष्टिकलायुक्ता सदा भर्तृहिते रता ॥
पूर्णेन्दुवदना सौम्या सदा मधुरभाषिणी ॥ ५ ॥
पूर्वकर्मवशाद्देवि दुर्भूगा समजायत ॥
सा नेष्टा तस्य नृपतेर्नेत्रोद्वेगकरी सदा ॥ ६ ॥
श्रोत्रोद्वेगकरं वाक्यं तस्य राज्ञः करोति सा ॥
ददाह लोचने राजस्तस्याः सन्दर्शनं सदा ॥ ७ ॥
मृर्छां प्राप्नोत्यसह्यां स तस्याः स्पर्शेन भूपतिः ॥
कदा चालोकितो राजा तया प्रेम्णा वरानने ॥
दह्यमानोऽतितीव्रेण वह्निना वाक्यमब्रवीत् ॥ ॥ ८ ॥
द्वास्थैतां दुर्भगां भार्यामादाय विपिने वने ॥
परित्यजाशु नैतत्ते विचार्यं वचनं मम ॥ ९ ॥
ततो नृपस्य वचनमविचार्यमवेक्ष्य सः ॥
द्वास्थस्तत्याज तां सुभ्रूमारोप्य स्यन्दनं वने ॥ 5.2.61.१० ॥
सा च त्यक्ता वने शून्ये रुदती च मुहुर्मुहुः ॥
सस्मार तं महीपालं तममन्यत दैवतम् ॥ ॥ ११ ॥
अथ सा चारुसर्वाङ्गी तत्रासक्तात्ममानसा ॥
निश्वासपरमा निन्ये दिनशेषं तथा निशाम् ॥ १२ ॥
निश्वसन्त्यनवद्याङ्गी हाहेति रुदती मुहुः ॥
मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा ॥ १३ ॥
न विहारे न चाहारे रमणीये न तद्वने ॥
न कन्दरेषु शैलानां सा बबन्ध तदा रतिम् ॥
त्यक्ता तेन वरारोहे निनिन्द निजयौवनम् ॥ १४ ॥
दुर्भगाहं क्व जातात्र दुष्टदैववशीकृता ॥
कथं प्राप्तः स मे भर्त्ता तादृशो नृपस त्तमः ॥ १५ ॥
धन्योऽयमतिपुण्योऽयं योऽयं यौवनगोचरः ॥
अन्यासामसतीनां च रमिष्यति न संशयः ॥ १६ ॥
अभीष्टा कस्यचित्कान्ता कान्तः कस्याश्चिदीप्सितः ॥
परस्परानुरागाढयं दाम्पत्यमतिदुर्लभम् ॥ १७ ॥
ममायं वल्लभो राजा न चाहं नृपवल्लभा ॥
परस्परानुरागो हि धन्यानामेव जायते ॥ १८ ॥
यद्यद्य स महीपालो न मया सङ्गमेष्यति ॥
तत्कामाग्निरवश्यं मां क्षपयिष्यति दुःसहः ॥ १९ ॥
रमणीयमभूद्यत्तु पुंस्कोकिलनिनादितम् ॥
हीनं हि वल्लभेनैवं दहतीवाद्य मे वनम्॥ 5.2.61.२० ॥
इत्थं सा मदनाविष्टा विलपन्ती पुनःपुनः ॥
ददर्श तापसं तत्र त्रिकालज्ञं दृढव्रतम् ॥ २१ ॥
मेखलाजिनकौपीनदण्डकाष्ठोपजीवनम् ॥
महौजसं महाभागं मुमुक्षुं मुनिपुङ्गवम् ॥२२॥
उदयादित्यसङ्काशं विभावसुसमद्युतिम् ॥
तं दृष्ट्वा सहसोत्थाय सा राज्ञी दुर्मता सती ॥ २३ ॥
विनयेनोपसंयम्य प्रणिपत्याभिवाद्य च ॥
वियोगकारणं राज्ञः पप्रच्छ प्रणता सती ॥ २४ ॥
भगवन्काशिराजस्य सुताहमतिवल्लभा ॥
भगिनी शत्रुसेनस्य मातुश्चातीव वल्लभा ॥ २५ ॥
अश्ववाहनसञ्ज्ञेन नृपेणोढा महामुने ॥
धर्मतो धर्मकल्पेन प्रजपतिसमेन तु ॥ २६ ॥
सा किमर्थं न चाभीष्टा जाताऽहं तस्य भूपतेः ॥
स चातीव ममाभीष्टो नृपतिः सर्वदा विभो ॥ ॥ २७ ॥
दुर्भगाहं कथं जाता कर्मणा केन तापस ॥
कथं भवति वश्यो मे भर्त्ता नृपतिसत्तमः ॥
सौभाग्यं च कथं मे स्यादिति सत्यं च कथ्यताम् ॥ २८ ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिः संशितव्रतः ॥
ज्ञानेन कथयामास तस्या दौर्भाग्यकारणम् ॥ २९ ॥
पाणिग्रहणकाले त्वं ग्रहैः पापैर्विलोकिता ॥
भर्ता ते नृपतिः पुत्रि ग्रहैः सौम्यैर्विलोकितः ॥ 5.2.61.३० ॥
तेन ते वल्लभो राजा न त्वं भूपस्य वल्लभा ॥
इति तस्य वचः श्रुत्वा सा राज्ञी दीनमानसा ॥
पप्रच्छ विनयोपेता भक्तिनम्रात्मकन्धरा ॥३१॥
भगवन्केन दानेन स्नानेन नियमेन च ॥
कर्मणा केन सौभाग्यं परमं हि कथं भवेत् ॥ ३२ ॥
इति तस्या वचः श्रुत्वा स मुनिः संशितव्रतः ॥
कथयामास माहात्म्यं सौभाग्यं येन लभ्यते ॥ ३३ ॥
महाकालवने पुत्रि लिगं सौभाग्यदायकम्॥
मतङ्गेश्वरपार्श्वे तु विद्यतेऽभीष्टदायकम् ॥
तस्य दर्शनमात्रेण सौभाग्यं समवाप्स्यसि ॥३४॥
इन्द्राण्याराधितं लिङ्गं पुरा सौभाग्यकारणात् ॥
सौभाग्यं परमं लब्धं नष्टः शक्रोऽपि लब्धवान् ॥
तस्माद्गच्छ ममादेशान्महाकालवनं शुभम् ॥ ३५ ॥
सौभाग्यं भविता तत्र कान्तेन सह दर्शनम्॥
पुत्रो भविष्यति शुभे तस्य लिङ्गस्य दर्शनात् ॥ ३६ ॥
इत्युक्ता सा तदा तेन तापसेन वरानने ॥
विद्यते यत्र तल्लिङ्गं महाकालवनं गता ॥३७॥
ददर्श प्रणयोपेता लिङ्गं सौभाग्यदायकम् ॥
दर्शनात्तस्य लिङ्गस्य राजा सस्मार तां प्रियाम् ॥ ३८ ॥
पप्रच्छ जमदग्निं तु क्व गता मे प्रिया विभो ॥
भक्षिता विपिने विप्र सिंहव्याघ्रनिशाचरैः ॥ ३९ ॥
मया त्यक्ता नृशंसेन अहं तस्यास्तु वल्लभः ॥
एवं ब्रुवाणो नृपतिः प्रत्युक्तो जमदग्निना ॥ 5.2.61.४० ॥
न भक्षिता सा भूपाल सिंहव्याघ्रनिशाचरैः ॥
सा चाविप्लुतचारित्रा त्वद्भक्ता च पतिव्रता ॥ ॥ ४१ ॥
महाकालवनं राजन्गता सौभाग्यकाम्यया ॥
भार्या रक्ष्या महीपाल इति सा श्रुतिरुत्तमा ॥ ४२ ॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ॥
आत्मा हि जायते तस्यां सा रक्ष्यातो नरेश्वर ॥४३॥
धर्महानिश्चानुदिनमभार्यस्य भवेन्नृप ॥
नित्यक्रियाया विभ्रंशः स चापि पतनाय वै ॥ ४४ ॥
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्त्तरि ॥
दुःशीला दुर्भगा भार्या पोषणीया नरेश्वर ॥ ४५ ॥
इति तस्य वचः श्रुत्वा समायातो नरेश्वरः ॥
महाकालवने रम्ये ददर्श स्वां प्रियां तदा ॥ ४६ ॥
सौभाग्यालङ्कृतां सुभ्रू पूजयन्तीं महेश्वरम् ॥
दृष्ट्वा स्नेहेन चालिङ्ग्य प्रत्युवाच स तां प्रियाम्॥ ४७ ॥
विरहेण त्वदीयेन सन्तप्तोऽहं वरानने ॥
अद्य मे सफलं चक्षुर्जीवितं च सुजीवितम् ॥ ४८ ॥
यत्त्वां पश्यामि सुभगे कृतार्थोहं कृतस्त्वया ॥
एवं दृष्टातिहर्षेण सा ददर्श तदा पतिम् ॥
उवाच च प्रसीदेति भूयो भूयो मुदान्विता ॥ ४९ ॥
ततः स राजा रभसात्परिष्वज्याह भामिनीम् ॥
प्रिये प्रसन्न एवाहं भूयो भूयो ब्रवीमि किम् ॥ 5.2.61.५० ॥
ततः समागमो जातो जातः पुत्रोऽतिधार्मिकः ॥
तस्य लिङ्गस्य माहात्म्याद्दत्तोनाम स गीयते ॥ ५१ ॥
सौभाग्यमतुलं लब्धं तया देव्या हिमात्मजे ॥
सौभाग्येश्वरसञ्ज्ञं तु ततःप्रभृति भूतले ॥ ५२॥
ये पश्यन्ति विशालाक्षि सौभाग्येश्वरमीश्वरम्॥
तेषां कुले न दौर्भाग्यं जायते पर्वतात्मजे ॥ ५३ ॥
भविष्यति न दारिद्र्यं वियोगो न च बन्धुभिः ॥
पुत्रमित्रकलत्राणां लिङ्गस्य च समर्चनात् ॥ ५४॥
नोपसर्गभयं तेषां ये पश्यन्ति वरानने ॥
सौभाग्येश्वरसञ्ज्ञं तु न ग्रहादिभयं भवेत् ॥ ५५ ॥
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥
मनुष्यो जायते देवि सौभाग्येश्वरदर्शनात् ॥
सम्पूज्यः सर्वलोकेषु सौभाग्येकनिधिर्भवेत् ॥ ५६ ॥||
जायते भूपतिर्लोके सार्वभौमो वरानने ॥
नापुत्रा नाधना नारी न दीना न च दुःखिता ॥
जायते दुर्भगा नैव सौभाग्येश्वरदर्शनात् ॥ ५७ ॥
न वैधव्यं न च व्याधिर्नाकालमरणं श्रिये॥
न पुत्रभर्तृजं दुःखं जायते लिङ्गदर्शनात् ॥ ५८॥
यथा लक्ष्मीर्हरेर्नित्यं सावित्री ब्रह्मणः स्मृता ॥
रोहिणी वल्लभा चेन्दोः शची शक्रस्य वल्लभा ॥
तथा सा जायते नारी सौभाग्येश्वरदर्शनात् ॥ ५९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सौभाग्येश्वरदेवस्य शृणु रूपेश्वरं प्रिये ॥ 5.2.61.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीति लिङ्गमाहात्म्ये सौभाग्येश्वरमाहात्म्यवर्णनन्नामैकषष्टितमोऽध्यायः ॥ ६१ ॥