०६० वर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
मतङ्गेश्वर सञ्ज्ञं तु षष्टिसङ्ख्याकमीश्वरम् ॥
विद्धि पापहरं देवि समीहितकरं सदा ॥ १ ॥
सुगतिर्नाम विप्रेन्द्रो बभूव द्वापरे युगे ॥
सत्यवादी सदा दान्तो वेदाध्ययनतत्परः ॥ २ ॥
मतङ्गस्तस्य पुत्रोऽभूद्बाल्याद्दारुणतां गतः ॥
सबालं गर्दभं देवि तिष्ठन्तं मातुरन्तिके ॥
दण्डकाष्ठेन सहसा ताडयामास चापलात् ॥ ३ ॥
तं तु तीव्राहतं दृष्ट्वा गर्दभी पुत्रगृद्धिनी ॥
उवाच मा शुचः पुत्र चण्डालोऽयं न वै द्विजः ॥ ४ ॥
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते ॥
तुदन्पापाकृतिरयं बाले न कुरुते दयाम् ॥ ५ ॥
स्वकीयां भजते चाथ प्रकृतिं मानवः सदा ॥
एतच्छ्रुत्वा मतङ्गस्तु दारुणं गर्द्दभीवचः ॥ ६ ॥
दण्डकाष्ठं परित्यज्य रासभीं प्रत्यभाषत ॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिता ॥ ७ ॥
कथं मां वेत्सि चण्डालं यायावरकुलोद्भवम् ॥
केन जातोस्मि चण्डालो ब्राह्मण्यं येन मे गतम् ॥ ८ ॥
॥ गर्दभ्युवाच ॥ ॥
नापितेन प्रमत्तेन ब्राह्मण्यां वृषलेन हि ॥
ततस्त्वमसि चाण्डालो ब्राह्मण्यं तेन ते गतम् ॥ ९ ॥
एवमुक्तो मतङ्गस्तु पितरं वाक्यमब्रवीत् ॥
ताताश्चर्यं श्रुतं मेऽद्य जातोऽहं नापितेन वै ॥ 5.2.60.१० ॥
गर्दभ्या कथितं सम्यक्तस्मात्तप्स्ये महत्तपः ॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ॥११॥
स गत्वा च ततोऽरण्यमतप्यत महत्तपः ॥
ततः सन्तापयामास विबुधांस्तपसान्वितः ॥ १२ ॥
तं तथा तपसा युक्तमुवाच हरिवाहनः ॥
मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान्॥
वरं ददामि तेऽहं तं वृणीष्व त्वं यदिच्छसि ॥ १३ ॥
॥ मतङ्ग उवाच ॥ ॥
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ॥
देहि मे शाश्वतं शक्र वर एष वृतो मया ॥ १४ ॥
एतच्छ्रुत्वा तु वचनं तमुवाच पुरन्दरः ॥
ब्राह्मण्यं याचसे त्वं हि दुष्प्रापमकृतात्मभिः ॥ ॥ १५ ॥
नाशमेष्यसि दुर्बुद्धे तदुपारम मा चिरम्॥
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥ १६ ॥
एवमुक्तो मतङ्गस्तु संशितात्मा यत व्रतः ॥
अतिष्ठदेकपादेन वर्षाणां शतसङ्ख्यया ॥ १७ ॥
तमुवाच ततः शक्रः पुनरेव महायशाः ॥
ब्राह्मण्यं दुर्लभं वीर मा कृथाः साहसं वृथा ॥ १८ ॥
न हि शक्यं प्राप्तुमेवमचिरान्नाशमेष्यसि ॥
वृणु वा काममन्यं त्वं ब्राह्मणत्वं सुदुर्लभम् ॥ १९ ॥
एवमुक्तो मतङ्गस्तु संशितात्मा दृढव्रतः ॥
सहस्रमेकं पादेन ततोऽब्दानामवर्त्तत ॥5.2.60.२०॥
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥
चण्डालायौनौ जातेन नावाप्यं ते कथञ्चन ॥ २१ ॥
अन्यं वरं वृणीष्व त्वं मा कृथास्तत्स्वयं श्रमम् ॥
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः ॥ २२ ॥
अतिष्ठत गयां गत्वा सोङ्गुष्ठेन शतं समाः ॥
सुदुष्करं वहन्योगं प्राणायामपरायणः ॥ २३ ॥
त्वगस्थिभूतो धर्मात्मा तताप परमं तपः ॥
तपन्तं तमभिद्रुत्य परिजग्राह वासवः ॥ २४ ॥
वराणामीश्वरो दाता सर्वभूतहिते रतः ॥ २५ ॥
॥ शक्र उवाच ॥ ॥
मतङ्ग ब्राह्मणत्वं हि विरुद्धमिह दृश्यते ॥
ब्राह्मण्यं दुर्ल्लभं तात ह्यसतां पापशीलिनाम् ॥ २६ ॥
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः ॥
तदुत्सृज्येह दुष्प्राप्यं ब्राह्मण्यमकृतात्मभिः ॥ २७ ॥
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः ॥ २८ ॥
॥ मतङ्ग उवाच ॥ ॥
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् ॥
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं नानुपालयेत्॥२९॥
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैः शतक्रतो॥
तपसा च कथं लब्धं विश्वामित्रेण भूभुजा॥5.2.60.३०॥
वीतहव्यश्च राजर्षिस्तपसा विप्रतां गतः॥
तस्मात्तपः करिष्यामि निर्द्वन्द्वो निष्परिग्रहः॥ ३१॥
अहिंसादमसत्यस्थः कथं नार्हामि विप्रताम् ॥
दैवेन कृतमेतद्धि यद्यहं मातृदोषतः॥३२॥
एतामवस्थां सम्प्राप्तो दैवयोगात्पुरन्दर ॥
नूनं दैवं न शक्यं तु पौरुषेण निवर्त्तितुम् ॥ ३३ ॥
यदहं यत्नवानेवं न लभे विप्रतां विभो ॥
एवं ज्ञात्वा तु देवेश दातुमर्हसि मे परम्॥३४॥
यदि तेऽहमनुग्राह्यः किञ्चिद्वा सुकृतं मम॥
तदुपायं हि मे शम्स कथं विप्रो भवामि वै॥३५॥
यथा ममाक्षया कीत्तिर्भवेद्वापि पुरन्दर ॥
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये । ३६ ॥
इत्युक्तो हि मतङ्गेन वासवो बलवृत्रहा ॥
कथयामास सन्तुष्टो लिङ्गमाहात्म्यमुत्तमम् ॥ ३७ ॥
॥ इन्द्र उवाच ॥ ॥
महाकालवने लिङ्गं स्थापितं ब्रह्मणा पुरा ॥
दिव्यमूर्त्तिधरं दिव्यं श्रीसिद्धेश्वरपूर्वतः ॥ ३८ ॥
तस्य दर्शनमात्रेण विप्रत्वं समवाप्स्यसि ॥
वासवस्य च वाक्येन मतङ्गो गतवांस्तदा ॥ ३९ ॥
महाकालवनं रम्यं सिद्धक्षेत्रमथापरम् ॥
ददर्श तत्र तल्लिङ्गमशेषफलदायकम् ॥ 5.2.60.४० ॥
दृष्ट्वा सम्पूजयामास पुष्पैर्नानाविधैस्तथा ॥
पूजितः प्रत्युवाचेदं मतङ्गं देवसत्तमः ॥ ४१ ॥
अहो महान्सभाग्योसि यस्त्वया तोषितोऽस्म्यहम् ॥
मत्तः सर्वं समुद्भूतं ब्रह्माण्डं भूर्भुवादिकम् ॥ ४२ ॥
वरदोऽस्मि वरार्हाणां शापदोऽस्मि दुरात्मनाम ॥
ब्राह्मण्यं मत्प्रसादाच्च अक्षयं ते भविष्यति ॥ ४३ ॥
ततोऽसौ विप्रतां यातो मतङ्गो लिङ्गदर्शनात ॥
पुनः पूजाप्रभावेण ब्रह्मलोकं गतो द्विज ॥ ४४ ॥
ब्राह्मण्यं दुर्लभं लब्धं लिङ्गस्यास्य प्रभावतः ॥
मतङ्गेन वरारोहे तस्माद्देवो विगीयते ॥ ४५ ॥
मतङ्गेश्वरको लोके ब्रह्मलोकप्रदायकः ॥
वर्णाश्रमेषु विद्विष्टाः पाषण्डवचने रताः ॥ ४६ ॥
निर्मर्यादा निराचारा निःशङ्काश्चातिलोलुपाः ॥
निर्घृणाः क्रूरर्माणो धृष्टाः कलियुगे नराः॥
दर्शनात्तस्य लिङ्गस्य तेऽपि यान्ति त्रिविष्टपम् ॥४७॥
ये विशुद्धा महाभागा ध्यानिनो मुक्तिभागिनः ॥
ते पश्यन्ति कलौ देवि मतङ्गेश्वरमीश्वरम् ॥४८॥
ब्रह्मध्यानपरा ये च यज्ञदानक्रियारताः॥
ते पश्यन्ति कलौ देवि मतङ्गेश्वरमीश्वरम् ॥ ४९ ॥
येऽर्चयन्ति महा देवि मतङ्गेश्वरमीश्वरम ॥
कृतपुण्या नरा मर्त्त्ये तेषां वासोऽक्षयो दिवि॥5.2.60.५०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
मतङ्गेश्वरदेवस्य शृणु सौभाग्यमीश्वरम् ॥ ५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मतङ्गेश्वरमाहात्म्य वर्णनन्नाम षष्टितमोऽध्यायः ॥ ६० ॥ ॥ छ ॥