॥ ईश्वर उवाच ॥ ॥
प्रयागेश्वरसञ्ज्ञं तु सर्वकामकरं परम् ॥
अष्टाधिकं विजानीहि पञ्चाशत्तममीश्वरम् ॥ १ ॥
आसीत्प्रथमकल्पे तु मनुः स्वायम्भुवः पुरा ॥
तस्य प्रियव्रतः पुत्रो यज्वा परमधार्मिकः ॥ २ ॥
स चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ॥
सप्तद्वीपेषु सम्प्राप्य भरतादीन्सुतान्प्रिये ॥ ३ ॥
स्वयं विशालां बदरीं गत्वा तेपे महत्तपः ॥
कालेन बहुना तत्र नारदः समुपस्थितः ॥ ४ ॥
पूजितो विष्टरार्घेण राज्ञा प्रियव्रतेन च ॥
स पृष्टः पूजयित्वा तु किमाश्चर्यं वदस्व मे ॥ ५ ॥
इत्युक्तः कथयामास नारदो मुनिसत्तमः ॥
श्वेतद्वीपे मया राजन्कन्या दृष्टा सरोवरे ॥ ६ ॥
सा च पृष्टा विशालाक्षी कस्माद्वससि निर्जने ॥
कासि भद्रे कथं वासि किंवा कार्यमिह त्वया ॥७ ॥
कर्त्तव्यं चारुसर्वाङ्गि तन्ममाचक्ष्व शोभने ॥
एवमुक्ता मया सा हि मां दृष्ट्वा मीलितेक्षणम् ॥ ८ ॥
स्मृत्वा तूष्णीं स्थिता यावत्तावन्मे ज्ञानमुत्तमम् ॥
विस्मृताः सर्ववेदाश्च सर्वशास्त्राणि चैव हि ॥९॥
ततोऽहं विस्मयाविष्टश्चिन्तामोहसमन्वितः ॥
तामेव शरणं गत्वा यावत्पश्यामि पार्थिव ॥5.2.58.१०॥
तावद्दिव्यः पुमांस्तस्याः शरीरे समदृश्यत ॥
तस्यापि पुंसो ह्रदये द्वितीयस्तस्य चोरसि ॥
तस्यापि हृदये चान्यस्तृतीयस्तु व्यवस्थितः ॥११॥
ततः पृष्टा मया देवी सा कुमारी कथञ्चन ॥
वेदा नष्टा ममाशेषा भद्रे किं ब्रूहि कारणम् ॥१२॥
॥ कन्योवाच ॥ ॥
माताहं सर्ववेदानां सावित्रीनाम नामतः ॥
मां न जानासि येन त्वमतो वेदा हृतास्तव ॥ १३ ॥
एवमुक्ते मया पृष्टा विस्मयेन महीपते ॥
वेदानां त्वं तु माता वै कथयस्व ममानघे ॥ १४ ॥
त्वदीय हृदये देवि क एते पुरुषास्त्रयः ॥ १५ ॥
॥ कन्योवाच ॥ ॥
य एष मच्छरीरस्थः शुभाङ्गश्चारु शोभनः ॥
एष ऋग्वेदनामा तु यजुर्वेदो द्वितीयकः ॥ १६ ॥
सामवेदस्तृतीयस्तु त्रयो वेदा मयि स्थिताः ॥
त्रयोऽग्नयस्त्रयो देवा मच्छरीरे स्थिता द्विज ॥ १७ ॥
इत्युक्त्वा सा तदा कन्या पश्यतो मम भूपते ॥
अन्तर्द्धानं गता सद्यस्ततोऽहं विस्मितोऽभवम् ॥ १८ ॥
किं करोमि क्व गच्छामि शरणं यामि कं प्रभुम् ॥
कथमाविर्भविष्यन्ति वेदाः शास्त्राणि साम्प्रतम् ॥ १९॥
कामिकस्तीर्थराजस्तु प्रयागः श्रूयते श्रुतौ ॥
अहं तत्र गमिष्यामि ज्ञानं सम्यग्भविष्यति ॥ 5.2.58.२० ॥
नष्टवेदेन रैभ्येण प्राप्ता सिद्धिरनुत्तमा ॥
सावित्री श्रूयते तत्र अक्षय्यवटसन्निधौ ॥ २१ ॥
एवं मनसि सन्ध्याय गतोऽहं नृपसत्तम ॥
प्रयागं कामिकं तीर्थं सर्वदेवनमस्कृतम् ॥ २२ ॥
तपस्तीव्रं मया तत्र तप्तं परमदुष्करम् ॥
अथाजगाम राजेन्द्र प्रयागो मूर्त्तिमान्स्वयम् ॥ २३ ॥
उक्तोऽहं प्रणयात्तेन न मां तापय नारद ॥
ब्रह्मपुत्र प्रयागोऽहं भीषितस्तपसा तव ॥ २४ ॥
भवतः पार्श्वमायातः प्रणयेन तपोधन ॥
धन्योऽसि सर्वथा ब्रह्मंस्तपसा च विशेषतः ॥ २५ ॥
मया सार्धं त्वया ब्रह्मन्गतिः कार्याऽविकल्पतः ॥
महाकालवने रम्ये तत्र ते ज्ञानमुत्तमम् ॥
भविष्यति न सन्देहो मम कीर्तिश्च सुस्थिरा ॥ २६ ॥
एवं हि ब्रुवतस्तस्य प्रयागस्य नृपोत्तम ॥
प्रादुर्बभूव सहसा पीतवासा जनार्द्दनः ॥ २७ ॥
शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः ॥
उवाच मेघगम्भीरं वाक्यं स पुरुषोत्तमः ॥ २८ ॥
एहि नारद गच्छामः प्रयागो यत्र यास्यति ॥
कृष्णस्य वचनं श्रुत्वा मया प्रोक्तो जनार्दनः ॥ २९ ॥
ज्ञानं मे देहि देवेश कथं यास्यामि तद्वनम्॥
महाकालं जगन्नाथ श्रुतज्ञानविवर्जितः ॥ 5.2.58.३० ॥
इत्युक्तः श्रीधरेणाहं महाकालवनं नृप ॥
आनीतस्तत्क्षणाच्छीघ्रं प्रयागसहितस्तदा ॥३१ ॥।
घण्टेश्वरस्य पूर्वे तु नवनद्यास्तु दक्षिणे ॥
तत्र लिङ्गमनादि तु ज्योतीरूपं सनातनम् ॥ ३२ ॥
प्रयागः पूजयामास पश्यतो मम भूपते ॥
लिङ्गेनोक्तं प्रसन्नेन किमर्थं त्वमिहागतः ॥३३॥
प्रयाग प्रयतो भूत्वा प्रसन्नोऽहं सदा तव॥
दर्शनं च मदीयं तु विफलं न भविष्यति ॥३४॥
इत्युक्तस्तेन लिङ्गेन मदर्थं प्रार्थितस्तदा ॥
ज्ञानं देहि द्विजायास्मै नारदाय महात्मने ॥ ३५ ॥
नष्टा वेदाश्च शास्त्राणि सावित्र्या दर्शनात्प्रभो ॥ ३६ ॥
ततो लिङ्गात्समुत्तस्थौ ब्रह्मा वेदैर्वृतस्तदा ॥
षडङ्गैः सरहस्यैश्च पुराणैः सहितस्तदा ॥ ३७ ॥
इत्युक्तोऽहं तदा देव्या सावित्र्या नृपसत्तम ॥
लिङ्गस्यास्य प्रभावेण प्रयागाभ्यर्थितस्य वै ॥ ३८ ॥
प्रतिभास्यन्ति ते वेदा धर्मशास्त्राणि नारद ॥
इत्युक्ते वचने भूयः प्राप्ता वेदा मया नृप ॥ ३९ ॥
ज्ञानं षडङ्गसहितं शास्त्राणि विविधानि च ॥
लब्धज्ञानेन राजेन्द्र मया प्रोक्तं वचस्तदा ॥ 5.2.58.४० ॥
प्रयागेनार्चितो देवो मम ज्ञानस्य कारणात् ॥
प्रयागेश्वरसञ्ज्ञस्तु ख्यातिं लोकेषु यास्यति ॥ ४१ ॥
तदाप्रभृति तल्लिङ्गं तीर्थकोटिशतैर्वृतम् ॥
स्वर्गापवर्गफलदं तत्र त्वं गन्तुमर्हसि ॥ ४२ ॥
किमनेनाश्वमेधेन इष्टेन नृपसत्तम ॥
अश्वमेधशतफलं जायते तस्य दर्शनात् ॥ ४३ ॥
तपसा किं सुतप्तेन कायक्लेशकरेण तु ॥
वाञ्छितं लभते सद्यः प्रयागेश्वरदर्शनात् ॥ ॥ ४४ ॥
॥ ईश्वर उवाच ॥ ॥
नारदस्य वचः श्रुत्वा स्वायम्भुवसुतो नृपः ॥
प्रियव्रतो महादेवि महाकालवनं गतः ॥ ४५ ॥
ददर्श तत्र तल्लिङ्गं नवनद्यास्तु दक्षिणे ॥
दर्शनात्तस्य लिङ्गस्य मत्समीपं समागतः ॥ ४६ ॥
मया सम्मानितो देवि गणानामधिपः कृतः ॥
ये पश्यन्ति नरा भक्त्या प्रयागेश्वरमीश्वरम् ॥
ते धन्या मानुषे लोके क्लिश्यन्त्यन्ये निरर्थकाः ॥ ४७ ॥
या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः ॥
सा गतिर्जायते सम्यक्प्रयागेश्वरदर्शनात् ॥ ४८ ॥
माघमासे समेष्यन्ति प्रयागेश्वरदर्शनम् ॥
कर्त्तुं ये मानुषास्तेषामश्वमेधः पदेपदे ॥ ४९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
प्रयागेश्वरदेवस्य शृणु सिद्धेश्वरं परम् ॥ 5.2.58.५० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डे चतुरशीतिलिङ्गमाहात्म्ये प्रयागेश्वरमाहात्म्यवर्णनन्नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥