॥ ईश्वर उवाच ॥ ॥
सप्तपञ्चाशतं विद्धि घण्टेश्वरमथो शृणु ॥
यस्य दर्शनमात्रेण कामावाप्तिश्च जायते॥ १ ॥
घण्टोनाम गणश्रेष्ठो बभूव मम वल्लभः ॥
चाक्षुषस्य मनोः काले कौतुकार्थं यदृच्छया ॥
प्रस्थितो ब्रह्मसदनं द्रष्टुं ब्रह्माणमव्ययम्॥२॥
अथायान्तं समालोक्य गन्धर्वं गीतकोविदम्॥
चित्रसेनं गणश्रेष्ठः पप्रच्छ कुशलं मुदा॥३॥
मया तत्रैव गन्तव्यं सदने परमेष्ठिनः।.
गीतैराराधयिष्यामि ब्रह्माणं जगतां पतिम्॥४॥
चित्रसेनोऽथ तं देवि प्रत्युक्तो घण्टमब्रवीत्॥
पद्मयोनिः सुरैः सार्धं गुह्यं मन्त्रमचीकरत् ॥ ५ ॥
एतच्छ्रुत्वा गणो घण्टस्तस्थौ विस्मितमानसः ॥
मूहूर्तं चिन्तयामास प्रतिहारनिवारितः ॥ ६ ॥
हित्वा स्वामिनमीशानं द्रष्टुं ब्रह्माणमागतः ॥
प्रवेशोपि न लभ्येत प्रसादो दूरतः स्थितः ॥ ७॥
एवं चिन्तयतस्तस्य साग्रः संवत्सरो गतः ॥
घण्टस्य ब्रह्मणो द्वारि प्रवेशो देवि नाभवत् ॥ ८ ॥
निर्गच्छतमथालोक्य वीणाहस्तं समुत्सुकम् ॥
नारदं स गणश्रेष्ठः पद्मयोनिं गृहोदरात् ॥ ९ ॥
प्रोक्तो घण्टेन सहसा मां निवेदय नारद ॥
गणोऽहं गीततत्त्वज्ञो महादेवस्य वल्लभः ॥ 5.2.57.१० ॥
दर्शनार्थं समायातो ब्रह्मणः परमेष्ठिनः ॥
घण्टस्य वचनं श्रुत्वा प्रीतिमानभवन्मुनिः ॥
नारदः प्रत्युवाचेदं समाश्वास्य सकैतवम् ॥ ११ ॥
अहं बृहस्पतेः पार्श्वे प्रेषितोऽस्मि गणाधिप ॥
किञ्चित्कार्यान्तरं प्रष्टुं ब्रह्मणा लोककर्तृणा ॥
आयास्यामि क्षणेनैव तावत्कालं प्रतीक्ष्यताम् ॥ १२ ॥
इत्युक्त्वा नारदो देवि मम पार्श्वमुपागतः॥
वृत्तान्तं कथयामास घण्टस्य मुनिसत्तमः॥१३॥
ईदृशो दुर्ल्लभो भृत्यो घण्टेन सदृशः प्रभो ॥
यस्त्वां त्यक्त्वा गणो देव सेवायै परमेष्ठिनः॥
स्थितः संवत्सरं साग्रं प्रवेशं न च लब्धवान्॥१४
तच्छ्रुत्वा वचनं तस्य नारदस्य मुनेस्तदा॥
मया शप्तस्तु कोपेन पत घण्ट महीतले॥१५॥
मां त्यक्त्वा हि गतोन्यत्र सेवार्थं परवेश्मनि॥
मयेत्युक्ते च वचने ब्रह्माद्वारि स्थितोऽपि सन्॥ १६॥
पतितो भूतले घण्टो देवदारुवनान्तिके ॥
आत्मानं पतितं दृष्ट्वा भूमौ घण्टेन पार्वति ॥ १७ ॥
प्रोक्तं शोकोत्तरेणैव वचनं गद्गदाक्षरम् ॥
सेवार्थं याति योऽन्यत्र परिहृत्य स्वकं प्रभुम् ॥ १८ ॥
स याति नरकं घोरमपकीर्तिं च विन्दति ॥
नारदेन मम त्वद्य वञ्चितस्य द्वयं गतम् ॥
यस्मात्स्वामी न मे ब्रह्मा न च देवो महेश्वरः ॥ १९ ॥
एवं विलपतस्तस्य नारदो मुनिसत्तमः ॥
आजगाम तमुद्देशं यत्र घण्टो व्यवस्थितः ॥ 5.2.57.२० ॥
देवदारुवने देवि दर्शनार्थं तपस्विनाम् ॥
घण्टेन नारदो दृष्टो भीतेनाकुलचेतसा ॥ २१ ॥
अवस्थामीदृशीं कृत्वा किमन्यन्मे करिष्यति ॥
एवं तं चिन्तयानं तु नारदो वाक्यमब्रवीत् ॥ २२ ॥
गणाध्यक्ष न ते कार्यो मन्युः पुण्यविनाशनः ॥
कीर्त्यर्थं पतितो घण्ट प्रायश्चित्तार्थमेव च ॥ २३ ॥
प्रायश्चित्तविशुद्धात्मा प्रभुं प्राप्स्यसि शङ्करम् ॥
तस्माद्गच्छ ममादेशान्महाकालवनं शुभम् ॥ २४ ॥
रेवन्तेश्वर पूर्वे तु विद्यते लिङ्गमुत्तमम् ॥
सर्वसम्पत्करं दिव्यं त्वन्नाम्ना ख्यातिमेष्यति ॥ २५ ॥
इत्युक्तो नारदेनैव जैगीषव्यः समागतः ॥
तेनापि कथितं सर्वं सत्यमुक्तमनेन वै ॥ २६ ॥
नारदेन गणाध्यक्ष कीर्त्तिस्ते भविताऽक्षया ॥
कश्यपेन मृकण्डेन कण्वेन जमदग्निना ॥२७॥
अत्रिणा भृगुणा देवि लोमशेन सुरर्षिणा ॥
प्रोक्तो घण्टो गतः शीघ्रं महाकालवनं शुभम् ॥ २८ ॥
यत्र घण्टानिनादेन युध्यतो मम संयुगे ॥
पापक्षयकरं देवि सम्भूतं लिङ्गमुत्तमम् ॥
दृष्टं तत्र गणेनैव लिङ्गं तेजोमयं शुभम् ॥ २९ ॥
दर्शनात्तस्य लिङ्गस्य भूयो घण्टो गणोऽभवत् ॥
लक्ष्म्या कान्त्या समायुक्तः सहस्रकिरणाकृतिः ॥ 5.2.57.३० ॥
घण्टोभिनन्दितोऽत्यर्थं विमानैः सार्वकामिकैः ॥
मम पार्श्वं समायातो ममातीव प्रियोऽभवत् ॥ ३१ ॥
ये पश्यन्ति विशालाक्षि देवं घण्डेश्वरं शिवम् ॥
ते घण्टाभिर्नादितास्तु विमानैः सार्वकामिकैः ॥३२॥
यास्यन्ति सुचिरं कालं मम लोकं सनातनम् ॥
घण्टेश्वरं परं लिङ्गं नाख्येयं यस्यकस्यचित् ॥ ३३ ॥
व्याधितो यदि वा दीनो दुःखितो वा भवेन्नरः ॥
यः पश्यति प्रसङ्गेन देवं घण्टेश्वरं प्रिये ॥
दीप्तकाञ्चनवर्णाभैर्विमानैः सार्वकामिकैः ॥ ३४ ॥
गन्धर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ॥
ईप्सिताल्ँलभते कामान्वीणावेणुविनोदितः ॥ ३५ ॥
ततः स्वर्गात्परिभ्रष्टः सर्वैश्वर्यसमन्वितः ॥
हिरण्यधान्यसम्पूर्णे समृद्धे जायते कुले ॥
राजा वा राजतुल्यो वा जम्बूद्वीपपतिर्भवेत् ॥ ३६ ॥
यः पूजयति देवेशं श्रद्धया परया युतः ॥
स याति परमं स्थानमपुनर्भवकारणम् ॥ ३७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
घण्टेश्वरस्य देवस्य प्रयागेशमथो शृणु ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये घण्टेश्वर माहात्म्यवर्णनन्नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥