॥ श्रीमहादेव उवाच ॥ ॥
षट्पञ्चाशत्तमं विद्धि रेवन्तेश्वरसञ्ज्ञकम् ॥
यस्य दर्शनमात्रेण परा सिद्धिः प्रजायते ॥ १ ॥
असहन्ती पुरा सञ्ज्ञा रवेस्तेजोऽतिदुःसहम् ॥
तपः कर्त्तुं गता देवि ज्ञाता सूर्येण सुव्रता ॥ २ ॥
अश्वरूपं ततः कृत्वा जगामाथोत्तरान्कुरून् ॥
ददृशे तत्र सञ्ज्ञां च वडवारूपधारिणीम् ॥ ३ ॥
गता सा सम्मुखं तस्य पृष्ठरक्षणतत्परा ॥
ततोभून्नासिकायोगस्तयोस्तत्र समेतयोः ॥ ५ ॥
नासत्य दस्रौ तनयावश्ववक्त्रौ विनिर्गतौ ॥
रेतसोंऽते च रेवन्तः खड्गी चर्मी तनुत्रधृक् ॥ ६ ॥
अश्वारूढः समुद्भूतस्ततो बाणधनुर्द्धरः ॥
तेन वै जातमात्रेण अश्वारूढेन लीलया ॥
निर्जितं च जगच्चेदं सदेवासुरमानुषम् ॥७ ॥
ततो देवाः पराभूता ब्रह्माणं शरणं गताः ॥
प्रणम्य कथयामासुर्भयकम्पितकं धराः ॥ ८ ॥
अस्माकं विभवं तेजो रविपुत्रेण नाशितम् ॥
रेवन्तेन सुरेन्द्रेण शृणु लोकपितामह ॥ ९ ॥
तस्य गात्रसमुद्भूतो वह्निर्धावति काल जित् ॥
ज्वलन्ति पादपास्तेन पतन्ति शिखराणि च ॥ 5.2.56.१० ॥
सर्वतो व्याकुलीभूतं हाहाकारमचेतनम् ॥
तेनैव पीडितं सर्वं ज्वालामालासमाकुलम् ॥ ११ ॥
दशदिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः ॥
सर्वं किंशुकसङ्काशं प्रज्वलन्निव दृश्यते ॥ १२ ॥
इति तेषां वचः श्रुत्वा ब्रह्मणोक्तं वरानने ॥
ज्ञातं मया सुरश्रेष्ठा भवतां कार्यमीदृशम् ॥ १३ ॥
भविष्यति च वस्तच्च काङ्क्षितं यत्सुरोत्तमाः ॥
गच्छध्वं सहसा तस्माच्छङ्करं शरणं सुराः ॥ १४ ॥
ब्रह्मणो वचनं श्रुत्वा ममान्तिकमुपागताः ॥
त्रिदशा भयसन्त्रस्ता नत्वा मामि दमब्रुवन् ॥ १५ ॥
आदित्यतनयेनैव रेवन्तेन महेश्वर ॥
दग्धं त्रिभुवनं सर्वं शरीरस्थेन वह्निना ॥
तेजसा महता चैव विक्रमेण बलेन च ॥ १६ ॥
असाध्यः किल सोऽस्माकं सर्वेषां देवसत्तम ॥
भवान्प्रभवते तस्य नान्यः शङ्कर कश्चन ॥ १७ ॥
त्वां प्रपद्यामहे सर्वे भयार्त्ताः शरणार्थिनः ॥
शरणं वरदं देवं त्रिदशानां महेश्वर ॥ १८ ॥
मया स्मृतः सूर्यपुत्रो रेवन्तस्तत्क्षणात्प्रिये ॥
प्राप्तः प्रीतिप्रसन्नात्मा वचनं चेदमब्रवीत् ॥ १९ ॥
किं मया देव कर्त्तव्यं ब्रूहि सर्वमशेषतः ॥
ततो मया सूर्यपुत्र उत्सङ्गे च कृतस्तदा ॥ 5.2.56.२० ॥
स्नेहादाचुम्बितो मूर्ध्नि परिष्वक्तः पुनःपुनः ॥
ददामि ते महाभाग वरं वरय सुव्रत ॥ २१ ॥
परितुष्टोस्मि ते कामं यथेष्टं काममाप्नुहि ॥
इदमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ॥ २२ ॥
ममाभीष्टं परं स्थानं विद्यते पृथिवीतले ॥
अक्षयं प्रलये पुत्र महाकालवनं शुभम् ॥
तत्र दास्यामि ते स्थानं तत्र कीर्त्तिर्भविप्यति ॥ २३ ॥
पूर्वे कण्टेश्वरस्यापि स्थानं परमदुर्ल्भम् ॥
तत्र त्वं वस रेवन्त लिङ्गं द्रक्ष्यसि शाश्वतम् ॥ २४ ॥
सर्वदा त्रिदशैः पूज्यो भविष्यसि न संशयः ॥
गुह्यकाधिपतिस्त्वं च स्वर्गलोके भविष्यसि ॥ २५ ॥
अश्वशालासु सर्वासु पूजनीयो भविष्यसि ॥
नृपतीनां गृहे चैव वसिष्यसि सुपूजितः ॥ २६ ॥
तेजो मदीयं तत्स्थानं लिङ्गाकारं सनातनम् ॥
पूजितं त्रिदशैस्तत्र संसेव्यं यत्नतस्त्वया ॥ २७ ॥
एवमुक्तो मया देवि रेवन्तो रविजस्तदा ॥
जगामाकाशमाविश्य महाकालवनं क्षणात् ॥ २८ ॥
ददर्श तत्र तल्लिङ्गं ज्योतीरूपं सनातनम् ॥
सूर्यपुत्रस्तु रेवन्तो दृष्टो लिङ्गेन पार्वति ॥ २९ ॥
प्रोक्तः प्रणयपूर्वेण दिष्ट्या दृष्टोऽसि सूर्यज ॥
अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले ॥ 5.2.56.३० ॥
स्थातव्यं मत्समीपे तु सूर्यपुत्र त्वया सदा ॥
अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये ॥ ३१ ॥
रेवन्तेश्वरसञ्ज्ञोऽहं भविष्यामि न संशयः ॥
ये मां द्रक्ष्यन्ति रेवन्त भक्त्या परमया युताः ॥
तेषामश्वा भविष्यन्ति विजयो यश ऊर्जितम् ॥ ३२ ॥
ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनन्तकम् ॥
गुह्यकानां पतिर्भूत्वा स्वर्गलोके स वत्स्यति ॥ ३३ ॥
लिङ्गस्य वचनं श्रुत्वा प्रोक्तं वै रविसूनुना ॥
रेवन्तेन विशालाक्षि सन्तुष्टेनान्तरात्मना ॥३४॥
देहि मे ह्यचला भक्तिं देहि मे स्थानमुत्तमम् ॥
देहि मे परमं ज्ञानं ध्रुवां कीर्तिं च देहि मे ॥ ३५ ॥
भगवन्भूतभव्येश भवबन्धभयापह ।
संस्कृतार्थोऽस्मि सञ्जातस्तव देवस्य दर्शनात् ॥ ३६ ॥
जन्मकोटिसुसंशुद्धा ये त्वां पश्यन्ति देहिनः ॥
न तेषां पुनरावृत्तिर्घोरसंसारसागरे । ॥ ३७ ॥
इत्युक्त्वा रविसूनुर्वै रेवन्तो रविवल्लभः ॥
रेवन्तेश्वरदेवस्य समीपे संव्यवस्थितः ॥ ३८ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ।
रेवन्तेश्वरदेवस्य घण्टेश्वरमथो शृणु ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्ग माहात्म्ये रेवन्तेश्वरमाहात्म्यवर्णनन्नाम षट्पञ्चाशत्तमोऽयायः ॥ ५६ ॥