०५५ सिंहेश्वरमाहात्म्यवर्णनम्

॥ ॥ श्रीईश्वर उवाच ॥ ॥
पञ्चाधिकं विजानीहि पञ्चाशत्तममीश्वरम् ॥
सिंहेश्वरं वरारोहे महाभयविनाशनम ॥ १ ॥
सद्यःकल्पे त्वया देवि मदर्थं हि महत्तपः ॥
कृतं नीलोत्पलापाङ्गि भीषणं संशितव्रतम् ॥
तपसा तव रौद्रेण दग्धं हि भुवनत्रयम् ॥ २ ॥
दुष्करं हि तपो ज्ञात्वा भगवां श्चतुराननः ॥
आगत्योवाच देवेशो देवि त्वां शुभया गिरा ॥ ३ ॥
किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते ॥
विरम्यतामतिक्लेशात्त पसोऽस्मान्ममाज्ञया ॥ ४ ॥
त्वया च वचनं श्रुत्वा गुरोर्गौरवगर्भितम् ॥
प्रियं तथ्यं हितं तत्र वर्णनिर्णीतवाञ्छितम् ॥ ५ ॥
प्रत्युक्तः स तदा ब्रह्मा प्रणामनम्रया त्वया ॥
तपसा दुष्करेणाप्तः पतित्वे शङ्करो मया ॥ ६ ॥
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ॥
श्यामाहं काञ्चनाकारा वल्लभेन च संयुता ॥
भर्त्ता भूतपतिर्वश्यः कथं स्यादिति मे तपः ॥ ७ ॥
त्वदीयं वचनं श्रुत्वा वरार्हो वरदः प्रभुः ॥
एवं भविष्यतीत्याह ब्रह्मा लोकपितामहः ॥ ८ ॥
कियता चैव कालेन वाञ्छासिद्धिर्भविष्यति ॥
गौरीनाम्ना तु ते मूर्त्तिः कान्त्या दीप्ता भविष्यति ॥ ९ ॥
एतच्छ्रुत्वा त्वया वाक्यं ब्रह्मणः परमेष्ठिनः ॥
क्रुद्धा त्वं गिरिजेऽत्यर्थं कालेऽभीष्टं भविष्यति ॥ 5.2.55.१० ॥
क्रोधात्सिंहः समुद्भूतो वदनात्ते भयावहः ॥
विवृतास्यो महारौद्रो जटाजटिलकन्धरः ॥ ११ ॥
प्रोद्धूतवल्गुलाङ्गूलो दंष्ट्रोत्कटमुखोत्कटः ॥
तस्यास्ये पतितुं देवि व्यवसायः कृतस्त्वया ॥ १२ ॥
सोऽपि सिंहः क्षुधाविष्टस्त्वां भक्षयितुमुद्यतः ॥
न चैवासौ समर्थोऽभूद्वीक्षितुं वा तपोधिकाम् ॥ १३ ॥
स दह्यमानः सहसा तेजसा तपसा तव ॥
पराङ्मुखः समभवत्प्राणत्राणपरायणः ॥ १४ ॥
ततस्तवाभूत्करुणा सिंहं प्रति यतव्रते ॥
क्षुधितस्य त्वया तस्य क्षीरं ह्यमृतसन्निभम् ॥ १५ ॥
उत्पादितं स्तनाभ्यां तु तस्य सिंहस्य कारणात ॥
तथापि दह्यतेऽत्यर्थं दुष्टभावं यतो गतः ॥ १६ ॥
तेनोक्तं दह्यमानेन मातर्दग्धोस्मि तेजसा ॥
त्वदीयेन दुराचारो दुष्टोहं पापविग्रहः ॥ १७ ॥
त्वामत्तुकामो दुष्टात्मा त्वयाहं जनितोऽधुना ॥
तस्माद्यास्यामि नरकं मातृहा गुरुघातकः ॥ ८ ॥
तस्य तद्वचनं श्रुत्वा दुःखितस्य सुतस्य तु ॥
ममत्वेन विशालाक्षि सिंहस्य कथितं त्वया ॥१९॥
अधमं विद्यते क्षेत्रं महाकालवनं सुत॥
तत्र गच्छ ममादे शाच्छीघ्रं देवविनिमितम् ॥ 5.2.55.२० ॥
कण्टेश्वरस्य देवस्य समीपे लिङ्गमुत्तमम् ॥
सिंहनादात्समुत्पन्नं शङ्करस्य महात्मनः ॥ २१ ॥
अन्धकासुरयुद्धे वै पीडिते वासवे पुरा ॥
त्वदीयं वचनं श्रुत्वा सिंहस्त्वरितविक्रमः ॥ २२ ॥
गतो महाकालवनं दृष्टो देवोऽथ तत्क्षणात्॥
दिव्यदेहो मृगारिस्तु जातो लिङ्गस्य दर्शनात् ॥ २३ ॥
ममत्वात्तस्य लिङ्गस्य त्वं गता तत्र पार्वति ॥
सिंहिकारूपमास्थाय शीघ्रं सिंहस्त्वया प्रिये ॥ २४ ॥
दृष्टो दिव्यशरीरस्तु लिङ्गस्यास्य प्रभावतः ॥
तव तुष्टिः परा जाता दृष्ट्वा सिंहं महाद्युतिम् ॥ २५ ॥
कृतं नाम त्वया देवि लिङ्गस्यास्य वरानने ॥
दिव्यदेहस्तु सिहोयं जातो लिङ्गस्य दर्शनात् ॥ २६ ॥
अतः सिंहेश्वरो देवो भुवि ख्यातो भविष्यति ॥
एतस्मिन्नन्तरे ब्रह्मा सम्प्राप्तस्तत्र सुव्रते ॥
उवाच त्वां वरारोहे देवैः परिवृतस्तदा ॥२७॥
य एष सिंहः सम्भूतस्तव क्रोधात्सुतो यतः ॥
ततोऽसौ वाहनो देवि भविष्यति न संशयः ॥ २८ ॥
लिङ्गं सिंहेश्वरं भक्त्या यः पश्यति समाहितः ॥
तस्य वासोऽक्षयो दिव्यो भविष्यति त्रिविष्टपे ॥२९॥
कीर्तनान्मुच्यते पापाद्दृष्ट्वा भद्राणि पश्यति ॥
स्पर्शनादस्य लिङ्गस्य पुनात्यासप्तमं कुलम् ॥ 5.2.55.३० ॥
मनसा चिन्तितान्कामांस्तांश्च प्राप्नोति पुष्कलान् ॥
तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ॥ ३१ ॥
यदा पश्यति सिंहेशं संसारार्णवतारकम् ॥
व्यालव्याघ्रादयश्चौरास्तथा साहसिकाश्च ये ॥३२॥
तेभ्यो भयं न भवति श्रीसिंहेश्वरदर्शनात् ॥
यज्ञानां तपसां चैव दानादीनां च यत्फलम् ॥
तत्फलं जायते सम्यग्दृष्ट्वा सिंहेश्वरं शिवम् ॥ ३३ ॥
मदीयं लोकमाप्नोति सुरासुरनमस्कृतम् ॥
यः पश्यति प्रयत्नेन देवं सिंहेश्वरं तदा ॥ ३४ ॥
इत्युक्त्वासौ जगामाथ ब्रह्मा लोके स्वकं प्रिये ॥
यद्वपुस्तव पूर्वं स्यात्कालकान्तिकलङ्कितम् ॥
प्रभावात्तपसस्तस्य गौरत्वं प्राप्तमद्भुतम् ॥ ३५ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सिंहेश्वरस्य देवस्य रेवन्तेशमतः शृणु ॥ ३६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये सिंहेश्वरमाहात्म्यवर्णनन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ॥ ५५ ॥