०५४ कण्टेश्वरमाहात्म्यवर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
चतुःपञ्चाशतं विद्धि देवं कण्टेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत ॥ १ ॥
आद्यकल्पे पुरा देवि राजाभूत्सत्यविक्रमः ॥
स शत्रुभिर्जितः सङ्ख्ये हृतकोशोऽतिदुःखितः ॥ २ ॥
वनं जगाम गहनमेकाकी श्रमकर्शितः ॥
तत्राश्रमं ददर्शाथ वसिष्ठस्य महात्मनः ॥ ३ ॥
तेनर्षिणा वसिष्ठेन दृष्टमात्रः स भूपतिः ॥
पूजितो विष्टराद्येन राजार्हेण च सादरम् ॥ ४ ॥
ज्ञात्वा तपःप्रभावेन सूर्यवंशोद्भवं नृपम् ॥
पप्रच्छागमनं देवि कुशलं च पुनः पुनः ॥ ५ ॥
स नृपः कथयामास वसिष्ठाय सुदुःखितः ॥
राज्यं च सकलं ब्रह्मन्हृतं विद्वेषिभिर्मम ॥ ६ ॥
त्वामहं शरणं प्राप्तो दुःखैकायतनो यतः ॥
निष्कण्टकं कथं राज्यं भविष्यति पुनः प्रभो ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥ ७ ॥
तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवानृषिः ॥
ध्यात्वा च कथयामास बहुकौतू हलान्वितः ॥ ८ ॥
महाकालवनं भूप व्रज त्वं कार्यसिद्धये ॥
दिव्या नदी वने तत्र विश्रुता भुवनत्रये ॥ ९ ॥
तस्यास्तीरे शुभं लिङ्गं पृथुकेश्वर दक्षिणे ॥
द्रक्ष्यसे नृपशार्दूल तपस्यन्तं च तापसम् ॥
अस्थिचर्मावशेषं तु चीरवल्कलधारिणम् ॥ 5.2.54.१० ॥
वचनात्तस्य विप्रस्य वसिष्ठस्य महात्मनः ॥
जगाम सहसा राजा महाकालवनं शुभम् ॥ ११ ॥
ददर्श तापसं तत्र चिरञ्जीविनमव्ययम् ॥
उपवासकृतक्षामं द्वादशादित्यवर्चसम् ॥ ॥ १२ ॥
तापसेन नृपो दृष्टो मित्रोऽयं मम वल्लभः ॥
प्राप्तो राज्यपरिभ्रष्टो ज्ञात्वा वचनमब्रवीत् ॥ १३ ॥
एह्येहि नृपशार्दूल दिष्ट्या प्राप्तोऽसि मेंऽतिके ॥
इत्युक्त्वा तापसेनैव हुङ्कारश्च कृतस्तदा ॥ १४ ॥
तद्धुङ्कारात्तु पातालं भित्त्वा पञ्च च कन्यकाः ॥
निर्ययुः काञ्चनं पीठमेका तासां प्रगृह्य वै ॥ १५॥
भृङ्गारं तु गृहीत्वान्या निःसृता जलसम्भृतम् ॥
पादप्रक्षालनार्थाय तृतीया समुपस्थिता ॥ १६ ॥
अन्ये द्वे व्यजने गृह्य पार्श्वाभ्यां च व्यवस्थिते ॥
ततो हुङ्कारमकरोत्पुनरेव महातपाः ॥ १७ ॥
तेन हुङ्कारशब्देन देवलोकात्समागतम् ॥
दृष्ट्वा चाप्सरसां सङ्घं नृत्यगीतमनो हरम् ॥ १८ ॥
अनन्तरं ददर्शाथ लिङ्गं ज्योतिष्करं परम् ॥
उत्पन्नं च जगद्यस्मिल्ँलीयते सचराचरम् ॥ १९ ॥
तद्दृष्ट्वा विस्मयाविष्टो बभूव नृपसत्तमः ॥
प्रणम्य शिरसा विप्रं किमिदं द्विजसत्तम ॥ 5.2.54.२० ॥
एवं पृष्टो नृपेणाथ स विप्रो वाक्यमब्रवीत् ॥
सप्तजन्मानि राजेन्द्र त्वयाहं परितोषितः ॥ २१ ॥
अतस्ते दर्शिता माया तपसा दुष्करेण तु ॥
लिङ्गस्यास्य प्रभावेण पश्य मे तपसो बलम् ॥ २२ ॥
हुङ्कारेण कृता पृथ्वी जलपूर्णा तु तत्क्षणात् ॥
हुङ्काराच्च जलं ग्रस्तं मुखादग्निरजायत ॥ २३ ॥
हुङ्कारात्पृथिवी सर्वा जाता वह्निमयी तदा ॥
संहृत्य तत्क्षणाद्वह्निं मुखाद्वायुर्विनिर्ययौ ॥ २४ ॥
हुङ्कारेण कृतं सर्वं तत्क्षणादेव पार्वति ॥
न दिशः प्रदिशो वापि न नक्षत्रग्रहास्तदा ॥ २५ ॥
ततो बभ्राम तन्नास्ति स नृपो विस्मयान्वितः ॥
चिन्तयामास सहसा क्व लिङ्गं क्व च तापसः ॥ २६ ॥
एवं चिन्तयतस्तस्य ततः शब्दो महानभूत् ॥
तस्माच्छब्दाच्च सञ्जातं पुरं प्राकारसंवृतम् ॥२७ ॥
सुहर्म्यकक्ष्यारचितं विशालं विशुद्धजाम्बूनदभूषितं च ॥
दिव्यैर्जनैः सेवितमात्मविद्भिर्ददर्श राजा सहसा पुरं तत् ॥ २८ ॥
भूयोभवन्महाशब्दस्तस्मात्स्त्रीयुगलं वभौ ॥
सितवस्त्रधरा चैका कृष्णवस्त्रधरा सिता ॥ २९ ॥
पुनः शब्दो बभूवाथ तस्मात्पुरुषसत्तमः ॥
द्विशिराः षण्मुखश्चैव पादैर्द्वादशभिर्युतः ॥ 5.2.54.३० ॥
पुनः शब्दाच्च सञ्जज्ञे पुरुषः सप्तधा गतः ॥
संहृतं हि पुनस्तच्च दर्शयित्वा द्विजेन तु ॥
प्रोक्तमित्थं विशालाक्षि जातकण्टकितं नृपम् ॥ ३१ ॥
पश्य लोकमिमं मह्यं तपसा निर्मितं नृप ॥
त्वत्प्रियार्थमयं लोको दर्शितस्ते नृपोत्तम ॥ ३२ ॥
एवमुक्तस्तदा तेन तापसेन नराधिपः ॥
विस्मयापन्नहृदयः पप्रच्छ प्रयतः सुधीः ॥ ३३ ॥
भगवन्सितकृष्णे द्वे के स्त्रियौ द्विजस त्तम ॥
कोऽसौ द्वादशपाद्विप्र द्विशिराः षण्मुखः पुनः ॥ ३४ ॥
कश्चासौ पुरुषो ब्रह्मन्य एकः सप्तधाऽभवत् ॥
तस्य तद्वचनं श्रुत्वा कथयामास तापसः ॥ ३८ ॥
एते स्त्रियौ त्वया दृष्टे सितकृष्णे नृपोत्तम ॥
ते च रात्र्यहनी प्रोक्ते ब्रह्मणा निर्मिते पुरा ॥ ३६ ॥
शीर्षद्वयं च यद्दृष्टं तेऽयने द्वे प्रकीर्तिते ॥
मुखानि यानि दृष्टानि षट् च ते ह्यृतवः स्मृताः ॥
पादा द्वादश ये दृष्टा मासा द्वादश ते स्मृताः ॥ ३७ ॥
यः पुमान्सप्तधा जात एकीभूतो नरेश्वर ॥
स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥ ३८८॥
एतत्संवत्सरं चक्रं त्वत्प्रियार्थं निदर्शितम् ॥
एवं विदित्वा राजेन्द्र न शोकं कर्तुमर्हसि ॥ ३९ ॥
सर्वो विनश्वरो लोकः सदेवासुरमानुषः ॥
मया दृष्टो हि बहुशो लिङ्गस्यास्य प्रभावतः ॥ 5.2.54.४० ॥
कुरु शत्रुविनाशाय लिङ्ग स्यास्य च दर्शनम् ॥
राज्यं निष्कण्टकं राजन्भविप्यति न संशयः ॥ ४१ ॥
एवमुक्तस्तदा राजा दृष्टवाल्ँलिङ्गमुत्तमम् ॥
दर्शनात्तस्य लिङ्गस्य कण्टका ये महीभृतः ॥
विद्वेषिणो मृतास्तेऽपि श्रुतास्तेन महीभृता ॥ ४२ ॥
गतस्तं विषयं राजा चक्रवर्ती बभूव ह ॥
लिङ्गस्यास्य प्रभावेन राज्यं कृत्वा महाधनैः ॥ ४३ ॥
यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ॥
तापसेन श्रुतं सर्वं दृष्टं ध्यानेन तेन वै ॥ ४४ ॥
लब्धं निष्कण्टकं राज्यं लिङ्गस्यास्य च दर्शनात् ॥
मम मित्रेण सहसा राज्यभ्रष्टेन तेन वै ॥ ४५ ॥
अतो नाम सुविख्यातं कण्टेश्वर इति क्षितौ ॥
भविष्यति न सन्देहो दर्शनाद्राज्यदायकः ॥ ४६ ॥
अद्यप्रभृति पश्यन्ति देवं कण्टेश्वरं शिवम् ॥
तेषां च कण्टकाः सद्यो विनश्यन्ति न संशयः ॥ ४७ ॥
नैमिषेथ कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे ॥
स्नानात्संसेवनाद्वापि यत्पुण्यं च भविष्यति ॥
तत्पुण्यं भविता सम्यक्छ्रीगणेश्वरदर्शनात् ॥ ४८ ॥
गृहिणो लिङ्गिनो वापि ये पश्यन्ति यतव्रताः ॥
देवं कण्टेश्वरं भक्त्या तेषां सिद्धिर्भविष्यति ॥ ४९ ॥
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम् ॥
तत्सर्वं यास्यति क्षिप्रं श्रीकण्टेश्वरदर्शनात् ॥ 5.2.54.५० ॥
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ॥
ध्यानमध्ययनं चैव सर्वं भवति चाक्षयम् ॥ ५१ ॥
एवं ब्रुवाणं तं विप्रं तापसं संशितव्रतम् ॥
लिङ्गेनोक्तं विशालाक्षि तुष्टेन वरपूर्वकम् ॥ ५२ ॥
जरारोगविनिर्मुक्तः सर्वशोकविवर्जितः ॥
भविष्यति गणाध्यक्षो वरदः सर्वपूजितः ॥
अवध्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः ॥ ५३ ॥
एवमुक्तोऽथ लिङ्गेन तापसो गणतां गतः ॥
गणैः परिवृतो देवि मम पार्श्वमुपागतः ॥ ५४ ॥
अन्धकेन पुरा युद्धे सिंहनादो यदा कृतः ॥
तदा देवि मदीयं तु जातं कण्टकितं वपुः ॥ ५५ ॥
उत्पन्नं च तदा लिङ्गमशेषारिविनाशनम् ॥
देवानां कण्टका ये च दग्धा लिङ्गाग्निना यतः ॥
अतः कण्टेश्वरो देवो विख्यातो भुवनत्रये ॥५६॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कण्टेश्वरस्य देवस्य शृणु सिंहेश्वरं परम् ॥ ५७ ॥
इति श्रीस्कान्दे महापुराण एकशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कण्टेश्वरमाहात्म्यवर्णनन्नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥