॥ श्रीविश्वेश्वर उवाच ॥ ॥
द्व्यधिकं देवि जानीहि पञ्चाशत्तममीश्वरम् ॥
ओङ्कारेश्वर इत्याख्या यस्यास्ति भुवनत्रये ॥ १ ॥
प्राकृते कल्पसञ्ज्ञे तु प्रथमे प्रथमं मया ॥
वक्त्रादुत्पादितो देवि पुरुषः कपिलाकृतिः ॥ २ ॥
ततः स पुरुषो दिव्यः किं करोमीत्युपस्थितः ॥
विभजात्मानमित्युक्तो मयान्तर्द्धानगोऽभवत् ॥ ३ ॥ ।
निर्वाणस्येव दीपस्य गतिस्तस्य न लक्षिता ॥
ततस्तस्याभवच्चिन्ता कथमात्मा विभज्यते ॥ ४ ॥
एवं चिन्तयतस्तस्य चतुर्मित्योत्थितस्ततः ॥
त्रिवर्णस्वररूपी च चतुर्वर्गफलप्रदः ॥ ५ ॥
ऋग्यजुःसामनामा च ब्रह्मविष्णुशिवात्मकः ॥
व्याप्नुवन्सकलाल्ँलोकान्प्रभावैः पृथुभिस्तदा ॥ ६ ॥
ओङ्कार इति तस्याख्या मया दता प्रसादतः ॥
तदोक्ताभिरुदाराभिर्वाणीभिः समलङ्कृतः ॥ ७ ॥
हृदयात्तस्य देवस्य वषट्कारः समुत्थितः ॥
छन्दसां प्रवरा देवी चतुर्विंशाक्षरा परा ॥ ८ ॥
षट्कुक्षिः सा त्रिपादा च पञ्चशीर्षोपलक्षिता ॥
समीपवर्त्तिनी देवी पार्श्वे तत्र व्यवस्थिता ॥ ९ ॥
गायत्री मधुराभाषा सावित्री लोकविश्रुता ॥
स चोङ्कारो मया प्रोक्तो गायत्र्या सह पार्वति ॥
सृष्टिं कुरु ममादेशाद्विचित्रामनया सह ॥ 5.2.52.१० ॥
इत्युक्तस्त्रिशिखो भूत्वा हिरण्यसदृशाकृतिः ॥
सृष्टिमुत्पादयामास स्वशरीरान्ममाज्ञया ॥ ११ ॥
पूर्वं देवगणाश्चैव त्रयस्त्रिंशच्च देवताः ॥
मनुष्या ऋषयश्चैव वेदप्रामाण्यतः कृताः ॥ १२ ॥
तेषां देहे प्रविष्टानां प्रादुर्भावः पुनर्भवेत् ॥
यथा सूर्यस्य सततमुदयास्तमनं भवेत् ॥ १३ ॥
संहृत्योङ्कारमखिलान्सदेवासुरपन्नगान् ॥
कृतात्मगर्भे भगवानोङ्कारो जगतः प्रभुः ॥ १४ ॥
ससर्ज सर्वभूतानि कल्पान्ते पर्वतात्मजे ॥
अव्यक्तः शाश्वतश्चैव तस्य सर्वमिदं जगत् ॥ १५ ॥
कर्त्ता चैव विकर्त्ता च संहर्ता च महांस्तु यः ॥
ओङ्कारपूर्वका वेदा यज्ञाश्चोङ्कारपूर्वकाः ॥ १६ ॥
ओङ्कारपूर्वकं ज्ञानं तपश्चोङ्कारपूर्वकम् ॥
स्वयम्भूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः ॥ १७ ॥
स वायुरिति विज्ञेयः सर्वज्ञः स प्रजाकरः ॥
विश्वे देवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ ॥ १८ ॥
प्रजानां पतयश्चैव सप्त चैव महर्षयः ॥
वसवोऽप्सरसश्चैव गन्धर्वाश्चैव राक्षसाः ॥ १९ ॥
दैत्याः पिशाचा रक्षांसि भूतानि विविधानि च ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि ॥
सर्वे चतुष्पदाश्चैव तिर्यग्योनिगतास्तदा ॥ 5.2.52.२०॥
जङ्गमानि च सत्त्वानि यच्चान्यज्जीवसञ्ज्ञकम्॥
कृत्वा सर्वमशेषं च ममान्तिकमुपागतः॥२१॥
प्रणम्य प्रयतो भूत्वा वचनं चेदमब्रवीत् ॥
कृता सृष्टिर्मया देव त्वत्प्रसादान्महेश्वर ॥२२॥
देहि मे परमं स्थानं यथा कीर्त्तिर्ध्रुवा भवेत् ॥
ओङ्कारस्य वचः श्रुत्वा मया प्रोक्तं वरानने ॥२३॥
ममाभीष्टकरं स्थानं नित्यमव्ययमक्षयम् ॥
महाकालवनं दिव्यं सर्वसम्पत्करं शुभम् ॥२४॥
तत्र ते भविता कीर्त्तिः शाश्वती नात्र संशयः ॥
शूलेश्वरस्य देवस्य पूर्वभागे व्यव स्थितम् ॥२५॥
त्रिकल्पप्रभवं लिङ्गं त्वन्नाम्ना ख्यातिमेष्यति ॥
ओङ्कारेश्वर इत्याख्या भविष्यति जगत्त्रये ॥ २६ ॥
इत्युक्तो हि मया देवि ओङ्कारो हृष्टमानसः ॥
ददर्श तत्र तल्लिङ्गं तस्मिल्ँलिङ्गे लयं गतः ॥२७॥
ततः प्रभृति वेदेषु ओङ्कारः क्रियते द्विजैः ॥
पुण्यार्थं मङ्गलार्थं च प्रथमं सर्ववस्तुषु ॥ ॥ २८ ॥
लयङ्गतो यदोङ्कारस्तदाप्रभृति पार्वति ॥
मयोच्यमानं लिङ्गस्य प्रभावातिशयं शृणु ॥ २९ ॥
यद्युगादिसहस्रेषु व्यतीपातशतेषु च ॥
अयनानां सहस्रेषु यत्पुण्यं समुदाहृतम् ॥
तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात् ॥5.2.52.३०॥
चतुर्ष्वपि च वेदेषु समधीतेषु यत्फलम् ॥
ततोऽधिकं फलं प्रोक्तमोङ्कारेश्वरदर्शनात् ॥३१॥
ब्रह्मचर्येण यत्पुण्यं यावज्जीवं कृतेन च ॥
तत्पुण्यमधिकं प्रोक्तमोङ्कारेश्वरदर्शनात् ॥३२॥
करीषसाधने पुण्यं यच्च पुण्यमनाशके ॥
तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात् ॥ ३३ ॥
पूजायां यत्फलं प्रोक्तं तस्य सङ्ख्या न विद्यते ॥ ३४ ॥
किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः ॥
ॐकारदर्शनादेव तत्फलं लभते यतः ॥ ३५ ॥
पूजनात्स्पर्शनाद्वापि कीर्त्तनाच्छ्रवणात्तथा ॥
ॐकारेश्वरदेवस्य नराः स्युर्मुक्तिभाजनाः ॥ ३६ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
ॐकारेश्वरदेवस्य शृणु विश्वेश्वरं परम् ॥ ३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ॐकारेश्वरमाहात्म्यवर्णनन्नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥