॥ ईश्वर उवाच ॥ ॥
एकाधिकं विजानीहि पञ्चाशत्तममीश्वरम् ॥
देवं शूलेश्वरं देवि सर्व व्याधिविनाशनम् ॥ १ ॥
आद्ये कल्पे प्रवृत्ते च राज्यहेतोर्वरानने ॥
देवानां दानवानां च युद्धमासीत्सुदारुणम् ॥
दैत्यानामीश्वरे जम्भे देवानां च शचीपतौ ॥ २ ॥
ततो देवाः पराभूता दैत्या विजयिनोऽभवन् ॥
अन्धको मन्दरं प्राप्तो दूतं मे प्राहिणोत्तदा ॥ ३ ॥
स दूतो मामुवाचोच्चैः सगर्वो दुष्टमानसः ॥
अन्धकेनाहमादिष्टः शृणु शङ्कर मद्वचः ॥ ४ ॥
गौरीं मे देहि पत्न्यर्थं मन्दरस्त्यज्यतामयम् ॥
एवं कृते कृतार्थस्त्वमन्यथा नास्ति ते गतिः ॥ ५ ॥
उक्तोऽहं तेन दूतेन त्वया सह महागिरौ ॥
स्मिताननः क्षणं भूत्वा मया प्रोक्तमिदं वचः ॥ ६ ॥
गच्छ दूत ममादेशादन्धकं ब्रूहि सत्वरम्॥
इहाभ्येत्याहवं कृत्वा जित्वेमां सुन्दरीं नय ॥ ७ ॥
इत्युक्तः प्रययौ दूतस्तेनाख्यातं वचो मम ॥
अन्धकोऽपि तदा दैत्यः समरार्थी तु मन्दरम् ॥
समायातः सहामात्यो बलेन चतुरङ्गिणा ॥ ८ ॥
मया सह ततस्तस्य घोरं युद्धमभूच्चिरम् ॥
अन्धकस्य रथो घोरश्छिन्नो भिन्नः समं ततः ॥ ९ ॥
ततः कुद्धोंऽधको देवि रथात्तस्मादवप्लुतः ॥
मद्रथं बलवान्गृह्य मया सह बलोत्कटः ॥
युयुधे स महादैत्यः शूलेन ताडितो मया ॥ ॥ 5.2.51.१० ॥
मया धृतोन्तरिक्षे स शूलप्रोतो महासुरः ॥
शूलप्रोतोऽथ वै दुष्टस्तावत्स भ्रामितो मया ॥ ११ ॥
सुस्राव तस्य गात्रेभ्यः शोणितोघ स्ततो महान् ॥
बिन्दौबिन्दौ तु रक्तस्य तत्तुल्या दानवास्तथा ॥ १२ ॥
सम्भूताः कोटिशो देवि तैरहं पुनरर्द्दितः ॥
किं कर्त्तव्यमिति ध्यायन्स्थि तोऽहं तत्र भामिनि ॥ १३ ॥
मया चोत्पादिता दुर्गा रक्तदन्ता सुभीषणा ॥
अन्धकस्य तदा पीतं रक्तं वहुविधं तया ॥ १४ ॥
तस्मिन्पीते ततो रक्ते नोत्तस्थुर्देवि चापरे ॥
पूर्वोत्थितास्तयैवाशु निहता दानवाधिपाः ॥
तेन शूलवरेणैव तत्क्षणान्निधनं गताः ॥ १५ ॥
स मामुवाच हृष्टात्मा कृतां जलिपुटोंऽधकः ॥
त्वयि भक्तिः सदा मेस्तु दुर्लभं तव दर्शनम् ॥ १६ ॥
स्वामिना निहतश्चाहं कोऽन्यो धन्यतरो हि मत् ॥
त्वच्छूलेन विनिर्भिन्नो ह्यन्तरिक्षे ततोऽप्यहम् ॥ १७ ॥
सङ्कल्पाक्षेपविक्षेपं कल्पकार्यप्रवर्त्तकम् ॥
सहस्रवक्त्रशिरसं त्वामहं शरणं व्रजे ॥ १८ ॥
गिरीन्द्रतनयानाथं गिरीन्द्रशिखरालयम् ॥
महालयकृतावासं त्वामहं शरणं व्रजे ॥ १९ ॥
एवं स्तुतोऽहं दैत्येन शूलप्रोतेन सुन्दरि ॥
ततो मे करुणा जाता कृतोन्धको गणस्तदा ॥5.2.51.२०॥
स च शूलवरो देवि मया प्रोक्तो मुदा तदा ॥
एहि शूल हतो दैत्यस्त्वया दुष्टोन्धको मृधे ॥२१॥
परितुष्टः प्रयच्छामि परमं स्थानमुत्तमम्॥
न देवैर्न च गन्धर्वैर्नापि तत्परमर्षिभिः॥२२॥
सम्प्राप्यं मामनाराध्य तथा विध्वस्तकल्मषैः॥
मामुवाच ततः शूलः प्रणम्यानतकन्धरः ॥२३॥
यदि प्रसन्नो भगवन्करुणा मयि ते यदि ॥
कथयस्व परं स्थानं मनो मे यत्र शुद्ध्यति ॥
दुष्टसम्पर्कसञ्जातमन्यत्पातकमात्मनः ॥ २४ ॥
ततो मया समादिष्टः करुणाश्लिष्टचेतसा ॥
महाकालवनं रम्यमतिपुण्यफलप्रदम् ॥ २५ ॥
तत्रास्मत्प्राप्तिदं लिङ्गं लोकानुग्रहकारकम् ॥
पृधुकेश्वरपूर्वेण तदाराधय यत्नतः ॥ २६ ॥
मदीयं वचनं श्रुत्वा स जगाम त्वरान्वितः ॥
ददर्श तत्र तल्लिङ्गमनेकफलदायकम् ॥ २७ ॥
लिङ्गेन च पुनर्दृष्टः शूलः शङ्करवल्लभः ॥
सम्भूतोऽनेकवक्त्रस्तु हर्षाद्विस्मितमानसः ॥ २८ ॥
स्नेहात्संश्लेषितोऽत्यर्थं पृष्टस्तु कुशलं पुनः ॥
कथितं तेन शूलेन दुष्टान्धक वधं तदा ॥ २९ ॥
प्रभुणा प्रेरितोऽत्यर्थं शुद्ध्यर्थं भवतोन्तिके ॥
त्वद्दर्शनेन पूतोऽहं यास्यामि शिवसन्निधौ ॥
अद्यप्रभृति भूलोके मन्नाम्ना ख्या तिमेष्यसि ॥ 5.2.51.३० ॥
ततो भविष्यत्यधिकं दर्शनात्ते वृणोम्यहम् ॥
किं तीर्थैर्विविधैः स्नातैः किं दानैर्विविधैः कृतैः ॥ ३१ ॥
ते प्राप्स्यन्ति फलं सर्वम्ं ये त्वां द्रक्ष्यन्ति भक्तितः ॥ ३२ ॥
यः करिष्यति ते पूजां भक्तियुक्तोऽपि मानवः ॥
अष्टम्यां वा चतुर्दश्यां दिने भौमस्य भक्तितः ॥ ॥ ३३ ॥
विमानवरमास्थाय कामगं रत्नभूषितम् ॥
उदितादित्यसङ्काशं स मुदा विचरिष्यति ॥ ३४ ॥
त्वन्नाम ये ग्रहीष्यन्ति सर्वदा भयपीडिताः ॥
व्याधिभिः पीडिता नित्यं दुःखैर्वा क्लेशिता भृशम् ॥
न भविष्यति भीस्तेषां घोरसंसारसागरे ॥ ३५ ॥
ये त्वां द्रक्ष्यन्ति पुरुषा भावहीनाः प्रसङ्गतः ॥
न पतिष्यन्ति संसारे नरके चातिदारुणे ॥ ३६ ॥
इत्युक्तं तेन शूलेन लिङ्गमाश्लिष्य यत्नतः ॥ ३७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
शूलेश्वरस्य देवस्य अथोङ्कारेश्वरं शृणु ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शूलेश्वरमाहात्म्यवर्णनन्नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥