०५० वर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
शृणु देवि प्रयत्नेन पञ्चाशत्तममीश्वरम् ॥
यस्य दर्शनमात्रेण ग्रहबाधा न जायते ॥ १ ॥
सञ्ज्ञानाम रवेर्भार्या सा सुता विश्वकर्मणः ॥
भर्त्तुस्तेजोऽसहन्त्याथ कदाचिच्चैव सञ्ज्ञया ॥
छायामयी चात्मनस्तु निर्मिता तरसा तया ॥ २ ॥
सा प्रोक्ता सादरेणैव स्थीयतां सूर्यसन्निधौ ॥
पृष्ट्यापि न वाच्यं ते मदीयं गमनं रवेः ॥ ३ ॥
इत्युक्त्वा सा तदा सञ्ज्ञा जगाम भवनं पितुः ॥
सञ्ज्ञेयमिति मन्वानो द्वितीयायां दिवस्पतिः ॥
जनयामास तनयं नामतो यः शनैश्चरः ॥ ४ ॥
तस्मिञ्जाते भयं जग्मुः सदेवासुरमानुषाः ॥
त्रैलोक्यं जातमात्रेण आक्रान्तं सचराचरम् ॥ ५ ॥
इन्द्रोऽपि भयसन्त्रस्तो ब्रह्माणं शरणं गतः ॥
सूर्यपुत्रस्य वृत्तान्तं कथयामास गद्गदम् ॥ ६ ॥
भिन्नं तु रोहिणीचक्रं व्याप्तं नक्षत्रमण्डलम् ॥
जातमात्रेण चाक्रान्तं त्रैलोक्यं रविसूनुना ॥ ७ ॥
वासवस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥
आहूय सहसा सूर्यं वचनं चेदमब्रवीत् ॥ ८ ॥
मर्यादा क्रियतां भानो वार्यतां पुत्र औरसः ॥
आक्रान्तं तेजसा तेन त्रैलोक्यं भूभुवादिकम्॥ ९ ॥
ब्रह्मणो वचनं श्रुत्वा रविणा प्रोक्तमीदृशः ॥
असाध्योऽयं मम सुतो वार्यतां स्वयमेव तम् ॥ 5.2.50.१० ॥
पश्य मे चरणौ दग्धौ दृष्टिमात्रेण लीलया॥
ब्रह्मापि भयसन्त्रस्तो जगाम मनसा हरिम् ॥११॥
सूर्यस्य वचनं श्रुत्वा हरिः प्राप्तस्तु तत्क्षणात् ॥
ब्रह्मणो वचनं श्रुत्वा भीतः कृष्णोऽब्रवीदिदम् ॥ १२ ॥
गम्यतां तत्र यत्रास्ते देवदेवो महेश्वरः ॥
कृष्णस्य वचनात्सर्वे ममान्तिकमुपागताः ॥ १३ ॥
वृत्तान्तः कथितः सर्वो रविपुत्रस्य पार्वति ॥
मया स्मृतस्तु सम्प्राप्तः सूर्यपुत्रस्तु तत्क्षणात् ॥ १४ ॥
अधोदृष्टिर्मया दृष्टो वक्राङ्गो रूपतोऽसितः ॥
स्थैर्यं कृत्वा नमस्कृत्य विज्ञप्तोऽहं शनैःशनैः ॥ १५ ॥
किमर्थं वै स्मृतो देव देह्याजां मम शङ्कर ॥
आदेशे तव तिष्ठामि किं करोमि प्रशाधि माम् ॥ ॥ १६ ॥
इत्युक्तोऽहं तदा तेन रविपुत्रेण पार्वति ॥
मया स वारितोऽत्यर्थं मा पीडय जगत्त्रयम् ॥ १७ ॥
तेनोक्तं देहि मे स्थानं पानमाहारमेव च ॥
मया दत्तं विशालाक्षि पूजार्थं स्थानमुत्तमम् ॥ १८ ॥
मेषादिराशिसंस्थः संस्त्रिंशन्मासान्प्रपीडय ॥
मानुषान्क्रमशो वत्स तत्र तृप्तिमवाप्स्यसि॥ १९ ॥
अष्टमश्च चतुर्थश्च द्वितीयो जन्मसंस्थितः ॥
द्वादशराशिसंस्थोऽपि विरुद्धो भव सर्वदा ॥ 5.2.50.२० ॥
एकादशो वा षष्ठो वा तृतीय स्थानगोथवा ॥
भव भव्यतरो नॄणामतः पूजा भविष्यति ॥ २१ ॥
पञ्चमो नवमश्चैव उदासीनस्तु सप्तमः ॥
भव राशिगतो नित्यं मानुषे कर्म भिर्युते ॥ २२ ॥
पूजां प्राप्स्यसि चात्यर्थं ग्रहाणामधिकं सदा ॥
गतिः स्थिरा भवित्री ते वरः श्रेष्ठोभिधीयते ॥ २३ ॥
अतस्ते स्थावरं नाम भविष्यति महीतले ॥
शनैश्चरस्त्वं राशिस्थो ग्रहाणामधिको यतः ॥ २४ ॥
अतः शनैश्चरोनाम भविष्यसि सदा भुवि ॥
गजगण्डनिभाकारो मम कण्ठसमोपि च ॥ २५ ॥
वर्णतो ह्यसितो नाम भविष्यसि महीतले ॥
ग्रहमध्ये ह्यधोदृष्टिर्गतिर्मन्दा भविष्यति ॥
तुष्टो ददासि राज्यं च रुष्टो वै हरसि क्षणात् ॥२६॥
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥
त्वत्क्रूरदृष्टिनिहता नाशं यास्यन्ति नान्यथा । २७ ॥
तव प्रसादात्प्राप्स्यन्ति मनोऽभीष्टं सुदुर्ल्लभम् ॥
अन्यच्च ते प्रदास्यामि स्थानं गुह्यं मनोहरम् ॥ २८ ॥
मनोभीष्टकरं पुण्यं देवदानवदुर्लभम् ॥
प्रलयेऽप्यक्षयं प्रोक्तं महाकालवनं परम्॥ २९ ॥
तत्र गच्छ ममादेशत्त्वपृथुकेश्वरपश्चिमे ॥
विद्यते तत्र यल्लिङ्गं तत्ते नाम्ना भविष्यति ॥ 5.2.50.३० ॥
कीर्त्तिरेषा त्वदीयापि त्रैलोक्ये भविता धुवम्॥ ३१ ॥
इत्युक्तः स्थावरो देवि ममाज्ञापालकस्तदा ॥
जगाम त्वरितो रम्यं महाकालवनं शुभम् ॥ ३२ ॥
दृष्ट्वा तत्रैव तल्लिङ्गं स्थानं लब्धं सुशोभनम्॥
तल्लिङ्गं भुवने ख्यातं नामतः स्थावरेश्वरम् ॥ ३३ ॥
शनिनोक्तं तदा देवि येऽत्र द्रक्ष्यन्ति भक्तितः ॥
मया प्रपूजितं लिङ्गं विख्यातं स्थावरेश्वरम् ॥
तेषां पीडा मदीया तु न भविष्यति कर्हिचित् ॥ ३४ ॥
मदीये च दिने यो वै नियमेन प्रपश्यति ॥
तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ॥३५॥
धक्ष्यामि सततं पीडामन्यग्रहकृतामपि ॥
मदीयं च भयं तस्य स्वप्नेऽपि न भविष्यति ॥ ३६ ॥
न ग्रहा न पिशाचाश्च न यक्षा न च राक्षसाः ॥
विघ्नं कुर्वन्ति तस्यापि मयि तुष्टे न संशयः ॥ ३७ ॥
सङ्क्रान्तौ शनिवारे च व्यतीपातेऽयने तथा॥
ये पश्यन्ति नरा भक्त्या लिङ्गं वै स्थावरेश्वरम् ॥
भविष्यत्यक्षयस्तेषां स्थिरो वासस्त्रिविष्टपे ॥ ३८ ॥
नियमेन प्रपश्यन्ति मम वारेऽत्र ये नराः ॥
न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ॥ ३९ ॥
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥
दास्यामि पुत्रकामस्य फलं पुत्रकृतं सदा ॥ ॥ 5.2.50.४० ॥
अधनस्य धनं चैव भयार्त्तस्याभयं तथा ॥
स्वर्गं वै स्वर्गकामस्य प्रयच्छामि च वाञ्छितम् ॥ ४१ ॥
इत्युक्त्वा पूजयामास भूयो लिङ्गं शनैश्चरः ॥
पूजयित्वा शुभैः पुष्पैर्भक्त्या तत्रैव संस्थितः ॥ ४२ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
स्थावरेश्वरदेवस्य शूलेश्वरमथो शृणु ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्थावरेश्वरमाहात्म्य वर्णनन्नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥