॥ईश्वर उवाच॥
शृणु पञ्चाशदेकोनं देवेशं पृथुकेश्वरम्॥
यस्य दर्शनमात्रेण सार्वभौमो नरो भवेत् ॥ १ ॥
वंशे स्वायम्भुवे देवि ह्यङ्गो राजा बभूव ह ॥
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ॥२ ॥
वेननामा सुतो जातो नास्तिको धर्मदूषकः ॥
देवब्रह्मस्वहारी च परभार्यापहारकः ॥ ३ ॥
स च शप्तो द्विजैर्देवि तत्क्षणान्निधनं गतः ॥
तदूरोर्मथ्यमानात्तु निपेतुर्म्लेछजातयः ॥ ४ ॥
शरीरे मातुरंशेन कृष्णाञ्जनचयप्रभाः ॥
पितुरंशात्समुत्पन्नो धार्मिको द्विजसत्तमैः ॥
मथिताद्दक्षिणाद्धस्तात्पृथुः प्रथितविक्रमः ॥ ५ ॥
स विप्रैरभिषिक्तश्च तपः कृत्वा सुदुष्करम् ॥
विष्णोर्वरेण महता प्रभुत्वमगमन्नृपः ॥ ६ ॥
स च स्वाध्यायरहिता निर्वषट्कारनिर्द्धनाः ॥
हाहाभूताः प्रजा दृष्ट्वा ततोऽभूद्दुःखितो नृपः ॥ ७ ॥
स दोग्धुमैच्छत्त्रैलोक्यं सदेवासुरमानुषम् ॥ ८ ॥
एतस्मिन्नन्तरे प्राप्तो नारदो मुनिसत्तयः ॥
क्रोधाविष्टं पृथुं दृष्ट्वा वाक्यं चेदमुवाच ह ॥ ९ ॥
लोकत्रयविनाशाय मा कोपं कुरु भूपते ॥
पृथ्व्यानया ग्रासितानि सस्यानि विविधानि च ॥
गिलितानि च अन्नानि विद्ध्येवैतन्मतं मम ॥ 5.2.49.१० ॥
नारदस्य च वाक्येन क्रोधं चक्रे पृथुस्तदा ॥
निर्दग्धुमैच्छत्पृथिवीं सशै लवनकाननाम् ॥ ११ ॥
मुमोच शस्त्रमाग्नेयं तेन सा धरणी तदा ॥
दह्यमाना भयार्त्ता च गौर्भूत्वा पृधुमभ्यगात् ॥ १२ ॥
सा वध्यमाना तेनैव नृपं वचनमब्रवीत् ॥
शरणं समनुप्राप्ता गौरहं नृपसत्तम ॥ १३ ॥
गौरवध्या महीपाल वत्सं कृत्वा च दुग्धि माम् ॥ १४ ॥
तस्यास्तद्वचनं श्रुत्वा दुदोह नृपसत्तमः ॥
भास्वद्रत्नानि सस्यानि कृत्वा वत्सं हिमालयम् ॥१५॥
जाताः प्रजाश्च सुमुखाः प्रवृत्तश्च महोत्सवः ॥
प्रवृत्ता यागदानादि क्रिया मगलपूर्विकाः ॥ १६ ॥
राजाथ चिन्तयामास मया पापमिदं कृतम् ॥
अवध्याश्च स्त्रियः प्रोक्ता गौरवध्या द्विजस्तथा ॥ १७ ॥
स्त्रीरूपधारिणी पृथ्वी मोहादेषा मया हता ॥
गोवधे च कृता बुद्धिरहो पापपरम्परा॥
तस्माद्वह्निं प्रवेक्ष्यामि चितां कृत्वा न संशयः ॥ १६ ॥
एवं चिन्तयतस्तस्य पृथोरमिततेजसः ॥
आजगाम पुनस्तत्र नारदो भगवानृषिः ॥ १९ ॥
दृष्ट्वा तथाविधं दीनं चिन्तयानं पृथुं प्रिये ॥
उवाच नारदो धीमान्किमेतदिति पार्थिव॥ 5.2.49.२० ॥
ततः स कथयामास मया पापमिदं कृतम्॥
अवध्या स्त्री हता विप्र कृता बुद्धिश्च गोवधे ॥ २१ ॥
काल्ँलोकानु गमि ष्यामि कृत्वा कर्म सुदारुणम् ॥
मरिष्यामि न सन्देहो ब्रह्महा पापपूरुषः ॥ २२ ॥
अथ चेष्टोपदेशेन दुःखादुद्धर मां द्विज ॥
तस्य तद्वचनं श्रुत्वा कथयामास नारदः ॥
महापापप्रशमनं लिङ्गमाहात्म्यमुत्तमम् ॥ २३ ॥
महाकालवने लिङ्गमभयेश्वरपश्चिमे ॥
महापापक्षयकरं विद्यते तत्र भूपते ॥
गच्छ त्वं सहसा राजंस्तत्र पूतो भविष्यसि ॥ २४ ॥
नारदस्य वचः श्रुत्वा पृधुस्तत्र जगाम सः ॥
दृष्ट्वा लिङ्गं च वै रम्यं विपापस्तत्क्षणादभूत् ॥ ॥ २५ ॥
द्वादशादित्यसङ्काशो बभूव पृथिवीपतिः ॥ २६ ॥
ततोंऽतरिक्षगैर्देवि कृतं नाम वरानने ॥
पृथुना पूजितो यस्माद्भविष्यति महीतले ॥
अद्यप्रभृति विख्यातो देवोऽयं पृथुकेश्वरः ॥ २७ ॥
ये च द्रक्ष्यन्ति देवेशं पृथुकेश्वरमीश्वरम् ॥
ते सर्वकामसम्पूर्णा भविष्यन्ति महीतले ॥ २८ ॥
अज्ञानाज्ज्ञानतो वापि यत्पापं जायते नृणाम्॥
तत्पापं यास्यति क्षिप्रं पृथुकेश्वरदर्शनात् ॥ २९ ॥
वाचिकं मानसं वापि कायिकं गुह्यसम्भवम् ॥
प्रकाशं वा कृतं पापं प्रसङ्गादपि यत्कृतम् ॥
तत्सर्वं यास्यति क्षिप्रं पुथुकेश्वरदर्शनात् ॥ 5.2.49.३० ॥
पूजयिष्यन्ति ये भक्त्या देवं वै पृधुकेश्वरम् ॥
राज्यं प्राप्स्यन्ति ते सम्यङ्नृलोके च त्रिविष्टपे ॥ ३१ ॥
भुक्त्वा राज्यं मनुष्याणां देवानां च महीतले ॥
यास्यन्ति परमं स्थानं ब्रह्मणः परमेष्ठिनः ॥ ३२ ॥
इत्युक्त्वा देवसङ्घैश्च पूजितः पृथुकेश्वरः ॥
पृथुः शशास पृथिवीं सपत्तनां सपर्वताम् ॥ ३३ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पृथुकेश्वर देवस्य शृणु वै स्थावरेश्वरम् ॥ ३४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पृथुकेश्वरमाहात्म्यवर्णनन्नामैकोनपञ्चाशत्तमोऽध्यायः॥ ४९॥