०४८ चतुरशीतिलिङ्गमाहात्म्येऽभयेश्वरमाहात्म्यवर्णनम्

॥ श्रीरुद्र उवाच ॥ ॥
अष्टाधिकं विजानीहि चत्वारिंशत्तमं प्रिये ॥
यस्य दर्शनमात्रेण न भवस्य भयं भवेत् ॥ १ ॥
कल्पावसाने प्रथमे पाद्मे पद्मनिभेक्षणे ॥
नष्टचन्द्रार्कनक्षत्रे नष्टभूमित्रिविष्टपे ॥
ब्रह्मा वै चिन्तयामास कथं सृष्टिर्भवेदिति ॥ २ ॥
इत्याकुलितरूपस्य तस्य नेत्रद्वयात्तदा ॥
पपाताश्रुकणः स्थूलो नेत्राद्वामान्महात्मनः ॥ ३ ॥
तस्मादश्रुकणाज्जातो हारवोनाम दानवः ॥
तीक्ष्णदंष्ट्रो महाकायो भिन्नाञ्जनचयप्रभः ॥ ४ ॥
दक्षिणान्नयनाज्जातः कालकेलीतिविश्रुतः ॥
कृष्णदेहोऽतिदीर्घश्च महादंष्ट्रोर्ध्वरोमकः ॥ ५ ॥
करालवदनो दुष्टो यमरूपो दुरासदः ॥
कृष्णाञ्जनचयाकारः पाशपाणिर्विभीषणः ॥ ६ ॥
तौ तु दैत्यौ समागत्य कृतसङ्केतकौ तदा ॥
ब्रह्माणं हन्तुमिच्छन्तौ प्रमत्तावभिधावितौ ॥ ७ ॥
ततो ब्रह्मा भयाविष्टः कान्दिशीकश्चचार ह ॥
ततो जलेऽतिगम्भीरे सोऽपश्यदमितद्युतिम् ॥ ८ ॥
पुरुषं पीतवसनं शङ्खचक्रगदाधरम् ॥
तमालोक्य ततो ब्रह्मा सन्त्रासं परमं गतः ॥
उवाच को भवाञ्छेते निःशेषेस्मिंश्चराचरे ॥ ९ ॥
तमुवाच ततो विष्णुरहमेवं जगत्पिता ॥
लोककृल्लोकसंहर्त्ता लोकस्थितिविधायकः ॥ 5.2.48.१० ॥
इत्युक्तः पद्मजस्तेन कृष्णेनाक्लिष्टकर्मणा ॥
प्रत्युवाच तदा ब्रह्मा स्रष्टाहं भुवनत्रये ॥ ११ ॥
मया सृष्टं जगत्सर्वं सदेवासुरमानुषम् ॥
अत्रान्तरे च तौ दैत्यावायातौ बलदर्पितौ ॥ १२ ॥
भोक्तुकामौ क्षुधाविष्टौ दृष्ट्वा ब्रह्माब्रवीदिदम् ॥
कृष्णं कमलपत्राक्षं कम्पिताधरपल्लवः ॥ १३ ॥
यदि त्वं कारणं किञ्चिदस्य लोकस्य कथ्यसे ॥
तदा तावसुरौ भीमौ हन्तुमर्हसि साम्प्रतम् ॥ १४ ॥
तच्छ्रुत्वा तु तदा विष्णुर्ज्ञात्वा दुःखं परस्परम् ॥
क्षणं विश्रम्यतां तावत्पश्चाद्द्वन्द्वं भविष्यति ॥ १५ ॥
इत्युक्त्वा कृतसङ्केतौ तौ दैत्यौ बलगर्वितौ ॥
ब्रह्मनारायणौ हन्तुं धावितौ तु त्वरान्वितौ ॥ १६ ॥
ब्रह्मविष्णू तदा दृष्ट्वा दानवौ दुर्जयौ रणे ॥
सन्त्रासं जग्मतुस्तत्र स्वेदकम्पपरिप्लुतौ ॥ १७ ॥
अन्योन्यमूचतुस्तौ हि देशकालोचितं वचः ॥
कर्तव्यं किं नु वा कार्यं मम वा तव वा भवेत् ॥ १८ ॥
उपस्थितं भयं घोरं तत्र किं कार्यमस्ति नौ ॥
आसन्नं मरणं दृष्ट्वा ब्रह्मा प्रोवाच केशवम् ॥ १९ ॥
गम्यतां कृष्ण शीघ्रं वै महाकालवनोत्तमम् ॥
प्रलयेऽप्यक्षयं प्रोक्तं तत्र रक्षा भविष्यति ॥
अहं तत्र गमिष्यामि व्रज त्वं तत्र केशव ॥ 5.2.48.२० ॥
इत्युक्तो ब्रह्मणा कृष्णो जगाम सह तेन वै ॥
महाकालवनं प्राप्तौ न च दृष्टो महेश्वरः ॥
तत्रापि दशसाहस्रकालः पर्यटतोस्तयोः ॥ २१ ॥
ततो ज्वालामयं दिव्यं नूपुरेश्वरदक्षिणे ॥
दृष्ट्वा तल्लिङ्गमाहात्म्यं ब्रह्मविष्णू ततः स्वयम् ॥
प्रार्थयाञ्चक्रतुर्देवमभयं देहि नौ प्रभो ॥ २२ ॥
शरणं भव देवेश दानवाभ्यां प्रपीडितौ ॥
अभयं च ततो दत्तं तेन लिङ्गेन पार्वति ॥ २३ ॥
शुश्राव गर्जितं ताभ्यां दानवाभ्यां पितामहः ॥
प्रत्युवाच भयत्रस्तो लिङ्गं कम्पितकं धरः ॥ २४ ॥
स एष मृत्युरस्माकमेति शीघ्रं भयावहः ॥
दीयतामभयं देव कृष्णेनोक्तं तदा प्रिये ॥ २५ ॥
भयार्त्तवचनं श्रुत्वा ब्रह्मणः केशवस्य च ॥
तौ दैवौ तेन लिङ्गेन जठरे सन्निवेशितौ ॥ २६ ॥
दृष्टं ताभ्यां जगत्सर्वं सार्कचन्द्रमहीधरम् ॥
ससिद्धगन्धर्वकुलं शैलताललताकुलम् ॥ २७ ॥
समुद्रपीठसंयुक्तं नानावर्णाश्रमोज्ज्वलम् ॥
सपातालतलं देवि सभुजङ्गमहीरुहम् ॥ २८ ॥
ससप्तलोकविन्यासं सदेवासुरराक्षसम् ॥
पुनस्तौ निःसृतौ तस्माज्जठराद्विस्मयान्वितौ ॥ २९ ॥
दृष्ट्वौ भस्मीकृतौ दैत्यौ तेन लिङ्गेन पार्वति ॥
तुष्टुवाते परं लिङ्गं भक्त्या परमया युतौ ॥ 5.2.48.३० ॥
लिङ्गेनोक्तं प्रसन्नेन भवद्भ्यां किं ददाम्यहम्॥
ममामोघमिदं देवौ दर्शनं चातिदुर्लभम् ॥ ३१ ॥
ततो ब्रह्मा च विष्णुश्च वरयामासतुर्वरम् ॥
यदि देयो वरोऽ स्माकं नृणामभयदो भव ॥ ३२ ॥
ये च त्वां पूजयिष्यन्ति यक्ष्यन्ति च समाहिताः ॥
संस्मरिष्यन्ति सततं तेषामभयदो भवे ॥ ३३ ॥
अभयेश्वरसञ्ज्ञस्तु ख्यातो भुवि भविष्यसि ॥
ते कृतार्था भविष्यन्ति ये त्वां पश्यन्ति भक्तितः ॥ ३४ ॥
भविष्यति भयं नैव संसारपतनं तथा ॥
धनपुत्रकलत्राणां वियोगो न भविष्यति ॥ ३५ ॥
दुःखिता दुर्भगा नारी दर्शनं या करिष्यति ॥
सौभाग्यसुखसंयुक्ता भविष्यति न संशयः ॥
वीरं तु गुर्विणी कन्या पतिमाप्स्यति शोभनम् ॥ ३६ ॥
यंयं काममभिध्याय ये त्वां पश्यन्ति मानवाः ॥
तन्तं मनोरथं सर्वं गमिष्यन्ति न संशयः ॥ ३७ ॥
एवं भविष्यतीत्युक्त्वा लिङ्गेन परमेश्वरि ॥
विसर्जितौ गतौ दैवौ ब्रह्मविष्णू स्वमालयम् ॥ ३८ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
अभयेश्वर देवस्य श्रूयतां पृथुकेश्वरम्॥३९॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽभयेश्वरमाहात्म्यवर्णनन्नामाष्टाचत्वारिंशोऽध्यायः॥४८॥