॥ श्रीदेवदेव उवाच ॥ ॥
सप्ताधिकं विजानीहि नूपुरेश्वरसञ्ज्ञकम् ॥
यस्य दर्शनमात्रेण प्राप्यन्ते सर्वसिद्धयः ॥ ॥ १ ॥
पुरा राथन्तरे कल्पे नूपुरोनाम वै गणः ॥
रुद्रभक्तिपरोनित्यं पञ्चमुद्राविभूषितः ॥ २ ॥
स एकदा कुबेरस्य सभायां प्राप्य संस्थितः ॥
द्रष्टुं महोत्सवं तत्र अप्सरोभिः कृतं तदा ॥ ३ ॥
ननृतुश्चापरास्तत्र ह्युर्वशी योषितां वरा ॥
रम्भा तिलोत्तमा मेना ननृतुर्हर्षसंयुताः ॥ ४ ॥
तासां नृत्यं तदा वीक्ष्य नूपुरो गणपस्तदा ॥
कामबाणार्दितो नूनं तासां मध्ये ननर्त्त ह ॥ ५ ॥
नृत्यमानस्ततो हृष्टः पुष्पगु च्छेन वक्षसि ॥
उर्वशीं ताडयामास कामबाणप्रपीडितः ॥ ६ ॥
उर्वशी तु ततः क्रुद्धा पुष्पगुच्छेन ताडिता ॥
जगाम शरणं देवं धनदं सर्वकामदम् ॥ ७ ॥
उवाच धनदस्तत्र क्रोधेनाकुलमानसः ॥ ८ ॥
यस्मात्त्वया रङ्गभङ्गः कृतः कामार्द्दितेन वै ॥
तस्मात्त्वं मानुषे लोके पतस्व पापपूरुष ॥ ९ ॥
कुबेरस्य च शापात्तु जगाम धरणीतलम् ॥
विललाप सुदुःखार्त्तः किं कृतं पापिना मया ॥ 5.2.47.१० ॥
विलप्य सुभृशं सोऽथ शरणं परमेश्वरीम् ॥
जगाम मनसा देवि त्वां स वै वरदायिनीम् ॥ ११ ॥
त्वं तुष्टा तु तदा जाता प्रत्यक्षा परमेश्वरी ॥
उवाच गणपं प्रीत्या भक्तिनम्रं तदा भुवि ॥ १२ ॥
गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ॥
प्राचीसरस्वती तत्र वाप्याकारा च विद्यते ॥ १३ ॥
तस्या दक्षिणतो वत्स विद्यते लिङ्गमुत्तमम् ॥
वाप्यां स्नात्वा च तल्लिङ्गं समाराधय भक्तितः ॥१४॥
सा प्राची स च देवेशस्त्वन्नाम्ना ख्यातिमेष्यति ॥
इत्युक्तो नूपुरो देवि महाकालवनं गतः ॥ १५ ॥
त्वया च प्रेरितो देवि कीर्त्यर्थं तत्र गम्यताम् ॥
इत्युक्तो नूपुरो दिव्यो गणो हृष्टः कृताञ्जलिः ॥ १६ ॥
महाकालवनं रम्यं देवगन्धर्वसेवितम् ॥
ददर्श तत्र तल्लिङ्गं सुरगन्धर्वसेवितम् ॥ १७ ॥
प्राची सरस्वती तत्र वाप्याकारा च संस्थिता ॥
तस्यां स्नात्वा ततो देवं पूजयामास नूपुरः ॥ १८ ॥
ततो देवः प्रसन्नात्मा प्रत्युवाचाथ नूपुरम्॥
साधु नूपुर भद्रं ते स्वस्ति प्राप्नुहि सर्वदा ॥ ॥ १९ ॥
भविता वल्लभो देव्याः पार्वत्याः शङ्करस्य च ॥
इत्युक्तस्तेन लिङ्गेन तत्क्षणान्नूपुरः प्रिये ॥ 5.2.47.२० ॥
उदितादित्यसङ्काशो विभावसुसम द्युतिः ॥
तेजोराशिश्च सञ्जातो दुर्निरीक्ष्यस्त्रिविष्टपैः ॥ २१ ॥
प्रभावं तादृशं दृष्ट्वा देवैरुक्तं वरानने ॥
अहो लिङ्गस्य माहात्म्यं दृश्यतेत्यद्भुतं भुवि ॥ २२ ॥
प्राप्ता च कामिकी सिद्धिर्नूपुरेण च दर्शनात् ॥
अतो देवोऽद्यप्रभृति विख्यातो भूतलेऽभवत् ॥ २३ ॥
सर्वकामप्रदो नित्यं नूपुरेश्वर नामतः ॥
दर्शनं ये करिष्यन्ति स्नात्वा वाप्यां समाहिताः ॥ २४ ॥
नूपुरेश्वररुद्रस्य ते यान्ति परमं पदम् ॥
ये च पूजां करिष्यन्ति भक्तिभावसम न्विताः ॥
वसन्ति मुदिताः सर्वे यावदाभूतसम्प्लवम् ॥ २५ ॥
जन्ममृत्युजरारोगदुःखानि विविधानि च ॥
प्रयान्ति विलयं सद्यः पूजिते नूपुरेश्वरे ॥ २६ ॥
वापी गङ्गासमा सा तु स्वयमेव शुभेक्षणे ॥
सङ्गमस्तु वितस्तायां यमुनायास्तु सुव्रते ॥
प्रयागमेतज्जानीहि भूधरेन्द्राङ्गसम्भवे ॥ २७ ॥।
सोमतीर्थं तदा देवि सर्वपातकनाशनम् ॥
तत्र स्नात्वा पुमान्देवि वाजपेयफलं लभेत् ॥ २८ ॥
कृष्णाष्टम्यां च यः स्नात्वा पूजयेन्नूपुरेश्वरम् ॥
कुलं वै तारयेत्सोपि मातृकं पितृकं शतम् ॥ २९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
नूपुरेश्वरदेवस्य श्रूयतामभयेश्वरम् ॥ 5.2.47.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये नूपुरेश्वरमाहात्म्यवर्णनन्नाम सप्तचत्वारिंशो ऽध्यायः ॥ ४७ ॥