॥ श्रीहर उवाच ॥ ॥
षट्चत्वारिंशकं देवि वीरेश्वरमथो शृणु ॥
यस्य दर्शनमात्रेण कुलवृद्धिर्भवेद्ध्रुवम् ॥ १ ॥
निशामय महा वि वीरेशाविर्भवं परम् ॥
यच्छ्रुत्वा पितरः पुण्यं प्राप्नुयुर्विपुलं शिवे ॥ २ ॥
आसीदमित्रजिन्नाम राजा परपुरञ्जयः ॥
धार्मिकः सत्त्वसम्पन्नः प्रजारञ्जनतत्परः ॥ ३ ॥
यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ॥
सदैवावभृथस्नातः परिक्लिन्नशिरोरुहः ॥४॥
विनीतो नीतिसम्पन्नः कुशलः सर्वकर्मसु ॥
विद्याविशारदश्चाथ गुणवान्गुणिवत्सलः ॥ ५ ॥
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ॥
सत्यवाञ्छौचनिलयः सत्यवाग्विजितेन्द्रियः ॥ ६ ॥
रणाङ्गणे कृतान्तस्य सङ्ख्यावांश्च सदोजिरे ॥
कामिनीकेलिकालज्ञो युवापि स्थविरप्रियः ॥ ७ ॥
धर्मार्थ धनकोशश्च समृद्धबलवाहनः ॥
सुभगश्च सुरूपश्च सुमेधाः सुप्रजाप्रियः ॥ ८ ॥
स्थैर्यधैर्यसमापन्नो देशकालविचक्षणः ॥
मान्यानां मानदो नित्यं सर्वदूषणवर्जितः ॥ ९ ॥
वासुदेवाङ्घ्रियुगले चेतोवृत्तिं निधाय च ॥
चकार राज्यं निर्द्वन्द्वं धिग्धिगीतिविवर्जितम ॥ 5.2.46.१० ॥
अलङ्घ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ॥
अभुनक्प्रवरान्भोगान्समन्ताद्विष्णुसंस्कृतान् ॥ ११ ॥
हरेराराधनान्युच्चैः प्रतिसौधं पदेपदे ॥
तस्य राज्ये समभवन्महाभागनिधेः शिवे ॥ १२ ॥
गोवृन्दगोपगोपालगोपीजनमनोहर ॥
गदापाणे गुणातीत गुणाश्च गरुडध्वज ॥ १३ ॥
केशिहन्कैटभाराते कंसारे कमलापते ॥१४॥
कृष्ण केशव कञ्जाक्ष कीनाशभयनाशन ॥
पुरुषोत्तम पापारे पुण्डरीकविलोचन ॥१५॥
पीतकौशेयवसन पद्मनाभ परात्पर ॥
जनार्द्दनजगन्नाथ जाह्नवीजलजन्मभूः ॥१६॥
जन्मिनां जन्महरण जञ्जपूकौघनाशन ॥
श्रीवत्सवक्षः श्रीकण्ठ श्रीकर श्रेयसान्निधे ॥ १७ ॥
श्रीरङ्ग शार्ङ्गकोदण्ड शौरे शीतांशुलोचन॥
दैत्यारे दानवाराते दामोदर दुरन्तक ॥१८॥
देवकीहृदयानन्द दन्दशूकेश्वरेशय ॥
विष्णो वैकुण्ठनिलय बाणारे विष्ट रश्रवः ॥१९॥
विष्वक्सेन विभो वीर वनमालिन्बलिप्रिय ॥
त्रिविक्रम त्रिलोकेश चक्रपाणे चतुर्भुज ॥5.2.46.२०॥
इत्यादीनि पवित्राणि नामानि प्रति मन्दिरे ॥
स्त्रीवृद्धबालगोपालवदनोदीरितानि तु ॥ २१ ॥
श्रूयन्ते यत्र कुत्रापि रम्याणि मधुविद्विषः ॥
सुरम्यकाननान्येव विलोक्यन्ते गृहेगृहे ॥ ॥ २२ ॥
विचित्राणि चरित्राणि गीयन्ते च गृहेगृहे ॥
सौधभित्तिषु दृश्यन्ते चित्राणि कृत्रिमाणि च ॥ २३ ॥
ऋते हरिकथायास्तु नान्या वार्त्ता निशम्यते ॥
हरिणा नैव वध्यन्ते हरिणा मांसधारिणः ॥ २४ ॥
तस्य राज्ञो भयाद्व्याधैररण्ये सुखचारिणः ॥
न मत्स्या नैव च बका वराहाश्च न केनचित् ॥ २५ ॥
हन्यन्ते क्वापि तद्भीत्या मत्स्यमांसाशिनाऽपि व ॥
अपुत्रा न नरास्तस्य राष्ट्रेऽमित्रजितः क्वचित् ॥ २६ ॥
स्तनपानं न कुर्वन्ति सम्प्राप्य हरिवासरम् ॥
पशवोऽपि तृणाहारं परित्यज्य हरेर्दिने ॥
उपोषणपरा जाता अन्येषां का कथा नृणाम् ॥ २७ ॥
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ॥
अस्मिन्प्रशासति भुवं सम्प्राप्ते हरिवासरे ॥ २८ ॥
यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ॥
स एव दण्ड्यो भुङ्क्ते यो राज्ञोऽमित्रजितः क्षितौ ॥ २९ ॥
अन्त्यजा अपि तद्राष्ट्रे शङ्खचक्राङ्कधारिणः ॥
सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इति संस्थिताः ॥ 5.2.46.३० ॥
शुभानि यानि कर्माणि क्रियन्तेऽनुदिनं जनैः ॥
वासुदेवे समर्प्यन्ते तानि तैरफलेप्सुभिः ॥ ३१ ॥
विना मुकुन्दगोविन्द परमानन्दमच्युतम् ॥
नान्यो जप्येत नम्येत सभाज्येत जनः क्वचित् ॥
कृष्ण एव परो बन्धुस्तस्यासीदवनीपतेः ॥३२॥
एवं तस्मिन्महीपाले राज्ये सम्यक्प्रशासति ॥
एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ ॥ ३३ ॥
राज्ञा समर्चितः सोऽथ मधुपर्कविधानतः ॥
नारदो वर्णयामास तममित्रजितं नृपम् ॥ ३४ ॥
॥ श्रीनारद उवाच ॥ ॥
धन्योऽसि कृतकृत्योऽसि मान्योऽप्यसि दिवौकसाम् ॥
सर्वभूतेषु गोविन्दं परिपश्यन्विशाम्पते ॥ ३५ ॥
यो वेदपुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ॥
योंऽतरात्मास्य जगतः कर्ता हर्ताविता विभुः ॥ ३६ ॥
तन्मयं पश्यतो विश्वं तव भूपालसत्तम ॥
दर्शनं प्राप्य शुभदं शुचित्वमगमं परम् ॥ ३७ ॥
एष एव हि सारोऽत्र संसारे क्षणभङ्गुरे ॥
कमलाकान्तपादाब्जभक्तिभावोऽखिलप्रदः ॥ ३८ ॥
परित्यज्य हि यः सर्वं विष्णुमेकं सदा भजेत् ॥
सुमेधसं भजन्ते तं पदार्थाः सर्व एव हि ॥ ३९ ॥
हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ॥
स एव स्थैर्यमाप्नोति ब्रह्माण्डेऽतीव चञ्चले ॥ 5.2.46.४० ॥
यौवनं धनमायुष्यं जलं पद्मदले यथा ॥
अतीव चञ्चलं ज्ञात्वाऽच्युतमेव सदाश्रयेत् ॥ ४१ ॥
वाचि चेतसि कर्णेऽथ यस्य देवो जनार्दनः ॥
स एव सर्वदा वेद्यो नररूपी जनार्द्दनः ॥
निर्व्याजप्रणिधानेन शीलयित्वा श्रियःपतिम् ॥ ४२ ॥
पुरुषोत्तमतां को न प्राप्तस्त्वमिव भूतले ॥
अनया विष्णुभक्त्या ते सन्तुष्टेन्द्रियमानसः ॥
उपकर्तुमना ब्रूयां तन्निशामय भूपते ॥ ४३ ॥
मालाविद्याधरसुता नाम्ना मलयगन्धिनी ॥
क्रीडन्ती पितुराक्रोडे हृता कङ्कालकेतुना ॥ ४४ ॥
कपालकेतुपुत्रेण दानवेन बलीयसा ॥
आगामिन्यां तृतीयायां तस्याः पाणिग्रहः किल ॥ ४५ ॥
पाताले चम्पकावत्यां नगर्यां सास्ति साम्प्रतम् ॥
हाटकेशात्समागच्छंस्तयाऽहं साश्रुनेत्रया ॥ ॥ ४६ ॥
दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निशामय ॥
ब्रह्मचारिन्मुनिश्रेष्ठ गन्धमादनशैलतः ॥ ४७ ॥
बालक्रीडनकासक्तां मां जह्रे त्रस्तमान साम् ॥
कङ्कालकेतुर्दुर्वृत्तस्तस्य नास्ति च पातकः ॥ ४८ ॥
स स्वत्रिशूलघातेन म्रियते नान्यथा रणे ॥
जगत्पर्याकुलीकृत्य निद्रात्यथ विनिर्भयः ॥ ४९ ॥
यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ॥
मद्दत्तेन त्रिशूलेन नयेद्भद्रं च वै कृतम् ॥ 5.2.46.५० ॥
यद्यत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्ट दानवात् ॥
ममापि हि वरो दत्तो भगवत्योमया पुरा ॥
विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ॥ ५१ ॥
आतृतीयातिथि यथा तद्वाक्यं तथ्यतां व्रजेत्॥
तथा निमित्तमात्रं त्वं भव यत्नं समाचर ॥ ५२ ॥
इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ॥
युवानं चापि धीमन्तं त्वामनुप्राप्तवानहम् ॥५३॥
तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम्॥
आनयाशु महाबाहो शुभां मलयगन्धिनीम्॥५४॥
सा तु विद्याधरी बाला विलोक्य त्वां नरेश्वर ॥
अवश्यमेव तच्छूलं दास्यतीति विनिश्चितम् ॥
पार्वतीवचनाद्दुष्टं घातयिष्यस्यसंशयम्॥ ५५॥
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ॥
अनल्पोत्कलिको जातो विद्याधरसुतां प्रति॥
उपायं चापि पप्रच्छ गन्तुं वै चम्पकावतीम् ॥५६॥
नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ॥
तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ॥५७॥
भवान्द्रक्ष्यति पोतस्थकल्पवृक्षरथास्थिताम्॥
तत्र दिव्याङ्गनां काञ्चिद्दिव्यपर्यङ्कसुस्थिताम्॥
वीणामादाय गायन्तीं गाथामत्यन्तसुस्वरम् ॥५८॥
यत्कर्म विहितं येन शुभं वाप्यथवाऽशुभम् ॥
स एव भुङ्क्ते तत्तथ्यं विधिस्तत्र नियन्त्रितः ॥५९॥
गाथामिमां तु सङ्गीय सरथा समहीरुहा ॥
सपर्यङ्का क्षणादेव मध्येसिन्धुं प्रवेक्ष्यति ॥5.2.46.६०॥
भवानप्यविशङ्कं च ततः पोतान्महार्णवे ॥
तमनुव्रजतु क्षिप्रं यज्ञवाराहसा त्मवान् ॥ ६१ ॥
ततो द्रक्ष्यसि पाताले नगरीं चम्पकावतीम् ॥
महामनोहरा राजन्सनाथां बालया तया ॥ ६२ ॥
इत्युक्त्वान्तर्हितो देवि स चतुर्मु खनन्दनः ॥
राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च ॥ ६३ ॥
विवेशान्तः समुद्रं च नगरीमाससाद ताम् ॥
सापि विद्याधरी बाला नेत्रयोः प्राघु णीकृता ॥ ६४ ॥
तेन राज्ञा त्रिजगतीसौन्दर्यश्रीरिवैकिका ॥
पाताले देवतेयं वा मम नेत्रोत्सवाय किम् ॥ ६५ ॥
निरमायि प्रमोद्देशात्स्रष्टृसृष्टिर्वि लक्षणा ॥
कुहूराहुभयद्वेषात्कान्तिश्चान्द्रमसी किमु ॥ ६६ ॥
योषिद्रूपं समाश्रित्य तिष्ठत्यत्राकुतोभया ॥
इत्थं क्षणं च निर्वर्ण्य स राजाऽगच्छदन्ति कम् ॥ ६७ ॥
सा विलोक्याथ तं बालं नितरां मधुराकृतिम् ॥
विशालोरःस्थलतलप्रलंयतुलसीस्रजम् ॥ ६८ ॥
शङ्खचक्राङ्कसुभगभुजद्वयविराजि तम् ॥
हरिनामाक्षरसुधासुधौतरदनावलिम् ॥ ६९ ॥
भवानीभक्तिबीजोत्थभूरुहं पुरुषाकृतिम् ॥
अनेनात्र कृतं कस्य भवनं मधुराकृति ॥ 5.2.46.७० ॥
इति पर्याकुलीकृत्य चक्षुषी च मुहुर्मुहुः ॥
कङ्कालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ॥७१॥
तावद्गुप्तं समातिष्ठ शस्त्रागारेऽत्र गह्वरे ॥
न मे कन्याव्रतं भग्नं सामर्थ्याच्चण्डिकावरात् ॥७२॥
आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ॥
स चिकीर्षति दुष्टात्मा गतायुर्मम शापतः ॥७३॥
मा तद्भीतिं कुरु युवंस्त्वत्कार्यं भविताचिरात् ॥
विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ॥ ७४ ॥
स्थिरो वीरो महाबाहुर्दानवागमनेक्षणः ॥ ७५ ॥
अथ सायं समायातो दानवो भीषणाकृतिः ॥
त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम् ॥ ७६ ॥
आगत्य दानवो रौद्रः प्रलयाम्बुदनिस्वनः ॥
विद्याधरीं जगादेति मदाघूर्णितलोचनः ॥७७॥
गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ॥
कन्यात्वं हि परश्वस्ते पाणिग्राहो भविष्यति ॥ ७८ ॥
दासीनामयुतं प्रातर्दास्यामि तव सुन्दरि ॥
आसुरीणां सुरीणां च दानवीनां मनोहरम् ॥ ७९ ॥
गन्धर्वीणां किन्नरीणां सततं परिचारिकाः ॥
विद्याधरीणां नागीनां यक्षीणां च शतानि षट् ॥ 5.2.46.८० ॥
राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ॥
एतास्ते परिचारिण्यो भविष्यन्त्यमलाशये ॥ ॥ ८१ ॥
यावत्सम्पत्तिसम्भारो दिक्पालानां गृहेषु वै ॥
मत्परिग्रहतां प्राप्तौ तावतस्त्वं महेश्वरी ॥ ८२ ॥
दिव्यान्भोगान्मया सार्द्धं भोक्ष्यसे मत्परिग्र हात् ॥
कदा परश्वो भविता यस्मिन्वैवाहिको विधिः ॥ ८३॥
त्वदङ्गसङ्गसंस्पर्शसुखस्वादातिमेदुरः ॥
परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि ॥ ॥ ८४ ॥
मनोरथाश्चिरं यावद्ये मे हृदि समेधिताः ॥
तान्कृतार्थी करिष्यामि परश्वस्तव सङ्गमात् ॥ ८५ ॥
जित्वा देवान्रणे सर्वानिन्द्रादीन्मृगलो चने॥
त्रैलोक्यैश्वर्यसम्पत्तेस्त्वां करिष्यामि चेश्वरीम् ॥८६॥
आधायाङ्के त्रिशूलं च सुष्वापेति प्रलप्य सः॥
नरमांसस्य स्वादेन प्रमत्तो वीतसाध्वसः॥ ॥ ८७ ॥
वरं स्मरन्ती सा गौर्या विद्याधरकुमारिका ॥
विज्ञाय तं प्रमत्तं च प्रसुप्तं चातिनिर्भयम् ॥
आहूय तं नरवरं वरं सर्वाङ्गसुन्दरम् ॥ ८८ ॥
विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ॥
शूलं तदङ्कादादाय ददौ तस्मै च सुन्दरी ॥८९॥
तमादाय त्रिशूलं च स तदामित्रजिन्नृपः ॥
संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम्॥ 5.2.46.९० ॥
जगादोत्तिष्ठ रे दुष्ट कन्यादूषणलालस ॥
युध्यस्व च मया सार्द्धं न सुप्तं हन्म्यहं रिपुम् ॥ ९१ ॥
इति संश्रुत्य सम्प्राप्तः कस्य दृष्टोद्य चान्तकः ॥
क आयुषाद्य सन्त्यक्तो यः प्राप्तो मम गोचरम् ॥९२॥
मम प्रचण्डदोर्दण्डकण्डूकण्डूयनक्षमः ॥
माल्यो नरोऽयं भविता किं त्रिशूलेन सुन्दरि ॥ ९३ ॥
मा भैर्मे कौतुकं पश्य भक्षोयं मम साम्प्रतम् ॥
कालेन मत्तो भीतेन स्वयमेवोपढौकितः ॥ ९४ ॥
इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दण्डसूनुना ॥
हृदये निहतो राजा शिलातिकठिने द्रुतम् ॥ ९५ ॥
स चक्रिणा कृतत्राणः पीडां नाल्पीयसीमपि ॥
विवेद कठिनोरस्कः करस्तस्य प्रपीडितः ॥ ९६ ॥
अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ॥
आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ॥
उवाच च वचो धैर्यमवष्टभ्य महाबली ॥ ९७ ॥
॥ दानव उवाच ॥ ॥
ज्ञातं तत्त्वं मनुष्योसि नृरूपेण चतुर्भुजः ॥
ततस्त्वं छिद्रमासाद्य हन्तुं मां दानवान्तक ॥ ॥९८॥
एवंविधो हि मधुभिद्यदि त्वं बलवानसि॥
विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया॥ ९९॥
त्वया कपटरूपेण बलिना कैटभादयः॥
न बलेन हताः सङ्ख्ये हता एव च्छलेन हि ॥5.2.46.१००॥
बलिं पातालमनयस्त्वं नृवामनतां दधत् ॥
नृमृगत्वेन भवता हिरण्यकशिपुर्हतः ॥१॥
तथा जटिलरूपेण लङ्केशो विनिपातितः॥
गोपालवेषमालम्ब्य कंसाद्या घातितास्त्वया ॥
स्त्रीभूय चाहरस्त्वं हि विप्रतार्यासुरान्सुधाम् ॥२॥
यादोरूपेण भवता शङ्खाद्या निहता इह ॥
मायाविना त्वयाऽगण्याः सर्वमर्मज्ञ माधव ॥ ३ ॥
न त्वत्तोऽहं बिभेम्यद्य सद्यः पातः शरीरिणाम् ॥
वरं तव श्रये मृत्युं बलेनापि छलेन वा ॥ ४ ॥
न त्यक्ष्यसि त्रिशूलं त्वं न त्वां योत्स्याम्यहं रणे ॥
अवश्यमेव मर्त्तव्यं मया प्रातः शरीरिणा॥ ५ ॥
इयं विद्याधरी कन्या न मया दूषिता सती ॥
साक्षाच्छ्रीरिव मन्तव्या तवार्थं रक्षिता मया ॥ ६ ॥
इत्युक्त्वा वामदोर्दण्डप्रहारेणापि निष्ठुरम् ॥
निजघान दनोः सूनुस्तं शिलोच्चय घातिना ॥ ७ ॥
नृपतिस्त्वथ सन्धार्य विषह्य रणमूर्द्धनि ॥
जघानाशु तदा क्रूरं त्रिशूलेनाथ वक्षसि ॥८ ॥
तत्प्रहारान्महाबाहुः पञ्चत्वमगम त्क्षणात् ॥
लक्ष्यीचकार तद्वक्त्रं त्रिशूलं तोलयन्करे ॥ ९ ॥
पश्यतोऽस्य महाबाहोः स च प्राणाञ्जहौ क्षणात्॥
इत्थं कङ्कालकेतुं स निहत्य सुरकं पनम् ॥5.2.46.११०॥
विद्याधरीं प्रपश्यन्तीं प्राह हृष्टतनूरुहः ॥
नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वाञ्छितम् ॥ ११ ॥
कृतं मया कृतज्ञे किं करवाण्यधुना वद ॥
श्रुत्वेति तस्य सा वाक्यं प्राह गम्भीरचेतसा ॥ १२ ॥
॥ मलयगन्धिन्युवाच ॥ ॥
अत्युदारमते वीर निजप्राणैः पणीकृताम् ॥
किं मां पृच्छसि युवतीं कुलकन्यामदूषिताम् ॥ १३ ॥
इति ब्रुवन्त्यां कन्यायां पुनः स्वैरचरो मुनिः ॥
अतर्कितागमः प्राप्तो नारदो देवलोकतः ॥ ॥ १४ ॥
ततस्तुष्टुवतुस्तौ तु तं दृष्ट्वा मुनिसत्तमम् ॥
कृतप्रणामौ मुनिना प्रतिज्ञाप्रापिताशिषौ ॥ १५ ॥
पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ॥
जग्मतुर्नारदादिष्टवर्त्मना कृतमङ्गलौ ॥ १६ ॥
तया मलयगन्धिन्या वृतः सोऽमित्रजिन्नृपः ॥
पुरीं चोज्जयिनीं प्राप्य पौरैर्विहितमङ्गलाम्॥ ॥ १७ ॥
तद्वीक्षणादपि नरो नारकीं नैव जातुचित् ॥
गतिं प्राप्नोति मेधावी तां पुरीमविशन्नृपः ॥ १६ ॥
यस्यां पुर्यां प्रवेशं न लभन्ते वास वादयः ॥
कैवल्यजयजैत्र्यां हि तां पुरीमविशन्नृपः ॥ १९ ॥
सापि विद्याधर्यवन्तीं समृद्धां वीक्ष्य दूरतः ॥
निनिन्द स्वर्गलोकं च पातालनगरी मपि ॥ 5.2.46.१२० ॥
प्राप्यामित्रजितं कान्तं तथा हृष्टा न सा वधूः ॥
यथा दृष्ट्वाप्यहोऽवन्तीं परमानन्ददायिनीम् ॥ २१ ॥
सा कृतार्थामिवात्मानं मन्य माना मनस्विनी ॥
तेन पत्योज्जयिन्यां च परां निर्वृतिमाप सा ॥ २२ ॥
सोऽप्यमित्रजिदासाद्य पत्नीं मलयगन्धिनीम् ॥
धर्मप्रधानं संसेव्य कामं प्रापोत्तमं सुखम् ॥ २३ ॥
सा पतिं विष्णुभजने रतं प्रोवाच भामिनी ॥ २४ ॥
॥ राज्ञ्युवाच ॥ ॥
भूपाभीष्टतृतीयायां चरिष्यामि महा व्रतम् ॥
॥ राजोवाच ॥ ॥
देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ॥२५॥
इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ॥
इति कर्तव्यतां तस्य व्रतस्य सविधानकाम्॥ २६ ॥
॥ राज्ञ्युवाच ॥ ॥
पुरा देवर्षिणा चेदं व्रतं लक्ष्म्यै प्रतिश्रुतम् ॥
तया प्राप्तास्तु सकलाः कामाः स्वर्गापवर्गदाः ॥ २७ ॥
मार्गशीर्षतृतीयायां शुक्लायां कलशोपरि ॥
ताम्रपात्रं निधायैव तन्दुलैः परिपूरितम् ॥ २८ ॥
अच्छिद्रं च नवीनं च रजनीरागरञ्जितम् ॥
वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम् ॥ २९ ॥
तस्योपरि शुभं पद्मं रविरश्मिप्रकाशितम् ॥
तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम् ॥
विधिं सम्पूजयेद्भक्त्या रक्तमाल्याम्बरादिभिः ॥ 5.2.46.१३० ॥
पुष्पैः सुगन्धैः कर्पूरकस्तूर्यादिभिरर्चयेत् ॥
रात्रौ जागरणं कार्यं विप्राणां परमोत्सवैः ॥३१॥
होमः कार्यो महाभक्त्या सहस्रपरिसङ्ख्यया ॥
नवप्रसूतां कपिलां दद्याच्च सुपयस्विनीम् ॥ ३२ ॥
दद्यादाचार्यवर्याय सालङ्कारां सदक्षिणाम् ॥
उपोष्य दम्पती भक्त्या नवाम्बरविभूषितौ ॥ ३३ ॥
प्रातः स्नात्वा चतुर्थ्यां च सम्पूज्याचार्यमादितः ॥
वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ॥
सोपस्करां च तां मृर्तिमाचार्याय प्रदापयेत् ॥ ३४ ॥
मन्त्रः ॥
नमो विश्वविधानज्ञे विद्ये विविधकारिणि ॥
सुतं च शङ्करं देहि तुष्टा ह्यस्माद्व्रतोत्तमात ॥ ३५ ॥
सहस्रं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ॥
भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः ॥ ३६ ॥
इत्थमेतद्व्रतं नाथ चिकीर्षामि त्वदाज्ञया ॥
कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये ॥ ३७ ॥
इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ॥
तदा व्रतं समाचीर्णं सान्तर्वत्नी बभूव ह ॥ ३८ ॥
तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ॥
पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसम्भ वम् ॥ ३९ ॥
जातमात्रो व्रजेत्स्वर्गं पुनरायाति चात्र वै ॥
भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले ॥
विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात ॥ 5.2.46.१४० ॥
एवम्भूतः सुतो गौरि यथा स्यान्मे तथा कुरु ॥
मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया ॥ ४१ ॥
अथ कालेन तनयं मूलर्क्षे साऽप्यजीजनत् ॥
हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता ॥ ४२ ॥
देवि राजार्थिनी त्वं तु त्यज दुष्टर्क्षजं सुतम् ॥
सा मन्त्रिवाक्यमाकर्ण्य केवलं पतिदेवता ॥ ४३ ॥
अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा ॥
धात्रिकां तु समाहूय प्राहेदं सा नृपाङ्गना ॥ ४४ ॥
पञ्चमुद्रे महापीठे विकटानाम मातृका ॥
तदग्रे स्थापयित्वामुं बालं धात्रि त्विदं वद ॥ ४५ ॥
गौरि दत्तः शिशुरसौ तवाग्रे विनिवेदितः ॥
राज्ञ्या पत्युः प्रियैषिण्या मन्त्रिविज्ञप्तिनुन्नया ॥ ४६ ॥
सापि राज्ञ्युदितं श्रुत्वा बालं शिशुशशिप्रभम् ॥
विकटायाः पुरोभागे संस्थाप्य गृहमागता ॥ ४७ ॥
अथ सा विकटा देवी समाहूय च योगिनीः ॥
उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः ॥ ४८ ॥
तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः ॥
योगिन्यो विकटावाक्यात्खेचर्यस्तत्क्षणेन तम् ॥ ४९ ॥
निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः ॥
प्रणम्य योगिनीवृन्दं तं शिशुं सूर्यवर्चसम् ॥ 5.2.46.१५० ॥
पुरो निधाय मातॄणां प्रोचुश्च विकटोदितम् ॥
ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ॥
कौमारी चापि माहेन्द्री चामुण्डा चैव चण्डिका ॥ ५१ ॥
दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ॥
पप्रच्छुर्युगपद्वाक्यं कस्ते बाल प्रमुख्यकः ॥ ५२ ॥
मातृभि श्चेति पृष्टस्तु यदा किञ्चिन्न वक्ति सः ॥
तदा च योगिनीचक्रं प्राह मातृगणस्त्विति ॥ ५३ ॥
राज्ययोग्यो भवत्येष महालक्षणलक्षितः ॥
पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलम्बितम् ॥ ५४ ॥
पञ्चमुद्रा महादेवी तिष्ठते यत्र कामदा ॥
यस्याः संसेवनान्नॄणां निर्वाणश्रीरदूरतः ॥ ५५ ॥
तत्पीठसे वनादस्य षोडशाब्दाकृतेः शिशोः ॥
सिद्धिर्भवित्री परमा रुद्रस्यानुग्रहात्परा ॥ ५६ ॥
एवं मातृगणात्सद्यो योगिनीभिः क्षणेन तु ॥
प्रापितो मातृवाक्येन पञ्चमुद्रान्तिकं पुनः ॥ ५७ ॥
सम्प्राप्य तन्महापीठं स्वर्गलोकादिहागतः ॥
महाकालवने पुण्ये तताप विपुलं तपः ॥ ५८ ॥
तपसातीव तीव्रेण निश्चलेन्द्रियमानसः ॥
तस्य राजकुमारस्य प्रसन्नोऽभूदुमाधवः ॥ ५९ ॥
आविर्बभूव पुरतो लिङ्गरूपेण शङ्करः ॥
उवाच च प्रसन्नोस्मि वरं ब्रूहि नृपाङ्गज ॥ 5.2.46.१६० ॥
सर्वज्योतिर्मयं लिङ्गं पुरतो दृष्टवान्स्वयम् ॥
सप्तपातालमुद्भिद्योत्थितं बृहदनुग्रहात् ॥ ६१ ॥
प्रणम्य दण्डवद्भूमौ परि तुष्टाव धूर्जटिम् ॥
सूक्तैर्जन्मान्तराभ्यासात्सुहृष्टो रुद्रदैवतैः ॥
वरं च प्रार्थयाञ्चक्रे परिहृष्टतनूरुहः ॥ ६२ ॥
देवदेव महादेव यदि देयो वरो मम ॥
तदत्र भवता स्थेयं भवतापहृता सदा ॥ ६३ ॥
अस्मिल्ँलिङ्गे स्थितः शम्भो कुरु भक्तसमीहितम् ॥
विना मुद्रादिकरणं मन्त्रेणापि विना विभो ॥ ॥ ६४ ॥
अस्य लिङ्गस्य ये भक्ता मनोवाक्कायकर्मभिः ॥
सदैवानुग्रहस्तेषु कर्त्तव्यो वर एष मे ॥ ६५ ॥
इति तद्वरमाकर्ण्य लिङ्गरूपोऽवदत्प्रभुः ॥
एवमस्तु यदुक्तं ते वीर वैष्णवसूनुना ६६ ॥
वीर वीरेश्वरन्नाम लिङ्गमेतत्त्वदाख्यया ॥
अवन्त्यां सम्प्रदास्यामि भक्तानां चिन्तितान्यहो ॥ ६७ ॥
अत्र दत्तं हुतं जप्तं स्तुतमर्चितमेव च ॥
तदक्षयं भवेदत्र भक्तानां नात्र संशयः ॥ ६८ ॥
त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम् ॥
भुक्त्वा भोगांश्च विपुलानन्ते सिद्धिमवाप्स्यसि ॥ ६९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
वीरेश्वरस्य देवस्य नूपुरेशमथो शृणु ॥ 5.2.46.१७० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये वीरेश्वरमाहात्म्यवर्णनन्नाम षट्चत्वारिंशो ऽध्यायः ॥ ४६ ॥ ॥ छ ॥