०४५ त्रिलोचनमाहात्म्यवर्णनम्

॥ श्रीदेवदेव उवाच । ॥
पञ्चचत्वारिकं विद्धि देवं त्रिलोचनेश्वरम् ॥
यस्य दर्शनमात्रेण सर्वसिद्धिरवाप्यते ॥ १ ॥
इतिहासमिहासीद्यत्पीठे विरजसञ्ज्ञके ॥
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ॥ २ ॥
नानाभङ्गिगवाक्षाढ्ये रत्नसानाविवापरे ॥
देदीप्यमानसौवर्णकलशेन विराजिते ॥ ॥ ३ ॥
पार्वणेन शशाङ्केन खेदादिव समासिते ॥
तत्र पारावतद्वन्द्वं वसत्स्वैरं कृतालयम् ॥ ४ ॥
प्रातः सायं च मध्याह्ने कुर्व न्नित्यप्रदक्षिणम् ॥
उड्डीयमानं परितः पक्षवातैरितस्ततः ॥ ५ ॥
रजःप्रासादसंलग्नं दूरीकुर्वद्दिशो दश ॥
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ॥
त्रिविष्टपेति च तथा तयोः कर्णातिथीभवेत् ॥ ६ ॥
चतुर्विधानि वाद्यानि शम्भुप्रीतिकराण्यलम् ॥
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते ॥ ७ ॥
मङ्गलारात्रिकज्योतिस्त्रिसन्ध्यं पक्षिणोस्तयोः ॥
नेत्रान्तं निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयत् ॥ ८ ॥
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ॥
नोड्डीय वाञ्छितं यातः पश्यन्तौ कौतुकं खगौ ॥ ९ ॥
तत्रासकृज्जनाकीर्णं प्रासादं परितोऽवनौ ॥
तण्डुलादि चरन्तौ तौ कुर्वन्तौ च प्रदक्षिणम् ॥ 5.2.45.१० ॥
देवदक्षिणदिग्भागे विष्णुदेहोद्भवं जलम् ॥
तृषार्त्तौ पिबतो नित्यं स्नात्वा चाजग्मतुश्च तौ ॥ ११॥
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ॥
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः ॥ १२ ॥
अथ देवालयस्कन्धे गवाक्षान्तर्गतौ च तौ॥
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखं स्थितौ ॥ १३ ॥
तच्च पारावतद्वन्द्वं श्येनः परिजिघृक्षया ॥
अवतीर्याम्बरादाशु उपविष्टः शिवालये ॥ १४ ॥
ततो विलोकयामास तदागमविनिर्गमौ ॥
केन मार्गेण विशतो दुर्गमेण पतत्रिणौ ॥ १५ ॥
केनाध्वना च निर्यातः किङ्काले कुरुतश्च किम् ॥
कथं युगपदेतौ मे ग्राह्यौ स्वैरं भविष्यतः ॥ १६ ॥
दुर्बलोऽप्याकलयितुं सहसारिर्न शक्यते ॥
करिणां च सहस्रेण वराश्वानां च लक्षतः ॥ १७ ॥
न कर्म सिद्ध्येन्नृपतेर्दुगेणैकेन यद्भवेत् ॥
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित्॥
स्वतन्त्रं यदि दुर्गं स्यादपमार्गप्रकाशकम् ॥१८॥
इति दुर्गे बलं शंसञ्छ्येनो रोषारुणेक्षणः ॥
असाध्वसौ कलरवौ वीक्ष्य यातो नभोङ्गणे ॥ १९ ॥
अथ पारावती दक्षा विपक्षक्षपणेक्षणम् ॥
महाबलं दुर्गबलात्प्राह पारा वतं पतिम् ॥ 5.2.45.२० ॥
॥ कलरव्युवाच ॥ ॥
प्रिय पारावत प्राज्ञ सर्वकामसुखारव ॥
तव दृग्विषयं प्राप्तः श्येनोऽयं प्रबलो रिपुः ॥ २१ ॥
स च तद्वाक्यमाकर्ण्य पारावत्याश्च सत्पतिः ॥
पारावतीमुवाचेदं का चिन्तेति तव प्रिये ॥ २२
॥ पारावत उवाच ॥ ॥
कति नाम न सन्तीह सुभगे व्योमचारिणः ॥
कति देवालयाद्येषु खगा नोपवसन्ति हि ॥ २३ ॥
कति चैव न पश्यन्ति नौ सुखस्थाविह प्रिये ॥
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये ॥ २५ ॥
रम त्वं च मया सार्द्ध त्यज चिन्तामिमां शुभे ॥
अस्य श्येनवराकस्य गणनापि न मे हृदि ॥२५॥
इत्थं पारावतवराच्छुत्वा पारावती वचः ॥
मौनमालम्ब्य सन्तस्थे पत्युः पादार्पितेक्षणा ॥ २६ ॥
हितवत्योपदिश्यापि प्रियं प्रियचिकीर्षया ॥
पत्न्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ॥ २७ ॥
अन्येद्युरप्यथायातः श्येनः पश्यन्स दम्पती ॥
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम् ॥ २८ ॥
अथ मण्डलगत्या स प्रासादं परितो भ्रमन् ॥
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः ॥ २९ ॥
तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् ॥
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः ॥ 5.2.45.३० ॥
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ॥
अयं न तां गतिं वेत्ति यां वेदाहं नभोङ्गणे ॥ ३१ ॥
प्रडीनोड्डीनसण्डीनकाण्डव्याण्डकपाटिका ॥
स्रंसिनी मण्डलवती गतयोऽष्टावुदाहृताः ॥ ३२ ॥
यथैतासु हि कौशल्यं मयि वर्त्तति च प्रिये ॥
गतिषु क्वापि कस्यापि पक्षिणो न तथाम्बरे॥
सुखेन तिष्ठ का चिञ्चा मयि जीवति ते प्रिये॥३३॥
इति तद्वचनं श्रुत्वा आस्थिता मूकवत्सती॥
अपरेद्युरपि श्येनस्तत्रायातः शिलातले॥
कियदन्तरमासाद्य उपविष्टोऽतिहृष्टवत्॥
आयामान्ते च स स्थित्वा तत्कुलायकुलस्य च।३५॥
पुनः श्येनो विनिर्यातः सापि कान्ताऽब्रवीत्पुनः॥
प्रिय स्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम्॥३६॥
असौ क्रूरोऽतिनिकटमुपविष्टोऽतिहृष्टवत्॥
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ॥ ३७ ॥
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ॥
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ॥ ॥ ३८ ॥
तयोरभिमुखं तत्र स्थितो यामद्वयावधि ॥
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम् ॥ ३९ ॥
गतेथ शकुनौ तस्मिन्सा बभाषे विहङ्गमम्॥
नाथ स्थानान्तरं यावो मृत्युर्वै निकटेऽन्वगात् ॥ 5.2.45.४० ॥
पुनर्दृष्टे प्रणष्टः स्यादावासश्च सुखं प्रिय ॥
प्रिय यस्यास्ति पक्षस्य गतिः सर्वत्र सिद्धिदा ॥ ४१ ॥
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान् ॥
सोपसर्गं निजं देशं त्यक्त्वा योन्यं तु न व्रजेत् ॥ ४२ ॥
स पङ्गुर्ना शमाप्नोति कूलस्थित इव द्रुमः ॥
प्रियोदितं निशम्येति स भवित्रीदशार्द्दितः ॥ ४३ ॥
तां वाक्यं पुनरप्याह प्रिये मा भैः खगार्दिता ॥
अपरस्मिन्नहनि च स श्येनः प्रातरेव हि ॥४४॥
तद्द्वारदेशमासाद्य सायं यावत्स्थितोऽचलः ॥
अस्ताचलस्य शिखरं याते भानौ गते खगे ॥ ४५ ॥
कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ॥
नाथ निर्गमनस्यायं कालः कालोऽस्ति दूरतः ॥४६॥
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि शंसिनीम् ॥
त्वयि जीवति दुष्प्राप्यं न किञ्चिज्जगतीतले ॥ ४७ ॥
पुनर्दाराः पुनः पुत्राः पुनर्वसु पुनर्गृहम् ॥
यद्यात्मारक्षितः पुंसां दारैपि धनैरपि ॥ ४८ ॥
तदा सर्वं हरिश्चन्द्रभूपतेरिव लभ्यते ॥
अयमात्मा प्रियो बन्धुरयमात्मा महद्धनम् ॥४९॥
धर्मार्थकाममोक्षाणामयमात्मार्जकः परः ॥
यावदात्मनि वै क्षेमं ताव त्क्षेमं जगत्त्रये ॥5.2.45.५०॥
सोऽपि क्षेमः सुगतिना यशसा सह वाञ्छ्यते ॥
यशोहीनं तु यत्क्षेमं तक्षेमान्निधनं वरम् ॥५१॥
तद्यशः प्राप्यते पुम्भिर्नीतिमार्गं प्रवर्तिभिः ॥
अतो नीतिपथं चिन्त्यं नाथ स्थानादितो व्रज॥
न व्रजिष्यसि चेत्प्रातस्ततो मां संस्मरिष्यसि ॥५२॥
इत्युक्तोऽपि स वै पत्न्या पारावत्या सुमेधया ॥
न निर्ययौ ततः स्थानाद्भवित्र्या प्रतिवारितः ॥५३॥
अथोषसि समागत्य श्येनेन बलिना तदा ॥
निर्गमद्वारमारुद्धं किञ्चिद्भक्ष्य वता तदा ॥ ५४ ॥
दिनानि कतिचित्तत्रातिष्ठच्छयेनो महाबलः ॥
पारावतमुवाचेदं धिक्त्वा पौरुषवर्जितम् ॥ ५५ ॥
किं वा युध्यस्व दुर्बुद्धे किं वा निर्याहि मे गिरा ॥
क्षुधाक्षीणो मृतः पश्चान्निरयं पश्यसि धुवम् ॥
विधिरेव हि साहाय्यं न कुर्यात्तव नोदितम् ॥ ५६ ॥
इत्थं श्येनेन स प्रोक्तः पत्न्या स सहितः खगः ॥
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः ॥ ५७ ॥
क्षुधितस्तृषितः सोऽथ श्येनेन बलिना धृतः ॥
चरणेन दृढेनाशु चञ्च्वा सापि धृता खगी ॥ ५८ ॥
तावादायोड्डयाञ्चक्रे श्येनो व्योमनि सत्वरम् ॥
चिन्तयन्भक्षणस्थानमन्यत्पक्षिविवर्जितम् ॥ ५९ ॥
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया॥
यतोऽवमानिता नाथ त्वयाहं स्त्रीति बुद्धितः॥5.2.45.६०॥
अतोऽवस्थामिमां प्राप्तः किं कुर्यामबला यतः॥
अधुनापि वचश्चैकं करोषि यदि मे प्रिय ॥ ६१ ॥
तदा हितं ते वक्ष्यामि कुर्वे तदविचारितम् ॥
ममैकवाक्यकरणात्स्त्रीजितो न भविष्यसि ॥ ६२ ॥
यावदास्यं गतास्म्यस्य यावत्खस्थो न भूमिगः ॥
तावदात्मविमुक्त्यै त्वं चञ्च्वा पादं दृढं दश ॥ ६३ ॥
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ॥
स पीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु ॥ ६४ ॥
तेन चीत्करणेनाथ मुक्ता सा मुखसम्पुटात ॥
पादाङ्गुलीनां शून्यत्वे सोऽपि पारावतोऽपतत् ॥ ॥ ६५ ॥
विपद्यपि च प्राज्ञैर्न सन्त्याज्यः क्वचिदुद्यमः ॥
क्व च चञ्चुपुटस्तस्य क्व च तत्पादपीडनम् ॥६६॥
क्व च द्वयोस्तथाभूतं दूरे मोक्षणमद्भुतम्॥
दुर्बलेऽप्युद्यमः श्रेयानिति शास्त्रेषु गीयते ॥ ६७ ॥
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ॥
प्रशंसन्त्युद्यमं चातो विपद्यपि मनीषिणः ॥ ६८ ॥ ।
अथ तौ कालयोगेन जम्बूमार्गे मृतौ तदा ॥
जम्बूमार्गे मृता ये वै तेषां स्वर्गः सदाऽक्षयः ॥ ६९ ॥
पुण्यशेषे तदा जातो गन्धर्वतनयः शुभः ॥
मन्दारदामतनयो नाम्ना परिमलालयः ॥ 5.2.45.७० ॥
अनेकविद्यानिलयः कलाकौशलभाजनम् ॥
कौमारं वपुरासाद्य शिवभक्तिपरोऽभवत् ॥ ७१ ॥
नियमं चापि जग्राह विजितेद्रियमानसः ॥।
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम् ॥ ७२ ॥
परयोषित्समासक्तिरायुः कीर्तिं र्बलं सुखम् ॥
हरेत्स्वर्गगतिं चापि तस्मात्तां वर्जयेत्सुधीः ॥ ७३ ॥
अपरं चापि नियमं स शुचिष्मान्समाददे ॥
गतजन्मान्तराभ्यासाविलोचनसमाश्रयात् ॥७४॥ ।
समस्तपुण्यनिलयः समस्तार्थप्रकाशकः ॥
समस्तकामजनकं परानन्दैककारणम् ॥ ७५ ॥
यावच्छरीरं निरुजं यावन्नेद्रियविप्लवः ॥
तावत्त्रिलोचनोवन्त्यां मन्तव्यो नात्र संशयः ॥ ७६ ॥
इत्थं मन्दारदामिः स काश्यां परिमलालयः ॥
नित्यं त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नतः ॥७७॥
पारावत्यपि सञ्जाता रत्नदीपस्य मन्दिरे ॥
नागराजस्य पाताले नाम्ना रत्नावलीति च ॥ ७८ ॥
समस्तनागकन्यानां रूपशीलकलागुणैः ॥
एकैव रत्नभूताऽऽसीद्रत्न दीपोरगात्मजा ॥ ७९ ॥
तस्याः सखीद्वयं चासीदेका नाम्ना प्रभावती ॥
कलावती तथान्या च नित्यं तदनुगे शुभे ॥ 5.2.45.८० ॥
स्वदेहादनपायिन्यौ छायाकान्ती यथा तथा ॥
पूर्वे सख्यौ भवेतां हि रत्नावल्या महेश्वरि ॥ ८१ ॥
सा तु बाल्ये व्यतिक्रान्ते किञ्चिदुद्भिन्नयौवना ॥
शिवभक्तं स्व पितरं दृष्ट्वा नियममग्रहीत् ॥ ८२ ॥
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ॥
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा ॥ ॥ ८३ ॥
एवं नागकुमारी सा सखीद्वयसमन्विता ॥
त्रिलोचनं समभ्यर्च्य गृहानहरहर्व्रजत् ॥ ८४ ॥
मां प्रत्यग्रैः सुकुसुमैः सुशुभैरि ष्टगन्धिभिः ॥
सुविचित्राणि माल्यानि परिगुम्फ्यार्चयेद्विभुम् ॥ ८५ ॥
तिस्रोऽपि गीतं गायन्ति ललितं चैव सुस्वरम् ॥
नारीमण्डलभेदेन लास्यं तिस्रोऽपि र्वते ॥ ८६ ॥
वीणावेणुमृदङ्गांश्च लयतालविचक्षणाः ॥
वादयन्ति मुदायुक्तास्तिस्रोऽपि विरमन्ति वै ॥ ८७ ॥
इत्थमाराधयन्तीशं तिस्रो नागकुमारिकाः ॥
विचित्रभङ्गीमालाभिरर्चयन्त्यस्त्रिलोचनम् ॥ ८८ ॥
प्रातश्चतुर्थ्यां ताः स्नात्वा तीर्थे पिलिपिले शुभे ॥
त्रिलोचनं समर्च्याथ प्रसुप्ता रङ्गमण्डपे ॥ ८९ ॥
सुप्तासु तासु स शिवस्त्रिनेत्रः शशिभूषणः ॥
वामार्द्धविलसच्छक्तिर्नागयज्ञोपवीतकः ॥ 5.2.45.९० ॥
लिङ्गादेव हि निर्गत्य गङ्गापन्नगमेखलः ॥
प्रत्युवाच ततः कन्या विभुरुत्तिष्ठतेति सः ॥ ९१ ॥
उत्थाय ता विनिर्मथ्य लोचने श्रुतिसङ्गमे ॥
अङ्गमोटनवत्यश्च तदा निर्घूर्णितेक्षणाः ॥ ९२ ॥
यावत्पश्यन्ति पुरतः सम्भ्रमापन्नमानसाः ॥
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः ॥ ९३ ॥
ववन्दिरेऽथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ॥
तुष्टुवुश्च प्रहृष्टास्ताः सन्नकण्ठ्योऽतिविक्लवम् ॥ ९४ ॥
जय शम्भो जयेशान जय सर्वग सर्वद ॥
जय त्रिपुरसंहर्तर्जयान्धकनिषूदन ॥ ९५ ॥
जय जालन्धरहर जय कन्दर्पदर्पहृत् ॥
जय त्रैलोक्यजनक जय त्रैलोक्यवन्दित ॥
जय भक्तजनाधीश जय प्रमथ नायक ॥ ९६ ॥
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोऽस्तु ते ॥ ९७ ॥
इत्युक्त्वा दण्डवद्भूमौ प्रणिपेतुः कुमारिकाः ॥
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः ॥ ९८ ॥
सुतो मन्दारदाम्नश्च नाम्ना परिमलालयः ॥
पतिर्विद्याधरवरो भवतीनां भविष्यति ॥ ९९ ॥
चिरं विद्याधरे लोके भोगान्भुक्त्वा समन्ततः ॥
ततो ह्यवन्तिकां प्राप्य मां ध्यात्वा सिद्धिमाप्स्यथ ॥ 5.2.45.१०० ॥
जन्मान्तरेपि मे भक्तिर्भवतीभिश्च तेन च ॥
विहिता तेन वो जन्म निर्मलं भक्तिभावितम् ॥ १०१ ॥
एतत्प्रभावतीस्तोत्रं ये पठिष्यन्ति मे पुरः ॥
तेभ्यः कामान्प्रदास्यामि भवतीनामयं वरः ॥ १०२ ॥
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ॥
प्रणम्य प्रोचुरीशानं प्रबद्धकरसम्पुटाः ॥ १०३ ॥ ॥
॥ नागकन्या ऊचुः ॥
पृच्छामो ब्रूहि नो नाथ करुणाकर शङ्कर ॥
जन्मान्तरे कथं सेवा चतुर्भिर्भवतः कृता ॥ १०४ ॥
ततः प्राक्तनवृत्तान्त मेतस्यापि कृतात्मनः ॥
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे ॥ १०५ ॥
इति श्रुत्वा प्रणयतो बालोदीरितमीप्सितम् ॥
प्रोवाच तासामपि च भवान्तरविचेष्टितम् ॥ १०६ ॥
॥ ईश्वर उवाच ॥ ॥
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ॥
प्राग्भवं भवतीनां च तस्यापि कथयाम्यहम् ॥१०७॥
एषा रत्नावली पूर्वमासीत्पारावती खगी ॥
स च विद्याधरवरः पतिरस्याः खगोऽभवत् ॥१०८॥
प्रासादे च ममैताभ्यामुषितं सुचिरं सुखम्॥
रजः प्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः ॥ १०९ ॥
उपरिष्टादधस्ताच्च कृता भूरिप्रदक्षिणाः ॥
व्योम्नि सञ्चरमाणाभ्यां सञ्चीर्णं च ममाजिरे ॥ 5.2.45.११० ॥
स्नातं चतुर्नदे तीर्थे पीतं तत्राम्बु चासकृत् ॥
आभ्यां कलरवाभ्यां च कृताः कलरवा मुदा ॥ १११ ॥
एताभ्यां स्थिरचित्ताभ्यां मुदिता त्वमतीव हि ॥
दृष्ट्वा हि कौतुकान्यत्र मम भक्तैः कृतान्यपि ॥ ११२ ॥
अमूभ्यां बहुशो दृष्टा मम मङ्गलदीपिकाः ॥
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ॥
तिर्यग्योनिप्रभावेन न मृतौ मम सन्निधौ ॥११३॥
जम्बूमार्गे मृतौ यस्मात्स्वर्गप्राप्तिकरे ध्रुवम् ॥
तस्मात्पारावती ह्येषा रत्नदीपसुताऽभवत् ॥ ११४ ॥
पतिः पारावतोऽस्याश्च जातो विद्याधराङ्गजः ॥
एषा प्रभावती नागी नागराजस्य सद्मनि ॥
इह जन्मनि कन्यासीत्पूर्वजन्म ब्रवीमि च ॥ ११५ ॥
त्रिशिखस्योरगेन्द्रस्य सुता चेयं कलावती ॥
एतस्या अपि वृत्तान्तं निशामय तु वच्म्यहम् ॥ ॥११६ ॥
भवान्तरे तृतीयेतः कन्ये चारायणस्य च ॥
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम् ॥ ११७ ॥
पित्रा चारायणेनापि ताभ्यां सम्प्रेरितेन वै ॥
आमुष्यायणपुत्राय दत्ते नारायणाय हि ॥ ११८ ॥
अप्राप्तयौवनोरण्ये समिदाहरणाय वै ॥
गतो विधिवशाद्दष्टो दन्दशूकेन कानने ॥ ११९ ॥
भवानीगौतमीनाम्न्यौ ते तु चारायणाङ्गजे ॥
वैधव्यदुःखमापन्ने दैन्यग्रस्ते बभूवतुः ॥ 5.2.45.१२० ॥
अत एव प्रयत्नेन परिणेता विवर्जयेत ॥
देवतासरिदाह्वानकन्यापाणिग्रहं सुधीः ॥ १२१ ॥
अथर्षेः कस्यचिद्दैवादाश्रमे देवसन्निभे ॥
रम्भाफलान्यदत्तानि मोहाज्जग्रहतुस्तदा ॥ ॥ १२२ ॥
कृत्वा नानोपवासादिव्रतानि ब्राह्मणाङ्गजे ॥
अध्यास्य निधनं कालाच्छाखामृग्यौ बभूवतुः ॥ १२३ ॥
फलचौर्यविपाकेन वानर त्वं तयोरभूत् ॥
शीलरक्षणभावेनावन्त्यां जनिमवापतुः ॥ १२४ ॥
स च नारायणो विप्रः पितृशुश्रूषणे रतः ॥
दष्टोऽपि दन्दशूकेन काश्यां पारावतो भवत ॥ १२५ ॥
एवं भवान्तरे चासीदेतयोः पतिरेव सः ॥
तिसृणां भवतीनां च भावी भर्ता पुनः स वै ॥ १२६ ॥
प्रासादस्यापि पार्श्वे तु न्यग्रोधश्च महानगः ॥
तस्मिञ्छाखिनि वासाढ्ये शाखामृग्यो बभूवतुः ॥ १२७ ॥
विष्णुदेहजले तीर्थे क्रीडया च ममज्जतुः ॥
पपतुश्चापि पानीयं तस्मिंस्तीर्थे तृषातुरे ॥ १२८ ॥
जातिस्वभावचापल्यात्कीडन्त्यौ च प्रदक्षिणम् ॥
चक्रतुर्बहुकृत्वश्च लिङ्गं ददृश तुर्बहु ॥ १२९ ॥
विचरन्त्यावितः स्वैरं तत्र न्यग्रोधसन्निधौ ॥
केनचिद्योगवेषेण पाशेन च नियन्त्रिते ॥5.2.45.१३०॥
भिक्षार्थं शिक्षिते तेन न प्लुतिर्न निवर्त्तनम् ॥
अथ ते क्वापि मर्कट्यौ कालधर्मवशङ्गते ॥ १३१ ॥
अवन्तीवासपुण्येन त्रिलोचनस्य सेवया ॥
प्रादक्षिण्यानुरूपेण जाते नागसुते अपि ॥ १३२ ॥
अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ॥
निर्विश्य स्वर्गभोगांश्चावन्त्यां निर्वृतिमाप्स्य ॥ १३३ ॥
यैरल्पमपि चावन्त्या कृतं कर्म शुभावहम् ॥
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ॥
त्रैलोक्येऽपि च सर्वस्मिञ्छ्रेष्ठाऽवन्तीपुरी सदा ॥ १३४ ॥
ततोऽपि लिङ्गमोङ्कारं ततोऽप्यत्र त्रिलोचनम् ॥
तिष्ठगानोऽत्र लिङ्गेऽहं भुक्तिं मुक्तिं ददामि वै ॥ १३५ ॥
अतः सर्वप्रयत्नेनावन्त्यां पूज्यस्त्रिलोचनः ॥
इत्युक्त्वा देवदेवेशस्तत्प्रासादान्तरेऽविशत् ॥१३६॥
लिङ्गस्वरूपमासाद्य शुभं त्रिभुवनादपि ॥
ताश्च स्वसदनं प्राप्य तद्वृत्तान्तमशेषतः ॥
स्वमातुः पुरतश्चोक्त्वा कृतकृत्या इवाभवन् ॥ १३७ ॥
एकदा माधवे मासि सह सार्थाः समागताः ॥
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः ॥ १३८ ॥
विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ॥
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलिम् ॥ १३९ ॥
विद्याधराय ताः कन्या नागैस्तिस्रोऽपि कल्पिताः ॥
मन्दारदामा सन्तुष्टः प्राप्य तच्च स्नुशत्रयम् ॥5.2.45.१४०॥
रत्नदीपैश्च नागेन्द्रः पद्मी च भुजगेश्वरः ॥
विशिखोऽपि फणीन्द्रश्च हृष्टा एते त्रयोऽपि च ॥
जामातरं समासाद्य शुभं परिमलालयम् ॥ १४१ ॥
अन्योऽन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ॥
विवाहोत्सवमारच्य स्वंस्वं भवनमाविशन् ॥ १४२ ॥
त्रिलोचनस्य लिङ्गस्य वर्णयन्तोऽपि गौरवम् ॥
स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ॥
भुक्त्वावन्तीं ततः प्राप्य संसेव्य च त्रिलोचनम् ॥ १४३ ॥
गायन्गीतं सुमधुरं नागीभिः सहितः कृती ॥
आत्मानं चातिविस्मृत्य मध्येलिङ्गं लयं गतः ॥ १४४ ॥
त्रिलोचनस्य महिमा कलौ देवेन गोपितः ॥
ततोल्पसत्त्वा मनुजा न तल्लिमगमुपासते ॥ १४५ ॥
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोऽप्यहो ॥
विपापो जायते मर्त्यो लभते च परां गतिम् ॥ १४६ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
त्रिलोचनस्य देवस्य शृणु वीरेश्वरं परम् ॥ ॥ १४७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये त्रिलोचनमाहात्म्यवर्णनन्नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥