॥ ईश्वर उवाच ॥ ॥
चत्वारिंशत्तमं विद्धि चतुर्भिरधिकं परम्॥
यस्य दर्शनमात्रेण समीहितफलं लभेत् ॥
उत्तरेशमिति ख्यातं समीहि तफलप्रदम्॥१॥
पुरा नियुक्ताः शक्रेण ये मेघा वृष्टिकारकाः ॥
तैः प्लावितं जगत्सर्वं सपर्वतमहीतलम्॥२॥
एकार्णवे ततो जाते देवा भीता वरानने ॥
निःस्वाध्यायवषट्काराः स्वधास्वाहाविवर्जिताः ॥३॥
नैवाप्यायनमस्माकं विना होमेन जायते॥
वयमाप्यायिता विप्रैर्यज्ञभागैर्यथोचितैः ॥४॥
तेषां वयं प्रयच्छामः कामान्यज्ञादिपूजिताः ॥
नास्ति तत्सर्वमेवैतदन्योन्यमवदन्सुराः ॥ ५ ॥
दृष्ट्वा पृष्वीं जले मग्नां ब्रह्माणं शरणं गताः ॥
कथयामासुरत्युग्रं नमस्कृत्य पितामहम् ॥६॥
एकार्णवा मही जाता विनष्टाः क्रतवः प्रभो ॥
निःस्वाध्यायवषट्कारं जगज्जातं पितामह ॥७॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
मुहूर्त्त चिन्तयामास किमेतदिति विस्मितः ॥ ८ ॥
अकाले प्रलयः कस्मान्निमग्ना पृथिवी जले ॥
गता सृष्टिर्मदीया तु व्यर्थं जातं वचो मम ॥ ९ ॥
इति सञ्चिन्त्य हृदये सस्मार बलसूदनम् ॥
स्मृतमात्रस्तु बलहा ह्याजगाम पितामहम् ॥ 5.2.44.१० ॥
प्रोवाच वचनं श्रुत्वा नम स्कृत्य पितामहम् ॥
स्मृतोऽहं केन कार्येण देह्याज्ञां मे पितामह ॥ ११ ॥
ब्रह्मणोक्तस्तदा शक्रः किमर्थं प्लाविता मही ॥
असम्बद्धैस्त्वदीयैश्च मेघैः किं सहसा कृतम् ॥ १२ ॥
ततः सर्वे समाहूता मेघाः शक्रेण पार्वति ॥
पितामहसमक्षं तु समायाताश्च तत्क्षणात् ॥ १३ ॥
पितामहेन शक्रेण मर्यादा च कृता तदा ॥
गजोनाम महामेघः पूर्वस्यां दिशि निर्मितः ॥ १४ ॥
गजाकारैस्ततो मेघैः सहस्रैर्दशभिर्वृतः ॥
गवयो दक्षिणामाशां षट् सहस्राधिपः कृतः ॥ १५ ॥
शरभः पश्चिमामाशां सहस्राधिपतिः कृतः ॥
उत्तरोनाम यो मेघो मेघैः कोटिभिरावृतः ॥ १६ ॥
उत्तरस्यां दिशि तदा प्रभुत्वे सम्प्रतिष्ठितः ॥
मर्यादा च कृता देवि ब्रह्मणा वासवेन तु ॥ १७ ॥
प्रावृट्काले च वर्षध्वं नक्षत्रैर्जलजैद्रुतम् ॥
आर्द्रादिस्वातिपर्यन्तं नक्षत्रद शकं स्मृतम्॥ १८ ॥
ब्रह्मशक्रवचः श्रुत्वा तथेति कृतनिश्चयाः ॥
ववृषुर्नियते काले तन्नामानि भवन्ति हि ॥ १९ ॥
एवं व्यवस्थिते लोके मर्यादायां स्थिता घनाः ॥
ब्राह्मणा विज्वरा जातास्त्रिदशा मुदिता भृशम्॥ 5.2.44.२०॥
क्रूरग्रहैरथो रुद्धास्ते मेघा वृष्टिकारकाः ॥
शनैश्चरेण भौमेन भास्करेणाथ केतुना ॥ २१ ॥
पीडिताः शरणं जग्मुर्वासवं भयविह्वलाः ॥
निवेदितं भयात्सर्वं नमस्कृत्य पुनःपुनः ॥ २२ ॥
मेघानां वचनं श्रुत्वा सन्त्र स्तो वासवस्तदा ॥
उवाच वचनं तेषां नाहं शक्तो निवारणे ॥
ग्रहाणामसमर्थोऽहं सर्वदैव पयोधराः ॥ २३ ॥
अहं राज्यात्परिभ्रष्टः कृतः क्रूरग्रहैः पुरा ॥
स्थापितोऽहं कदाचिच्च सुप्रसन्नैर्ग्रहैः पदे ॥२४ ॥
मम मान्याश्च पूज्याश्च ग्रहा एव यतोधिकाः ॥
ग्रहाः स्रर्वहराः प्रोक्ता इति मे वर्त्तते मतिः ॥ ॥ २५ ॥
एतस्मिन्नन्तरे भूमौ सञ्जाता शतवार्षिकी ॥
अनावृष्टिर्महारौद्रा सर्वप्राणिविनाशिनी ॥ २६ ॥
अस्थिकङ्कालशकला श्वेतपर्वतसन्निभा ॥
पृथिवी तत्क्षणाज्जाता विना तोयेन पार्वति ॥ २७ ॥
देवाः सर्वे पुनर्भीता ब्रह्माणं शरणं गताः ॥
ऊचुश्च प्रणताः सर्वे त्राहि नः शरणागतान् ॥ ॥२८॥
अनावृष्ट्या जगत्सर्वं पीडितं च पितामह ॥
अकाले प्रलयो जातः पुनरेव च तादृशः ॥२९॥
त्वया च वासवेनैव नियुक्ता ये पयोधराः ॥
कूरग्रहैरतीवोग्रैः पीडितास्ते पितामह॥ 5.2.44.३० ॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
अहं बिभेमि भो देवा ग्रहैस्तैर्बलवत्तरैः ॥ ३१ ॥
सर्वं जानामि माहात्म्यं ग्रहाणां क्रूरचेतसाम् ॥
शनैश्चरेण वक्रेण भवन्तः पीडिताः सदा ॥ ३२ ॥
वरुणो यादसां नाथो मङ्गलेन प्रपीडितः ॥
राज्यभ्रष्टस्तु बहुधा केतुना वासवः कृतः ॥ ३३ ॥
शिरश्छेदो मया प्राप्तो वक्रेण रविणा पुरा ॥
एकैकशः समर्थास्ते किं पुनः सङ्घशस्त्वमी ॥
तस्मात्सर्वे महादेवं गच्छामः शरणं वयम्॥३४॥
ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः।.
ब्रह्माणं च पुरस्कृत्य मामव शरणं गताः॥३५॥
उक्तोऽहं त्रिदशैः सर्वैः पाहि नः शरणागतान् ॥
त्वं नो धाता विधाता च सृष्टिसंहारकारकः॥३६॥
क्रूरग्रहैर्महादेव रुद्धा मेघाः समन्ततः॥
न कुर्वन्ति प्रभो वृष्टिमनावृष्टिः सुदारुणा॥
सर्वप्राणिविनाशाय सञ्जाता शतवार्षिकी॥
तेषां तद्वचनं श्रुत्वा मया ज्ञातं वरानने॥
क्रूरग्रहाणां सामर्थ्यं यथा च विदितं मम॥३८॥
इति ज्ञात्वा महादेवि उपायश्चिन्तितो मया॥
उत्तरो नाम यो मेघो मेघैः कोटिभिरावृतः॥
आहूतस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह ॥ ३९ ॥
मया प्रोक्तो ममादेशाद्गच्छ त्वं घनसंयुतः ॥
महाकालवनं रम्यं वाञ्छितार्थफलप्रदम् ॥ 5.2.44.४० ॥
गङ्गेश्वरस्य देवस्य दक्षिणे लिङ्गमुत्तमम् ॥
तमाराधय यत्नेन स ते दास्यति वाञ्छितम् ॥ ४१ ॥
एवमुक्तो मया मेघ उत्तरो मेघसंयुतः ॥
जगाम त्वरया युक्तो महाकालवनोत्तमे ॥ ४२ ॥
दृष्ट्वा वृष्टिकरं लिङ्गं पूजयामास भक्तितः ॥
शिप्राजलं गृहीत्वा तु स्नात्वा स्नात्वा प्रयत्नतः ॥
तावद्यावज्जलं शिप्रां पुनरेवागतं प्रिये ॥ ४३ ॥
एतस्मिन्नन्तरे तस्मादुद्भूतं धूममण्डलम् ॥
लिङ्गमध्याद्वरारोहे ज्वालामालाकुलं महत् ॥ ४४ ॥
ततो ज्वालामयं सर्व मभूदम्बरगोचरम् ॥
तस्य ज्वालासमूहेन दग्धं वै ग्रहमण्डलम् ॥ ४५ ॥
सनक्षत्रपथं यावत्ततो भीता ग्रहाः प्रिये ॥
तमेव शरणं प्राप्ता धूमज्वालाकुलाननाः ॥ ४६ ॥
ततो ब्रह्मा च विष्णुश्च तद्दृष्ट्वा महदद्भुतम् ॥
देवैर्वृतः सहस्राक्षो लिङ्गान्तिकमुपागतः ॥ ४७ ॥
तल्लिङ्गं सुमहाज्वालं ज्वालाभिः पूरिताम्बरम् ॥
दुःप्रेक्ष्यं दुर्विदं भीमं वर्द्धमानं ददर्श सः ॥ ४८ ॥
अक्ष्णोर्निमेषमात्रेण ववृधे योजनायुतम् ॥
दृष्ट्वा तु वर्द्धमानस्य लिङ्गस्यात्य द्भुताकृतिम् ॥
सुरेशो मोहमापन्नो विसञ्ज्ञाश्च ग्रहास्तदा ॥ ४९ ॥
ततस्तु तस्य लिङ्गस्य वारिधारा विनिःसृताः ॥
एकोद्देशाद्वरारोहे धरा त्वेकार्ण वीकृता ॥ 5.2.44.५० ॥
लिङ्गस्यान्यप्रदेशात्तु वायुः समभवन्महान् ॥
इतरस्मिन्प्रदेशे तु समूहस्तडितामभूत् ॥ ५१ ॥
सधूमा समभूज्ज्वाला लिङ्गस्यान्य प्रदेशतः ॥ ५२ ॥
एवमत्यद्भुतं दृष्ट्वा वर्द्धमानं समन्ततः ॥
लिङ्गमव्यक्तमुद्भूतमापूरितनभोऽन्तरम् ॥ ५३ ॥
ग्रहाश्च विह्वला जाता धूमेनाकुलिते न्द्रियाः ॥
तुष्टुवुश्च तदा लिगं दह्यमानाः समन्ततः ॥ ५४ ॥
॥ ग्रहा ऊचुः ॥ ॥
नमः सुरूपाय सुरार्चिताय नमो विरूपप्रकृतिक्रियाय ॥
नमोनमो रूपनिराश्रयाय जलस्वरूपाय नमो नमस्ते ॥ ५५ ॥
इति स्तुतो यदा देवि ग्रहैः क्रूरैस्तदा प्रिये ॥
लिङ्गात्प्रादुरभूत्खस्थः स्वरूपो विग्रहाकृतिः ॥ ५६ ॥
भस्मधूसरसर्वाङ्गो भोगिभोगाङ्गदोज्ज्वलः ॥
हिमराशिनिभाकारो रजताचलनिर्मलः ॥
उवाच चैतान्प्रणतान्ग्रहान्कम्पितक न्धरान ॥ ५७ ॥
किं वा कामं मनोऽभीष्टं भवद्भ्यो यद्ददाम्यहम् ॥
ममामोघमिदं सर्वं दर्शनं चातिदुर्लभम् ॥ ५८ ॥
भवद्भ्यो लोकतुष्ट्यर्थं दर्शनं हि ददाम्यहम् ॥
एवमुक्त्वा ग्रहाः सर्वे प्रोचुः प्राञ्जलयस्तदा ॥ ५९ ॥
यदि देयो वरो देव यदि तुष्टोऽसि शङ्कर ॥
कर्मारम्भेषु सर्वेषु पूजाऽ स्माकं यथा भवेत् ॥
तथा कुरु महादेव तेन तृप्तिर्भविष्यति ॥ 5.2.44.६० ॥
एवं भविष्यतीत्युक्त्वा मेघं चोत्तरमुक्तवान् ॥
तुष्टोऽस्म्यहं तु ते वत्स गृहाण वरमीप्सितम् ॥ ६१ ॥
तच्छ्रुत्वा वचनं तत्र ह्युत्तरः प्राह हर्षितः ॥
यन्मे तुष्टोऽसि भगवंस्तन्मह्यं दीयतां वरम् ॥ ६२ ॥
यदास्माकं महाबाधां कदा कोपि करिष्यति ॥
तदा वृष्टिर्विधातब्या त्वया देव सदा भुवि ॥ ६३ ॥
रक्षा कार्या च मेघानां रक्षणीयास्त्वया वयम्॥
एवमस्त्विति तेनोक्तं लिङ्गेन नगगात्रजे ॥ ६४ ॥
अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले.॥
उत्तरेश्वरसञ्ज्ञोऽहं प्रभविष्यामि न संशयः ॥ ६५ ॥
ये मां सम्पूजयिष्यन्ति भक्त्या परमया युताः ॥
तेषां दास्यामि सततं वाञ्छितार्थफलं भुवि ॥ ६६ ॥
पश्यन्ति प्रयता ये मां कृत्वा नियमपूर्वकम् ॥
ते यास्यन्ति पुरं शैवं यावत्कल्पाष्टकायुतम् ॥ ६७ ॥
आरूढाः सूर्यसङ्काशैर्विमानैः सार्वकामिकैः ॥
रुद्रकन्यासमाकीर्णैर्हंससारससंयुतैः ॥ ६८ ॥
नृत्य वादित्रनिर्घुष्टैरुत्कटध्वनिनादितैः ॥
दोधूयमानैश्च नरैः स्तूयमानाः सुरासुरैः ॥ ६९ ॥
प्रसङ्गाद्भक्तिहीनोऽपि यो मां पश्यत्यशाठ्यतः ॥
ऐश्वर्यं तस्य दास्यामि ह्युत्तरेषु कुरुष्वथ ॥ 5.2.44.७० ॥
स्मरिष्यति च यो नित्यं प्रभाते चोत्तरेश्वरम् ॥
स याति परमं स्थानं दाहप्रलयवर्जितम्॥ ७१ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
उत्तरेश्वरदेवस्य शृणु त्रिलोचनेश्वरम् ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनन्नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥