०४३ चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनम्

॥ श्रीशिव उवाच ॥ ॥
चत्वारिंशत्तमं विद्धि त्र्यधिकं पर्वतात्मजे ॥
यस्य दर्शनमात्रेण जायते सर्वसम्पदः ॥ १ ॥
आदिकल्पे पुरा जातो वक्राङ्गो लोहितच्छविः ॥
रौद्रस्त्वङ्गारसदृशो मम गात्राद्वरानने ॥
मया धृतो धरण्यां स विख्यातो भूमिपुत्रकः ॥ २ ॥
जातमात्रे सुते तस्मिन्महाकाये भयावहे ॥
कम्पिता धरणी देवी देवास्त्रस्ताः सवासवाः ॥ ३ ॥
क्षोभं गताः समुद्राश्च चेलुश्च धरणीधराः ॥
तेनैव पीडितं सर्वं सदेवासुरमानुषम् ॥ ४ ॥
ऋषयो वालखिल्याश्च देवाः शक्रपुरोगमाः ॥
बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः प्रिये ॥ ५ ॥
सोच्छ्वाँसाः कथयामासुर्नमस्कृत्य पितामहम् ॥
वृत्तान्तं विस्तरात्सर्वं लोकत्रयविनाशनम् ॥ ६ ॥
हरगात्रोद्भवेनैव जातमात्रेण लीलया ॥
लोकत्रयं समाक्रान्तं पीडितं भक्षितं तथा ॥ ७ ॥
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ॥
चिन्तयित्वा तु तैः सार्द्धमाजगाम ममान्तिकम् ॥ ८ ॥
मया पृष्टास्तु ते सर्वे किमर्थं भयविह्वलाः ॥
सोच्छ्वासहृदया दीनाः कस्माद्वो भयमागतम् ॥ ९ ॥
तैः सर्वं कथितं देवि ममाग्रे भयविह्वलैः ॥
त्वदङ्गसम्भवेनैव देवदेव जगत्पते ॥
पीडितं भक्षितं चैव सदेवासुरमानवम् ॥ 5.2.43.१० ॥
इति तेषां वचः श्रुत्वा क्षेमार्थं कृपया मया ॥
आकारितो मत्समीपमुवाच वदतां वरः ॥ ११ ॥
आदेशो दीयतां देव किं करोमीत्युवाच सः ॥
नाकर्ष त्वं जगदिदं मया प्रोक्तः पुनःपुनः ॥ १२ ॥
ममाङ्गाद्रजसा जातस्तेनाङ्गारक उच्यसे ॥
लोकानां स्वस्तये नित्यं मङ्गलोसि मया कृतः ॥ १३ ॥
इदानीं वक्रतां यातो वक्रस्त्वं गीयसे बुधैः ॥
विज्ञप्तोऽहं तदा तेन मम वाक्यं श्रुतं यदा ॥
आहारेण विना देव कथं तृप्तिर्भविष्यति ॥ १४ ॥
तस्मान्मे देहि सुस्थानमाधिपत्यं च देहि मे ॥
शक्तिं च देहि मे शीघ्रमाहारं देहि मे प्रभो ॥ १५ ॥
तस्य तद्वचनं श्रुत्वा पुत्रोऽयं मम वल्लभः ॥
तस्माद्दास्यामि परमं स्थानमक्षयमुत्तमम् ॥ १६ ॥
इति सञ्चिन्त्य मनसा स्मृतं स्थानं मयोत्तमम् ॥
उत्सङ्गे च सुतं कृत्वा प्रेम्णा प्रोक्तं पुनःपुनः ॥ १७ ॥
दत्तं पुत्र मया स्थानं महाकालवनोत्तमे ॥
गङ्गेश्वरस्य पूर्वे तु प्रशस्यं स्थानमुत्तमम् ॥ १८ ॥
खगर्ता चैव शिप्रा च सङ्गमस्तत्र विद्यते ॥ १९ ॥
यदा मया धृता गङ्गा तदा सा चन्द्रमण्डलात् ॥
प्रमादात्पतिता भूमौ महाकालवनोत्तमे ॥ 5.2.43.२० ॥
खगर्तेति च विख्याता खाद्भ्रष्टा प्रापतत्क्षितौ ॥
अतो मयावतारस्तु सहसा तव वै कृतः ॥ २१ ॥
लिङ्गमूर्तिरहं पुत्र तिष्ठामि सुरपूजितः ॥
तत्स्थानं दुर्लभं देवैस्तस्मात्त्वं गच्छ सत्वरम् ॥ २२ ॥
पूजितोऽहं त्वया तत्र सङ्गमे लोकपूजिते ॥
त्रिषु लोकेषु यास्यामि ख्यातिं वै तव नामतः ॥ २३ ॥
मध्ये ग्रहाणां सर्वेषामाधिपत्यं मया तव ॥
दत्तं तृतीयकं स्थानं तत्र तृप्तिर्भविष्यति ॥ २४ ॥
पूजां प्राप्स्यसि तत्रैव ग्रहमध्ये व्यवस्थितः ॥
तिथिर्दत्ता चतुर्थी ते तस्यां ये व्रततत्पराः ॥ ॥ २५॥
त्वामुद्दिश्य करिष्यन्ति पूजां शान्तिं सदक्षिणाम् ॥
तेन सर्वेण ते तृप्तिर्भविष्यति न संशयः ॥ २६ ॥
वारश्चैकश्च ते दत्तो मङ्गलार्थं मया तव ॥
नववस्त्रपरीधानं विद्यारम्भं दिने तव ॥
तैलाभ्यङ्गं करिष्यन्ति न च प्राप्स्यन्ति ते बलम् ॥ २७ ॥
इत्युक्तस्तु मया देवि वक्राङ्गो मङ्गलः सुतः ॥
अङ्गारकेति विख्यातस्तथेत्यङ्गीचकार सः ॥ २८ ॥
सन्तुष्टस्तेन वाक्येन मदीयेन वरानने ॥
आजगाम मुदा युक्तो महाकालवनोत्तमे ॥ २९ ॥
शिप्रायाश्च तटे रम्ये खगर्त्तासङ्गमान्तिकम् ॥
दृष्टोऽहं लिङ्गरूपेण परां तुष्टिमुपागतः ॥ ॥ 5.2.43.३० ॥
मया चालिङ्गितः प्रेम्णा चुम्बितः शिरसि प्रिये ॥
वरो दत्तो विशालाक्षि वाञ्छितं ते भविष्यति ॥ ३१ ॥
दृष्टोऽहं च त्वया पुत्र भक्त्या चाराधितस्त्वया ॥
मम वाक्यं कृतं यस्मात्तस्मात्तुष्टोऽस्मि मङ्गल ॥ ३२ ॥
अङ्गारेश्वरनामाहमद्यप्रभृति पुत्रक ॥
त्रिषु लोकेषु विख्या तो भविष्यामि न संशयः ॥ ३३ ॥
ये मां पश्यन्ति सततं सङ्गमेऽत्र व्यवस्थितम् ॥
न तेषां पुनरावृत्तिर्भविष्यति महीतले ॥ ३४ ॥
ये मां सम्पूज यिष्यन्ति ह्यङ्गारकदिने नराः ॥
कलौ युगे कृतार्थास्ते भविष्यन्ति न संशयः ॥ ३५ ॥
चतुर्थ्यां मङ्गलदिने ये मां पश्यन्ति सुव्रताः ॥
न ते यास्यन्ति संसारे घोरे दुःखशताकुले ॥ ३६ ॥
अमावास्या च भौमश्च संयोगो दृश्यते यदा ॥
खगर्त्तायाश्च शिप्रायाः सङ्गमे देवपूजिते ॥ ३७ ॥
स्नात्वा तदा प्रपश्यन्ति मामत्रैव व्यवस्थितम् ॥
तेषां पुण्यफलं देवि समासाच्छृणु साम्प्रतम् ॥ ३८ ॥
वाराणस्यां प्रयागे च कुरुक्षेत्रे च यत्फलम् ॥
गयायां पुष्करे प्रोक्तं तत्पुण्यमधिकं भवेत् ॥ ३९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
अङ्गारेश्वरदेवस्य श्रूयतामुत्तरेश्वरम्॥ 5.2.43.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनन्नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥ ॥