॥ श्रीहर उवाच ॥ ॥
द्वाचत्वारिंशतं देवं गङ्गेश्वरमथो शृणु ॥
यस्य दर्शनमात्रेण सर्वतीर्थफलं लभेत् ॥
ध्रुवाधारं जगद्योनेः पदं नारायणस्य तु ॥ १ ॥
पदात्प्रवृत्ता या देवी गङ्गा त्रिपथगा नदी ॥
सा प्रविश्य सुधायोनिं सोममाधारमम्भसाम् ॥ २ ॥
ततः संवर्द्धमानार्करश्मिसङ्गतिपावनी ॥
पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ ॥ ३ ॥
मेरुकूटतटान्तेभ्यो निपतन्ती यशस्विनी ॥
विकीर्यमाणसलिला निरालम्बा पपात सा ॥ ४ ॥
मन्दरादिषु शैलेषु प्रविभक्तोदका समम् ॥
तत्र सीतेति विख्याता ययौ चैत्ररथं वनम् ॥ ५ ॥
तत्प्लायित्वा च ययावरुणोदं सरिद्वरा ॥ ६ ॥
तथैवालकनन्दाख्या दक्षिणे गन्धमादने ॥
मेरुपादवनं गत्वा नन्दने देवनन्दने ॥७॥
मानसं च महावेगात्प्लावयित्वा सरोवरम् ॥
तस्माच्च शैलराजानं रम्यं त्रिशिखरं गता ॥ ८ ॥
तस्माच्च पर्वताः सर्वे प्लावितास्तत्क्षणात्प्रिये ॥
तान्प्लावयित्वा सम्प्राप्ता हिमवन्तं महागिरिम् ॥ ९ ॥
मया धृता च तत्रैव जटाजूटेन पार्वति ॥
न मुक्ता च यदा गङ्गा तदा क्रुद्धा ममोपरि ॥ 5.2.42.१० ॥
गात्राणि प्लावयामास मदीयानि वरानने ॥
मया च रुद्धा क्रोधेन जटामध्ये यशस्विनि ॥ ११ ॥
तत्रैव सा तपश्चक्रे बहुकल्पशतानि च ॥
भगीरथेनोपवासैः स्तुत्या चाराधितो ह्यहम् ॥ १२ ॥
तदा मुक्ता मया देवि गङ्गा त्रिपथगामिनी ॥
महाकालमनुप्राप्ता प्लावयित्वोत्तरान्कुरून्॥ १३ ॥
समुद्रमहिषी जाता प्राणेभ्योऽपि गरीयसी ॥
नदीनामुत्तमा गङ्गा समुद्रेण कृता तदा ॥
स तया सहितो रेमे समुद्रः सरिताम्पतिः ॥ १४ ॥
ततः कदाचिद्ब्रह्माणमुपासाञ्चक्रिरे सुराः ॥
तथार्णवो जगामाथ ब्रह्मलोकं सनातनम्॥
गङ्गया सहितो देवि दर्शनार्थं महोत्सवे ॥ १५ ॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् ॥
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥ १६ ॥
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा ॥
महाभिषस्तु राजर्षिर्निःशङ्को दृष्टवान्नदीम् ॥ १७ ॥
तस्य भावं विदित्वाऽथ ब्रह्मणा स तिरस्कृतः ॥
उक्तस्तु जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥ १८ ॥
गङ्गा शप्ताथ क्रुद्धेन समुद्रेण यशस्विनि ॥
मां विहायान्यसक्तासि तस्माद्यास्यसि मानुषम् ॥ १९ ॥
लोकमल्पायुषं दीना तत्र दुःखमवाप्स्यसि ॥
तं शापं दारुणं श्रुत्वा गङ्गा वचनमब्रवीत् ॥ 5.2.42.२० ॥
विनापराधाच्छप्ताहं कस्माद्वै देवसंसदि ॥
पतिव्रता पतिप्राणा पतिना परमार्थतः ॥ २१ ॥
प्रमादाद्वस्त्रमुद्धूतं वायुना व्यापकेन तु ॥
प्रत्युवाच ततो ब्रह्मा तां नदीं लोकपावनीम् ॥ २२ ॥
वसूनां कारणाद्देवि शप्ता यस्मान्महानदि ॥
भाव्यर्थे तोयनिधिना तस्माच्छीघ्रं व्रजाधुना ॥ २३ ॥
महाकालवने रम्ये सिद्धगन्धर्वसेविते ॥
शिप्राया दक्षिणे भागे विद्यते लिङ्गमुत्तमम्॥ २४ ॥
सर्वसिद्धिकरं पुण्यं सर्वपातकनाशनम् ॥
तमाराधय यत्नेन स ते दास्यति वाञ्छितम्॥२५ ॥
पितामहवचः श्रुत्वा तुष्टा त्रिपथगामिनी ॥
गमनं तत्र मेऽभीष्ट विद्यते यत्सखी मम ॥
शिप्रापि मे प्रिया पुण्या महापातकनाशिनी ॥ २६ ॥
इति सञ्चिन्त्य मनसा दिव्या देवनदी तदा ॥
आजगाम महाकाले ह्यपश्यल्लिङ्गमुत्तमम् ॥ २७ ॥
पूजयामास पयसा दिव्येन विधिना तदा ॥
दृष्ट्वा शिप्रां सखीं तत्र संश्लेषं चाभवत्तयोः ॥ २८ ॥
ततः प्रभृति सञ्जाता सा शिप्रा पूर्ववाहिनी ॥
त्रिषु लोकेषु विख्यातो देवो गङ्गेश्वरः स्वयम् ॥
गङ्गयाराधितो यस्मात्समीहितफलप्रदः ॥ २९ ॥
संस्तुता देवगन्धर्वैर्गङ्गा देवनदी तदा ॥
ऋषिभिर्वालखिल्याद्यैस्तथान्यैर्मुनिभिर्मुदा ॥ 5.2.42.३० ॥
समुद्रस्तत्र सम्प्राप्तो मानिता सा महानदी ॥
लिङ्गेनोक्ता तदा गङ्गा कलया स्थीयतामिति ॥ ३१ ॥
तत्समीपे महापुण्ये यावत्तिष्ठति मेदिनी ॥
अङ्गीकृतं समुद्रेण यथोक्तं च तथा स्त्विति ॥३२॥
एवमुक्त्वा गता गङ्गा कलया तत्र संस्थिता ॥
गङ्गेश्वरं तु यः पश्येत्स्नात्वा शिप्राम्भसि प्रिये ॥ ३३ ॥
गोसहस्रफलं तस्य जायते नात्र संशयः ॥
सर्वतीर्थफलं तस्य सर्वधर्मफलं तथा॥३४॥
सर्वयज्ञफलं सम्यक्सर्वदानफलं तथा ॥
सर्वयोगफलं देवि प्राप्नोत्येव निरन्तरम्॥३५॥
तत्र तीर्थानि सुभगे पृथिव्यां यानि कानिचित्॥
धर्मारण्यं फल्गुतीर्थं पुष्करं नैमिषं गया ॥ ३६ ॥
प्रयागं च कुरुक्षेत्रं केदारममरेश्वरम् ॥
चन्द्रभागा विपाशा च सरयूर्देविका कुहू ॥ ३७ ॥
गोदावरी शतद्रुश्च बाहुदा वेत्रवत्यपि ॥
सर्वा एवात्र सरितः सङ्गताः सन्ति गङ्गया ॥ ३८ ॥
गुप्तानि पुण्यतीर्थानि सिद्धक्षेत्राणि चैव हि ॥
तत्र सर्वाणि तिष्ठन्ति कलामात्रेण पार्वति ॥ ३९ ॥
एतेषां फलमाप्नोति यः पश्यति समाहितः ॥
स्नात्वा गङ्गेश्वरं देवं सत्यमेतन्मयोदितम् ॥
अतः पुण्यतमं स्थानं गीयते गणवन्दिते ॥5.2.42.४०॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
गङ्गेश्वरस्य देवस्य शृण्वङ्गारेश्वरं परम् ॥ ४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये गङ्गेश्वर माहात्म्यवर्णनन्नाम द्वाचत्वारिंशोऽध्यायः ॥ ४२ ॥