॥ श्रीमहादेव उवाच ॥ ॥
चत्वारिंशत्तमं सैकमीश्वरं विद्धि पार्वति ॥
लुम्पेश्वरमिति ख्यातं नाम यस्य महीतले ॥ १ ॥
देशे म्लेच्छगणाकीर्णे बभूव जगतीपतिः ॥
लुम्पाधिप इति ख्यातो महेन्द्रसमविक्रमः ॥ २ ॥
तस्यासीद्दयिता भार्या विशालानाम नामतः ॥
सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि ॥ ३ ॥
स युद्धकामो नृपतिः पर्यपृच्छद्विजोत्तमान् ॥ ४ ॥
अथ केनापि कथितमाश्रमे सामगो द्विजः ॥।
तेन सार्द्धं महाबाहो युध्यस्व त्वं नृपोत्तम ॥ ५ ॥
ततः स प्रस्थितो राजा म्लेच्छैः सार्द्धं सहस्रशः ॥
तुषारैर्बर्बरैर्लुम्पैः पह्लवैः श्वगणैस्तथा ॥ ६॥
दस्युभिः संवृतः क्रूरैः क्रोधेनाकुलितेन्द्रियः ॥
आजगामाश्रमं पुण्यं सामगस्य मुनेस्तदा ॥ ७ ॥
मुनिना पूजितस्तेन मधुपर्कादिविष्टरैः ॥
एतस्मिन्नन्तरे राजा होमधेनुं ददर्श ह ॥ ८ ॥
प्रार्थयामास सहसा न दत्ता मुनिना तदा ॥
प्रमथ्य चाश्रमं तस्य होमधेनुं जहार सः ॥
वनं बभञ्ज सकलं तस्य विप्रस्य पश्यतः ॥ ९ ॥
काल्यमानां च गां दृष्ट्वा वत्सं चातीव दुःखितम् ॥
उवाच वचनं विप्रो मा राजन्साहसं कुरु ॥ 5.2.41.१० ॥
एवं वदन्तं विप्रेन्द्रं शरैस्तीक्ष्णैर्जघान ह ॥
लुम्पः क्रोधसमाविष्टो दुष्टो दुष्टजनैर्वृतः ॥ ११ ॥
असकृत्पुत्रपुत्रेति विलपन्तमनाथवत् ॥
हत्वा च सामगं विप्रं जगाम स्वगृहं नृपः ॥ १२ ॥
एतस्मिन्नन्तरे पुत्रः समित्पाणिरुपागतः ॥
दृष्ट्वा च पितरं विप्रं तदा मृत्युवशं गतम् ॥
अनागसं महात्मानं विललाप सुदुःखितः ॥ १३ ॥
केनेदं कुत्सितं कर्म कृतं पापेन मे पिता ॥
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितेः ॥ १४ ॥
विलप्यैवं सकरुणं बहुना नाविधं तथा ॥
प्रेतकार्याणि सर्वाणि पितुश्चक्रे विधानतः ॥ १५ ॥
ददाह पितरं चाग्नौ तोयमादाय सत्वरम् ॥
तस्य लुम्पाधिपस्यापि ददौ शापं सुदारुणम् ॥ १६ ॥
स्वधर्मनिरतो विद्वान्येन मे निहतः पिता ॥
स पापात्मा दुराचारः कुष्ठरोगमवाप्नुयात् ॥ १७ ॥
एतस्मिन्नन्तरे राजा कुष्ठरोगेण पीडितः ॥
अचङ्क्रमणतां प्राप्तो लुम्पाधीशो वरानने ॥ १८ ॥
औषधैरधिकोऽभ्येति ब्रह्मशापप्रभावतः ॥
वैराग्यान्मर्तुकामोऽसौ काष्ठान्यादाय दुःखितः ॥ १९ ॥
चितां कर्तुं समारेभे समायातोऽथ नारदः ॥
पूजितो विधिना तेन दुःखितेन नृपेण हि ॥ 5.2.41.२० ॥
अथ पप्रच्छ लुम्पोऽसौ नारदं मुनिसत्तमम् ॥
अकस्मान्मम देवर्षे कुष्ठरोगो बभूव ह ॥
तेनाहं पीडितोऽतीव न च शान्तिं व्रजत्यसौ ॥ २१ ॥
औषधैर्वर्द्धते कस्मादेतदाख्यातुमर्हसि ॥
न तेस्त्वविदितं किञ्चिदिहलोके परत्र च ॥ २२ ॥
तस्य तद्वचनं श्रुत्वा लुम्पाधीशस्य नारदः ॥
कथयामास तत्सर्वं ब्रह्मशापं सुदुस्तरम्॥ २३ ॥
ततः सभार्यो नृपतिः प्रार्थयामास नारदम् ॥
कथं मे भगवञ्छापो दुस्तरो यास्यति क्षयम् ॥ २४ ॥
एवमुक्तस्तु लुम्पेन नारदो भगवानृषिः ॥
कारुण्यात्कथयामास सभार्यस्य यशस्विनि ॥ २५ ॥
महाकालवने राजल्ँलिङ्गं कुष्ठहरं परम् ॥
सर्वसम्पत्करं तत्र विद्यते पापनाशनम् ॥ २६ ॥
शिप्रायाश्च तटे रम्ये केशवार्कस्य पूर्वतः ॥
तत्र त्वं गच्छ राजेन्द्र कान्त्या युक्तो भविष्यसि ॥ २७ ॥
एवमुक्तस्तु लुम्पोऽसौ ह्याजगाम त्वरान्वितः ॥
महाकालवनं रम्यं महर्षिगणसेवितम् ॥ २८ ॥
प्राप्तः स्वर्गोपमं भूपः शिप्रया परिशोभितम् ॥
विवेश च मुदा युक्तो दृष्ट्वा लिङ्गमनुत्तमम् ॥ २९ ॥
स्नात्वा शिप्राजले पुण्ये महापातकनाशने ॥
दर्शनात्तस्य लिङ्गस्य दिव्यरूपो वभूव ह ॥ 5.2.41.३० ॥
कुष्ठरोगेण मुक्तस्तु मुक्तो वै ब्रह्महत्यया ॥
कृतकृत्यो नृपो जातो दर्शनादेव पार्वति ॥ ३१ ॥
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ॥
तापसानां परं चक्रे सत्कारं भार्यया सह ॥ ३२ ॥
ततः कृतस्वस्त्वयनस्तापसैस्तैर्महात्मभिः ॥
दिव्यज्ञानान्वितैर्दिव्यैः सूर्यवैश्वानरप्रभैः ॥ ३३ ॥
कृतं नाम तदा तस्य लिङ्गस्य कमलानने ॥
लुम्पेनाराधितो यस्माद्देवोऽयं कुष्ठनाशनः ॥
लुम्पेश्वर इति ख्यातो भविष्यति महीतले ॥ ३४ ॥
पूजयिष्यन्ति ये भक्त्या लिङ्गं लुम्पेश्वरं परम् ॥
स्नात्वा शिप्राजले पुण्ये ते यास्यन्ति परं पदम् ॥ ३५ ॥
प्रार्थयिष्यन्ति यान्कामान्मनसा। चेप्सितान्प्रियान् ॥
तानाप्स्यन्ति न सन्देहो लुम्पेशस्य च दर्शनात् ॥ ३६ ॥
महापापसमायुक्तो यः पश्यति समाहितः ॥
लिङ्गं लुम्पेश्वरं सोऽपि देवतुल्यो भविष्यति ॥ ३७ ॥
गोघ्नश्चैव कृतघ्नश्च मातृहा गुरुतल्पगः ॥
दुष्टकर्मसमाचारो भ्रातृहा पितृहा तथा ॥ ३८ ॥॥
लुम्पेश्वरं सकृत्पश्यन्मुच्यते सर्वकिल्बिषैः ॥
पूजितोऽपि दहेत्पापं सप्तजन्मार्जितं च यत् ॥ ३९ ॥
इत्युक्त्वा मुनयः सर्वे पूजयामासु रन्विताः ॥
कुष्ठरोगविनिर्मुक्तो राजा स्वविषयं गतः ॥ 5.2.41.४० ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
लुम्पेश्वरस्य देवस्य शृणु गङ्गेश्वरं परम् ॥ ४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये लुम्पेश्वरमाहात्म्यव र्णनन्नामैकोनचत्वारिंशोऽध्यायः ॥ ४१ ॥