॥ ईश्वर उवाच ॥ ॥
चत्वारिंशत्तमं विद्धि कुण्डेश्वरमतः शृणु ॥
यस्य दर्शनमात्रेण लभ्यते सद्गतिः परा ॥ १ ॥
विज्ञप्तोऽहं त्वया देवि मन्दरे चारुकन्दरे ॥
वीरकं द्रष्टुमिच्छामि क्व गतो मम पुत्रकः ॥ २ ॥
मया प्रोक्तं विशालाक्षि महाकालवनो त्तमे ॥
जलमध्ये स्थितस्तेपे तपः परमदारुणम्॥३॥
मुनिभिः सहितो धीमान्भ्राजमानोंऽशुमानिव ॥
गच्छामस्तत्र तं द्रष्टुं गणैः सार्द्धं वरानने ॥ ॥ ४ ॥
मदीयं वचनं श्रुत्वा त्वयाहं प्रेरितस्तदा ॥
उत्तिष्ठ शम्भो गच्छामो वृषमारुह सत्वरम् ॥ ५ ॥
सप्रस्नवौ स्तनौ जातौ सद्यः संस्मृत्य वीरकम् ॥
मया स्मृतो वृषो देवि धर्मरूपी सनातनः ॥ ६ ॥
मदीयं चिन्तितं ज्ञात्वा ममपार्श्वमुपागतः ॥
आरूढोऽहं त्वया सार्द्धं तस्मिन्नेव वृषे तदा ॥ ७ ॥
प्रस्थितस्तत्क्षणाच्छीघ्रं गणैर्नानाविधैः सह ॥
वेगात्प्रयातो वृषभस्कन्धालम्बितया त्वया ॥ ८ ॥
रणद्वलयबाहुभ्यां गाढमालिङ्गितो ह्यहम्॥
त्वं भीता च तदा जाता यदातीव प्रणोदितः ॥ ९ ॥
वृषो मया विशालाक्षि स कृष्टो गणपैस्तदा ॥
कृष्टं च सत्वरं दृष्ट्वा प्रोक्तं च भीतया तदा ॥ 5.2.40.१० ॥
श्रान्तास्मि साम्प्रतं देव वेगेनानेन भीषिता ॥
तद्विश्रमितुमिच्छामि भूधरस्य तटे विभो ॥ ११ ॥
क्षणं पद्भ्यां गमिष्यामि विषमोयं गिरिर्महान्॥
त्वदीयं वचनं श्रुत्वा बाढमुक्तं प्रिये मया ॥ १२ ॥
मुहूर्त्तं चारुजघने शैलपादमुपाश्रिता ॥
कुरु श्रमापनयनं यावद्वेगात्प्रयाम्यहम् ॥ ॥ १३ ॥
पन्थान त्वत्सुखं यत्र तं वयं मृगयावहे ॥
एष कुण्डो गणाध्यक्षस्त्वत्समीपे वसिष्यति ॥
त्वदाज्ञावशवर्त्ती च किङ्करः स्थापितो मया ॥ ॥ १४ ॥
एवमुक्त्वा ततो देवि संस्थाप्य गणरक्षकम् ॥
आरूढोऽहं गिरेः प्रान्तमुदयाद्रिं रविर्यथा ॥ १५ ॥
ततोऽवलोकितोऽत्यर्थं रमणीयो महा गिरिः ॥
इदं रम्यमिदं रम्यमित्यस्मिन्वरपर्वते ॥ १६ ॥
पश्यतो मम शैलेन्द्रं गताः संवत्सरा दश ॥
त्वयाथ चिन्तितं देवि क्व गतस्त्रिपुरान्तकः॥१७॥
नूनं न मदनातप्तां वेत्ति मां रतिवर्जिताम् ॥
मां विहाय महादेवो निर्विशङ्कः क्व वर्त्तते ॥ १८ ॥
हरस्य क्वापि यातस्य वैरं संस्मृत्य चित्तजः ॥
बाधते मामनङ्गोपि चापरोपितमार्गणः ॥
विलोकयन्तीं हा दृष्ट्वा विलपन्तीं पुनः पुनः ॥ १९ ॥
ततः कुण्डो गणाध्यक्षो ज्ञात्वा भावं त्वदीयकम् ॥
उत्कृष्टेन स्वरेणोक्तं मा देवि विमना भव ॥ 5.2.40.२० ॥
आयात एष ते भर्त्ता मा चेतः कलुषं कुरु ॥
एतच्छ्रुत्वा वचस्तस्य कुण्डस्य कमलानने ॥ २१ ॥
दुःखार्त्तया त्वया प्रोक्तः कुण्ड वेद्मि न शङ्करम् ॥
क्व गतः किं च कुरुते कालं दीर्घमिमं शिवः ॥
दर्शयस्व महादेवमित्युक्तोऽ सौ पुनःपुनः ॥ २२ ॥
यदा न दर्शितस्तेन कुण्डेनाहं वरानने ॥
तदा शप्तस्त्वया देवि क्रुद्धया गणरक्षकः ॥ २३ ॥
गच्छ त्वं मानुषं लोकं यस्मान्न कथितो हरः ॥
एतस्मिन्नन्तरे देवि प्राप्तोऽहं त्वत्समीपतः ॥ २४ ॥
पृष्टश्चाहं त्वया देवि विहाय क्व गतोऽसि माम् ॥
दुर्गमे पर्वते शून्ये तस्मात्त्य क्ष्यामि जीवितम् ॥ २५ ॥
गत्वाग्रे भूधरस्यास्य किं कृतं च त्वया विभो ॥
मया तव वचः श्रुत्वा कथितं सर्वमेव तत् ॥ २६ ॥
दुराधर्षतरः शैलः समन्ताद्दुरतिक्रमः ॥
त्वत्प्रियार्थं महाभागे मया मार्गोऽवलोकितः ॥ २७ ॥
येन मार्गेण विश्रब्धं गमिष्यामः सुमध्यमे ॥
अयं कुण्डो गणो देवि विषण्णो व्याकुलः कृतः ॥ २८ ॥
त्वयाप्युक्तं महादेव कुण्डः शप्तो मया गणः ।
ममाज्ञा न कृता यस्माद्विफलं न वचो मम ॥
तस्माद्यातु ममादेशा न्महाकालवनं शुभम् ॥ २९ ॥
भैरवं रूपमास्थाय यत्र त्वं चोत्तरे स्थितः ॥
तस्याग्रतः स्थितं लिङ्गं वर्त्तते कामदं सदा ॥ 5.2.40.३० ॥
तस्य दर्शन मात्रेण गणपोऽयं भविष्यति ॥
कुण्डेश्वरेति विख्यातः स देवो वै भविष्यति ॥ ३१ ॥
इत्युक्तः स त्वया देवि समासाद्य पुनःपुनः ॥
प्रस्थापितस्त्वयादेशाद्व्रज कुण्ड ममाज्ञया ॥ ३२ ॥
महाकालवनं शीघ्रं लिङ्गमाराध्य सत्वरम् ॥
कीर्तिस्ते भविता पुत्र त्रिषु लोकेषु शाश्वती ॥ ३३॥
इत्युक्तस्तत्क्षणात्प्राप्तो दृष्ट्वा लिङ्गं तु शाश्वतम् ॥
उत्तरस्य शिवस्याग्रे पूजयामास भक्तितः ॥ ३४ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥
यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः ॥ ३५ ॥
अथाहं तत्क्षणात्प्राप्तस्त्वया सार्द्धं गणैर्वृतः ॥
दृष्ट्वा कुण्डं गणेशं तु लिङ्गाराधनतत्परम् ॥ ३६ ॥
समाधिध्याननिरतं प्रोक्तमस्माभिरादरात् ॥
तुष्टा ते पार्वती पुत्र प्रार्थ्यतां वरमुत्तमम् ॥ ३७ ॥
अक्षयं तु पदं प्राप्तं त्वया लिङ्गस्य दर्शनात् ॥
अद्यप्रभृति देवोऽयं ख्यातो भुवि भविष्यति ॥
नाम्ना कुण्डेश्वरो यस्मात्सर्वसम्पत्करः सदा ॥ ३८ ॥
कुण्डेश्वरमनादिं तु भक्त्या पश्यति यो नरः ॥
सोऽश्वमेधसहस्रस्य फलं प्राप्स्यति नान्यथा ॥ ३९ ॥
तस्य दानफलं सर्वं सर्वतीर्थफलं सदा ॥
लिङ्गं कुण्डेश्वरं यस्तु भक्त्या सम्पूजयिष्यति॥5.2.40.४०॥
दशानामश्वमेधानामग्निष्टोमशतस्य च॥
स्पर्शनात्फलमाप्नोति कुण्डेश्वरस्य सर्वदा॥४१॥
प्रातः पश्यन्ति ये भक्त्या कृत्वा नियमपूर्वकम्॥
सिद्धिं सुकामिकीं हृष्टाः सम्प्राप्स्यन्ति न संशयः ॥४२॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कुण्डेश्वरस्य देवस्य शृणु लुम्पेश्वरं परम्॥४३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कुण्डेश्वरमाहात्म्यवर्णनन्नाम चत्वारिंशो ऽध्यायः ॥ ४० ॥