॥ हर उवाच ॥ ॥
अक्रूरेश्वरमेकोनचत्वारिंशत्तमं शृणु ॥
यस्य दर्शनमात्रेण सुबुद्धिर्जायते नृणाम् ॥ १ ॥
पुरा त्वयैव कल्पादौ परया शक्तिरूपया ॥
कृतं कृत्स्नं वरारोहे त्रैलोक्यं सचराचरम् ॥ २ ॥
ततस्त्वं संस्तुता देवैः सकिन्नरमहोरगैः ॥
प्रदक्षिणां प्रकुर्वति गणा नानाविधास्तु ते ॥ ३ ॥
नमस्कारं प्रकुर्वति स्तोत्रं कुर्वन्ति चापरे ॥
न करोति नमस्कारमेको भृङ्गिरिटिस्तदा ॥ ४ ॥
क्रूरां बुद्धिं समासाद्य गर्वेणतीव गर्वितः ॥ ५ ॥
एको देवो महादेवः स्त्रिया किमनया मम ॥
यदा नायाति ते पार्श्वं तदा प्रोक्तस्त्वया गतः ॥ ६ ॥
कस्मान्न कुरुषे पूजां प्रदक्षिणमथो स्तुतिम् ॥
मद्भक्तो मदधीनोऽसि मम पुत्रो मया कृतः ॥
इत्थम्भूतगणेश त्वं किं वै लौल्येन वर्त्तसे ॥ ७ ॥
इति भृङ्गिरिटिः श्रुत्वा कुद्धस्त्वामाह गर्वितः ॥
नाहं पार्वति ते पुत्रः पुत्रोऽहं शङ्करस्य तु ॥ ८ ॥
एष एव च मे माता एष एव च मे पिता ॥
एवं रात्रिदिनं यामि शरणं परमेष्ठिनम् ॥९॥
त्वमप्यस्यैव शरणं ननु पार्वति संस्थिता॥
यदि च त्वामहं वन्दे तद्वन्दे सकलान्गणान् ॥5.2.39.१०॥
इति भृङ्गिरिटेः श्रुत्वा वाक्यं कुपितया त्वया ॥
तस्योक्तं प्रमथेशस्य भीरु भृङ्गिरिटेरिदम् ॥११॥
सुतो भूत्वा भवान्कस्माददाक्षिण्यं ब्रवीषि माम् ॥
त्वङ्मांसशोणितान्त्रं च मातृकं तनयस्य तु ॥ १२ ॥
नखदन्तास्थिसङ्घातः शिश्नं वाक्च शिरस्तथा ॥
तथैव शुक्रं गणप पैतृकं तु शरीरकम् ॥ १३ ॥
इति भृङ्गिरिटिः श्रुत्वा सद्यो योगबलेन तु ॥
मांसादि त्यक्तवान्सर्वं मातृकं भागमेव हि ॥ १४ ॥
ततः प्रभृति वामोरु नखदन्तास्थिनासिकः ॥
स च क्रूरां मतिं कृत्वा क्रोधसंरक्तलोचनः॥ ॥ १५ ॥
त्वां परित्यज्य दुःखार्त्त आजगाम ममान्तिकम् ॥
अथ त्वया तदा शप्तो गणो भृङ्गिरिटिः प्रिये ॥ १६ ॥
क्रूरा बुद्धिः कृता यस्मात्त्वया कुमतिना भृशम् ॥
तस्मात्त्वं मानुषे लोके गमिष्यसि न संशयः ॥ १७ ॥
इत्युक्तस्तु त्वया देवि गणो भृङ्गिरिटिस्तथा ॥
पपात मानुषं लोकं पुण्यान्ते सुकृती यथा ॥ १८ ॥
स गत्वा पुष्करद्वीपं तपसे भावितात्मवान् ॥
तत्रैकपादूर्द्ध्वभुजो दशपद्मान्यवस्थितः ॥
दग्धीभूतं च तपसा जगद्वै दुष्करेण तु ॥ १९ ॥
ततो ब्रह्मा च विष्णुश्च शक्रश्च त्रिदशैः सह ॥
वयं च चारुजघने तत्समीपं समागतः ॥ 5.2.39.२० ॥
उपगम्य ततस्तस्य कथितं पुरतो मया ॥
अलं क्रूरेण तपसा लोकस्योत्सादनेन वै ॥ २१ ॥
त्रैलोक्यमपि निःसञ्ज्ञं जातमेवं स्थिते त्वयि ॥
संहरस्व तपो घोरं लोकसन्तापनं महत्॥२२॥
प्रार्थ्यतां पार्वती पुत्र सा दास्यति वरं च ते॥
अस्याः प्रसादान्मुक्तिस्ते शापाच्चैव भविष्यति ॥
एवमुक्तस्तदा तेन प्रार्थिता त्वं महेश्वरि ॥
गणेन भृङ्गिरिटिना भक्तिनम्रेण सादरात् ॥ २४ ॥
त्वया प्रोक्तं विशालाक्षि पुत्र गच्छ ममाज्ञया ॥
महाकालवने रम्ये तत्राऽक्रूरो भविष्यसि ॥ २५ ॥
पुनः प्राप्स्यसि कैलासं सिद्धगन्धर्वसेवितम्॥
अङ्कपादाग्रतो लिङ्गं सप्तकल्पानुगं महत् ॥
यस्य दर्शनमात्रेण शुभा बुद्धिः प्रजायते ॥ २६ ॥
कृतघ्ना नास्तिकाः क्रूरा ये च विश्वासघातकाः ॥
महापातकिनो ये च ये च शापवशं गताः ॥
दर्शनात्तस्य लिङ्गस्य तेऽपि स्वर्ग भुजो नराः ॥ २७ ॥
क्रूरां बुद्धिं समासाद्य कंसं हत्वा च केशिहा ॥
बलदेवेन सहितस्त्यक्त्वा तां मथुरां पुरीम् ॥ २८ ॥
महाकालवनं गत्वा तोष यित्वा महेश्वरम्॥
अक्रूरत्वं च सम्प्राप्तं कीर्त्तिर्लब्धा च शाश्वती ॥ २९ ॥
त्वदीयं वचनं श्रुत्वा गणो भृङ्गिरिटिस्तदा ॥
तथेति प्रत्ययी जातो महा कालवनं गतः ॥
देवमाराधयामास तपसा दुष्करेण तु ॥ 5.2.39.३० ॥
एतस्मिन्नन्तरे देवि लिङ्गमध्यात्त्वमुत्थिता ॥
अर्द्धाङ्गं मामकं कृत्वा स्वकीयाङ्गमथा र्द्धतः ॥
फणीन्द्रबद्धजूटार्द्धमर्द्धधमिल्लभूषितम्॥ ३१ ॥
पत्रवल्लीविचित्रार्धमर्द्धचन्द्रविराजितम् ॥
मुक्ताहारनिबद्धार्द्धमर्द्धं सर्पैश्च वेष्टितम् ॥ ३२ ॥
ततो भृङ्गिरिटिर्देवि दृष्ट्वा तन्महदद्रुतम् ॥
चिन्तयामास हृदये मयाऽज्ञानादनुष्ठितम् ॥ ३३ ॥
उमा च शङ्करश्चैव देहमेकं सनातनम् ॥
एका मूर्त्तिरनिर्देश्या द्विधा भेदेन दृश्यते ॥ ३४ ॥
एवं चिन्तयतस्तस्य भक्तिनम्रस्य पार्व्वति ॥
प्रोक्तं त्वया प्रसन्नाहं वरं वरय पुत्रक ॥ ३५ ॥
तेनोक्तं यदि तुष्टासि मातर्मम महेश्वरि ॥
अस्य लिङ्गस्य माहात्म्यात्क्रूरा बुद्धिर्गता मम ॥ ३६ ॥
अक्रूरेश्वरनामायं देवः ख्यातो भवत्विति ॥
त्वं देवि सर्वभावानामेका कारणमुच्यते ॥३७॥
त्वं मूर्ता पुण्यनिचया त्वं गतिः पुण्यसेविनाम्॥
पिता माता सुहृद्बन्धुस्त्वमेका कारणं परम् ॥ ३८ ॥
कुरु पुण्यतमं स्थानं ब्रह्महत्यादिनाशनम् ॥
भुक्तिदं मुक्तिदं चैव वाञ्छितार्थप्रदायकम्॥ ३९ ॥
तथेति च त्वया प्रोक्तं गिरा मधुरया तदा ॥
यत्ते प्रियतमं वत्स तत्पूर्वं प्रकरोम्यहम् ॥ 5.2.39.४० ॥
न मेऽस्ति दुष्करं पुत्र त्वत्कृते कनकप्रभ ॥
अस्मिन्स्थाने तु ये देवमकूरेश्वरसञ्ज्ञकम् ॥
प्रसङ्गादपि पश्यन्ति अपि पापरता नराः ॥
तेऽप्यवश्यं भविष्यन्ति त्वत्समा नियतं गणाः ॥४१॥
भक्त्या स्तोष्यन्ति ये नाम लिङ्गस्यास्य च मानवाः ॥
मानसैः पातकैर्मुक्ता यास्यन्ति स्वर्गमक्षयम् ॥४२॥
स्नात्वा तु विधिवत्पूजां यः करिष्यति मानवः॥
स मुक्तः पातकैः सर्वैः प्राप्स्यते रविमण्डलम् ॥४३॥
आयुरारोग्यमैश्वर्यं काममत्र हि वाञ्छितम् ॥
गोसहस्रफलं चात्र स्पृष्ट्वा प्राप्स्यति मानवः ॥४४॥
स्नात्वा मन्दाकिनीकुण्डे योऽकूरेश्वरमीश्वरम् ॥
पूजयेद्विविधैः पुष्पैर्महापापहतोपि वा॥४५॥
विमानं दिव्यमारूढो यावत्कल्पचतुष्टयम् ॥
गन्धर्वैर्गीयमानस्तु सोऽपि स्वर्गं गमिष्यति॥ ४६ ॥
इत्युक्तः स गणो देवि मत्समीपमुपागतः ॥
शापान्मुक्तस्त्वया सार्धं विस्मृता किं वरानने ॥ ४७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
अक्रूरेश्वरदेवस्य शृणु कुण्डेश्वरं परम् ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽक्रूरेश्वरमाहात्म्यवर्णनन्नामै कोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ ॥