॥ ईश्वर उवाच ॥ ॥
अष्टात्रिंशत्तमं विद्धि कुसुमेश्वरसञ्ज्ञकम् ॥
देवं स्वर्गप्रदं देवि महापातकना शनम् ॥१॥
पुरा वैवस्वते कल्पे प्राप्ते वाराहसञ्ज्ञके ॥
प्रादुर्भूते विशालाक्षि कैलासादहमागतः ॥ २॥
महाकालवने रम्ये रममाणस्य पार्वति ॥
त्वया सार्द्धं ममाक्षैश्च प्रादुरासीन्महास्वनः ॥ ३ ॥
पृष्टोऽहं च तदा श्रुत्वा शब्दं चातीव दुःसहम् ॥
शब्दोत्पत्तिर्मया देवि कथिता सा त्वदग्रतः ॥४॥
एते गणेशाः क्रीडन्ति मध्ये वै वीरको गणः ॥
कुसुमैर्भूषितोऽत्यर्थं ममातीव सुवल्लभः ॥५॥
कुसुमैर्हन्यतेऽप्यर्थं पूज्यते कुसुमोत्करैः ॥
स एव वीरको देवि सदा मे हर्षदायकः ॥६॥
नानाश्चर्यगुणाधारो गणेश्वरशतार्चितः ॥
मदीयं वचनं श्रुत्वा त्वयाप्युक्तं वरानने ॥७॥
न दृश्यते विना पुण्यैः पुत्रस्याननपङ्कजम् ॥
ईदृशस्य सुतस्यापि ममोत्कण्ठा महेश्वर ॥ ८ ॥
कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकम् ॥
मया तव वचः श्रुत्वा हसित्वा च पुनःपुनः ॥
प्रोक्तं पार्वति पुत्रोऽयं प्रदत्तो वीरकोऽधुना ॥ ९ ॥
एष एव सुतस्तेस्तु नयनानन्ददायकः ॥
त्वया मात्रा कृतार्थस्तु वीरकः कुसुमार्चितः ॥ 5.2.38.१० ॥
मदीयं वचनं श्रुत्वा प्रेषिता विजया त्वया ॥
दत्तो हरेण मे पुत्रो विजये शीघ्रमानय ॥ ११ ॥
विजयोवाच गणपं गणमध्ये च वर्त्तिनम् ॥
एहि वीरक चापल्यात्त्वया देवः प्रकोपितः ॥
किमुन्मत्तवदत्यर्थं नृत्यरागेण मोहितः ॥ १२ ॥
इत्युक्तो भयसन्त्रस्तः कुसुमैर्भूषितस्तदा ॥
त्वत्समीपं समायातो विजयानुगतः शनैः ॥ १३ ॥
भूषितं कुसुमैर्दृष्ट्वा भयत्रस्तं च वीरकम् ॥
त्वया चाकारितो देवि गिरा मधुरवर्णया ॥१४॥
एह्येहि जातोऽसि मे पुत्रकस्त्वं देवेन दत्तोऽधुना वीरकोसि ॥
उक्तवत्येवमङ्के निधायाथ तं पर्यचुम्बः कपोले कलंवादिनम् ॥ १५ ॥
मूर्धन्युपाघ्राय सम्मार्ज्य गात्राणि सा भूषयामास दिव्यैः स्वयं भूषणैः ॥
किङ्किणीमेखलानूपुरैः सन्मणीनिष्ककेयूरहारोत्करैः सद्गुणैः ॥ १६ ॥
कोमलैः पल्लवैश्चित्रितैश्चारुभिर्दिव्य मन्त्रोद्भवैस्तस्य शुभ्रैस्ततः ॥
भूतिभिश्चाकरोर्मिश्रसिद्धार्थकैरङ्गरक्षाविधींस्तस्यतुष्टा सती ॥ १७ ॥
एवमाधाय चोवक्थ कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभङ्गोज्वलैः ॥
वत्स गच्छाधुना क्रीड सार्द्धं गणैरप्रमत्तो यथा बालचर्यां शनैः ॥ १८ ॥
सोऽपि सिद्ध्याकुले गण्डशैले मिलद्रत्नजाले वृहच्छा लतालाकुले ॥
क्षणं फुल्लमालातमालालिमाले क्षणं वृक्षमूले विलोलालिमाले ॥ १९ ॥
क्षणं स्वल्पपङ्के जले पङ्कजाले क्षणं वृक्षखण्डे शुभे निष्कलङ्के ॥
परिक्रीडते बालको वै विहारी गणेशाधिपो देवतानन्दकारी ॥ 5.2.38.२० ॥
एवं विक्रीडतस्तस्य वीरकस्य गणस्य च ॥
सन्ध्या तमो मयी प्राप्ता विज्ञप्तोऽहं त्वया प्रिये ॥२१॥
ऐश्वर्यं दीयतामस्य मम पुत्रस्य शङ्कर ॥
शरीरार्द्धं गणेशत्वं लोकपालत्वमग्रतः ॥ २२ ॥
लिङ्गत्वमक्षयत्वं च स्थानं दिव्यं सुदुर्ल्लभम् ॥
वन्द्यमानं यथा देव सिद्धगन्धर्वकिन्नरैः ॥
ब्रह्मेन्द्रवरुणादित्यलोकपालेश्वरेश्वरैः ॥ २३ ॥
एतैरेव गणैः सार्द्धं स्तूय मानं महात्मभिः ॥
अलङ्कृतो मया यस्मात्कुसुमैर्विविधैः शुभैः ॥ २४ ॥
कुसुमेश्वरसञ्ज्ञस्तु तस्मात्ख्यातो भवत्विति ॥
मयाप्युक्तं विशालाक्षि वीरकं दयितं मम ॥ २५ ॥
मत्प्रभावसमं दिव्यं सेवितं गणपैः सदा ॥
शृणु गन्धर्वगीतानां माधुर्यममृतोपमम् ॥ २६ ॥
पश्य किन्नरनारीणां गायन्तीनां मनोरमम् ॥
पश्याप्सरःसमूहस्यनृत्यमेतन्निरन्तरम् ॥ २७ ॥
विद्याधरैः परिवृतः कुसुमेशो वरानने ॥
विशेषतो मया देवि प्रथमं प्रमथे श्वरः ॥
कुसुमेश्वरतां नीतो यदा कुसुममण्डितः ॥ २८ ॥
स्थानं दत्तं विशालाक्षि शिवलिङ्गस्य चोत्तरे ॥
वरो दत्तो बहुमतो दुष्प्राप्यस्त्रिदशैरपि ॥ २९ ॥
ये त्वां द्रक्ष्यन्ति गणप कुसुमेश्वरसञ्ज्ञकम् ॥
न तेषां जायते पापं पद्मपत्रे यथा जलम् ॥ 5.2.38.३० ॥
कुसुमैरर्चयिष्यन्ति ये नराः कुसुमेश्वरम् ॥
मत्स्थानं ते समासाद्य मोदिष्यन्ति गतव्यथाः ॥ ३१ ॥
योऽप्येकं दिवसं मर्त्त्यस्त्वां पश्यति समाहितः ॥
स मुक्तः पातकैः सर्वैर्मम लोकं गमिष्यति ॥ ३२ ॥
यः पूजयति भावेन कुसुमैः कुसुमेश्वरम् ॥
स प्राप्स्यति परं स्थानं पुनरावृत्तिदुर्लभम् ॥ ३३ ॥
एवमादिवरैः पुष्टः कृतोयं कुसु मेश्वरः ॥
कृतकृत्यो गणो देवि लिङ्गेनेश्वरतां गतः ॥ ३४ ॥
कुसुमेश्वरदेवस्य प्रभावः कथितस्त्वयम् ॥
अक्रूरेशस्य देवस्य श्रूयतां तदनन्तरम् ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे कुसुमेश्वरमाहात्म्यवर्णनन्नामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥ ॥ छ ॥