॥ श्रीहर उवाच ॥ ॥
सप्तत्रिंशत्तमं विद्धि शिवेश्वरमनन्तकम् ॥
यस्य दर्शनमात्रेण जायन्ते सर्वसम्पदः ॥ १ ॥
राजा रिपुञ्जयोनाम ब्रह्मकल्पे पुराभवत् ॥
महाकालवने रम्ये प्रजापालनतत्परः ॥ २ ॥
देवपूजां व्रतं दानं ध्यानं स्वाध्यायसत्क्रियाम् ॥
प्रजापालनकं कृत्वा न स जानाति किञ्चन ॥ ३ ॥
स प्रजाः पालयामास पुत्रवत्परिपालिताः ॥
प्रजास्ताः सुखसंवृद्धा जरामृत्युविवर्जिताः ॥ ४ ॥
पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः ॥
तस्यैव तेजसा व्याप्तं महाकालपुरं प्रिये ॥ ५ ॥
एतस्मिन्नन्तरे पृथ्वीं तस्मिञ्छासति पार्वति ॥
महाकालवनं देवि स्वपुरं चिह्नितं मया ॥
विना चोज्जयिनीं गन्तुं न रतिं प्राप कुत्रचित् ॥ ६ ॥
तदा मया गणेशस्तु शिवसञ्ज्ञो गणाग्रणीः ॥
चिन्तितस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह ॥ ७ ॥
मयाप्युक्तो गणेशो हि गच्छ पुत्र मम प्रियम् ॥
महाकालपुरं व्याप्तं राजा रिपुञ्जयेन हि ॥ ८ ॥
इत्युक्तः स मया देवि तथेत्युक्ता कृताञ्जलिः ॥
गतोऽसौ मानुषे लोके ममाज्ञाहर्षिताननः ॥ ९॥
गते शिवगणे देवि सन्तुष्टोऽहं शुचिस्मिते ॥
युक्तिज्ञानवृतो दक्षः प्रभोर्भृत्यो हि दुर्लभः ॥ 5.2.37.१० ॥
ततः स भिक्षु रूपेण बह्वोषधिपरिग्रहः ॥
गृहीत्वा दुन्दुभिं स्कन्धे वचनं चेदमब्रवीत् ॥ ११ ॥
कश्च भूतविषग्रस्तो नानादोषैः समाश्रितः ॥
कस्य को व्याधिरत्युग्रो यमहं प्रशमं नये ॥ १२ ॥
कोऽपुत्रः पुत्रवानस्तु मन्मन्त्रबलमाश्रितः ॥
वैद्योऽस्मि सर्वयुक्तिज्ञः सर्वकामप्रदायकः ॥ १३ ॥
तस्य वाक्यं समाकर्ण्य कौतूहलसमन्वितः ॥
सवृद्धबालनारीको जनस्तमभिजग्मिवान् ॥ १४ ॥
तेषां स नाशयामास व्याधिं दुर्जयमप्यति ॥
ते च तस्मै सुमहतीं पूजां चक्रुः सुहर्षिताः ॥
हेमरत्नाम्बरधनैर्धान्यग्रामपुरादिभिः ॥ १५ ॥
एवं स न्यवसत्तत्र वर्षाणि च चतुर्द्दश ॥
नृपतेरन्तरप्रेक्षी न चान्तर मवाप सः ॥ १६ ॥
अहोऽतिदुष्करो राजा अहो लोकपरायणः ॥
अहो तेजोनिधिर्वीरो दुर्जयोऽसौ महामतिः ॥ १७ ॥
एवं स चिन्तयंस्तत्र भिक्षु रूपी शिवो गणः ॥
जीर्णोद्यानलताजालगहने संवृतः स्थितः ॥ १८ ॥
अत्रान्तरे तु नृपतेस्तस्य लोकव्रतस्य तु ॥
महिषी निर्जरा राज्ञः प्राणेभ्योपि गरीयसी ॥ १९ ॥
रूपेणाप्रतिमा लोके सा चापुत्रा सुतार्थिनी ॥
सपत्नीबहुला देवी श्रुत्वा भिक्षुं समाश्रिता॥ 5.2.37.२० ॥
सर्वकामप्रदं ज्ञात्वा नाग राणां सकौतुकम्॥
स्वां सखीं प्रेषयामास सुनन्दान्नाम भामिनी ॥ २१ ॥
भिक्षोरायतने गुप्तमन्तःपुरमतन्द्रिता ॥
तया चासादितो भिक्षुर्विचिन्त्य नगरं तदा ॥
उवाच चिन्तापरमं भिक्षुं भिक्षासमन्वितम् ॥ २२ ॥
प्रणम्य प्राञ्जलिर्भूत्वा कार्यार्थं विगतव्यथा ॥
भगवन्महिषी राज्ञः प्राणेभ्योऽपि गरीयसी ॥
वन्ध्या पुत्रार्थिनी देवी गुप्तं त्वां द्रष्टुमिच्छति ॥ २३ ॥
भवान्कृपाकरः प्रायः प्रजानामीहितप्रदः ॥
एवं श्रुत्वा शिवगणो लब्ध्वा रन्ध्र मुवाच ह ॥ २४ ॥
॥ भिक्षुरुवाच ॥ ॥
भद्रे केयं तव मतिर्विपरीतप्रलापिनी ॥
अविज्ञातो नरपतेर्गृहमेहीति भाषसे ॥
अविज्ञातः पुरे दृष्टः साहसी पुरुषो भवेत् ॥ २५ ॥
एवं मत्वा व्रज क्षिप्रं स्वमेवान्तःपुरं शुभे ॥
नाहं तत्रागमिष्यामि यावन्न नृपतेर्वचः ॥ २६ ॥
सा तु तस्य वचः श्रुत्वा भिक्षोः क्षुभितमानसा ॥
जगामान्तःपुरं तूर्णं देव्यै तच्च न्यवेदयत् ॥ २७ ॥
सखीवचस्तु सा श्रुत्वा देवी दीना उवाच ताम् ॥
सुनन्दे क उपायोस्ति राजा येन प्रवर्त्तते ॥
भिक्षोरानयने क्षिप्रं यावन्नासौ व्रजेत्क्वचित् ॥ २८ ॥
उवाच सा तां युक्त्यैव सुनन्दा युक्तभाषिणी ॥
त्वं तस्य वल्लभा राज्ञः प्राणेभ्योपि गरीयसी ॥ २९ ॥
तस्मादस्वस्थचित्तत्वं राज्ञः स्वं सम्प्रदर्शय ॥
हेतुना तेन राजा च वाक्यं तव करिष्यति ॥ 5.2.37.३० ॥
एतस्मिन्नेव काले तु देव्या दर्शनलालसः ॥
जगामान्तःपुरं राजा प्रियां दीनां ददर्श ह ॥
तामपृच्छत्ततो राजा स्नेहार्द्रीकृतमानसः ॥ ३१ ॥ ॥
॥ राजोवाच ॥ ॥
किमिदं देवि ते रूपं विमनस्केव भाषसे ॥
भग्नासि केन दुःखेन कस्यापकृतमीदृशम् ॥ ३२ ॥
नृपस्य वचनं श्रुत्वा राज्ञी वचनमब्रवीत् ॥
न पुत्रा नृप मे सन्ति तेन मे नास्ति निर्वृतिः ॥ ३३ ॥
क्रीडनं पीडनायैव तेषां ये पुत्रवर्जिताः ॥
अपुत्रा जगतो दीना दुःखिताः पुत्रवर्जिताः ॥
अपुत्रे च गतिर्नास्ति सुतापुत्रविवर्जिते ॥ ३४ ॥
सुखिनस्ते जना लोके ये बालं पांसुभूषितम् ॥
परिष्वजन्ति स्वसुतमस्फुटाक्षरभाषकम् ॥ ३५ ॥
अनेन कारणेनास्मि निर्वेदं परमं गता ॥
उपायो हि मया दृष्टः पुत्रार्थे मम साम्प्रतम् ॥ ३६ ॥
इह भिक्षुः समायातो देवरूपी सनातनः ॥
तस्य चाव्याहता शक्तिः श्रूयते सर्ववस्तुषु ॥ ३७ ॥
सस्त्रीबालो जनश्चात्र शरणं यस्य गच्छति ॥
तस्य भिक्षोः प्रसादेन सुतवत्यो वयं नृप ॥
भविष्यामोऽत्र सन्देहो न मे मनसि वर्त्तते ॥ ३८ ॥
तस्याः स वचनं श्रुत्वा जीर्णोद्यानं जगाम ह ॥
प्रियया सहितो राजा तं च भिक्षुं ददर्श ह ॥ ३९ ॥
दृष्टमात्रो नृपतिना भिक्षुर्लिगत्वमागतः ॥
दृष्ट्वा सुमहदाश्चर्यं भक्तिनम्रो महीपतिः ॥
पूजयामास विधिवत्तल्लिङ्गं भिक्षु रूपकम् ॥ 5.2.37.४० ॥
अपुत्रोऽस्मीत्युवाचेदं धन्येयं महिषी मम ॥
देहि मे तनयं देव शिवो भवान्महेश्वरः ॥ ४१ ॥
इत्युक्तो राजसिंहेन भिक्षुर्लिङ्गा कृतिस्तदा ॥
प्रत्युवाच महीपालं पुत्रस्ते भविता नृप ॥ ४२ ॥
ततःप्रभृति राजासौ सकलत्रो महामतिः ॥
सर्वभावेन तं देवं जगाम शरणं मुदा ॥ ४३ ॥
देवदेवस्य माहात्म्यात्पुत्रो जातो महाबलः ॥
धर्मात्मा च यशस्वी च सार्वभौमो गुणाधिकः ॥ ४४ ॥
अथाहं मन्दराद्देवि कौतु- कात्तु समागतः ॥
लिङ्गाकारं गणं दृष्ट्वा राजानं सेवकं तथा ॥४५॥
योगैश्वर्येण च मया कृतं वै पुरमात्मनः ॥
नानारत्नप्रभोद्द्योतं नानासिद्धिनि षेवितम् ॥
तच्छिवं शाश्वतं स्थानं दत्तं देवि तदा मया ॥ ४६ ॥
मार्कण्डेयेश्वराद्देवादुत्तरे वरवर्णिनि ॥
तदाप्रभृति देवोऽसौ शिवेश्वर इति स्मृतः ॥. ॥ ४७ ॥
येऽर्चयिष्यन्ति सततं शिवेश्वरमनुत्तमम्॥
निर्धूतसर्वपापास्ते भविष्यन्ति गणोत्तमाः ॥ ४८ ॥
विदित्वार्भगुरुं लोकं ये द्रक्ष्यन्ति शिवेश्व रम् ॥
अन्तकाले प्रदास्यामि तेषां ज्ञानमनुत्तमम् ॥४९॥
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ॥
अपुनर्भवहेतुत्वात्संसेव्योऽसौ शिवेश्वरः ॥ ॥ 5.2.37.५० ॥
सर्वावस्थोऽपि यो मर्त्यः संश्रयेत्तं शिवेश्वरम् ॥
स तां गतिमवाप्नोति यज्ञैर्दानैर्हि या गतिः ॥ ५१ ॥
आख्यानं प्रयतो मर्त्त्यो य इदं श्रावयेच्छुचिः ॥
पठेद्वा वाचयेद्वापि स मुच्येत्सर्वकिल्विषैः ॥ ५२ ॥
एष ते कथिता देवि प्रभावः पापनाशनः ॥
शिवेश्वरस्य देवस्य कुसुमेश मतः शृणु ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शिवेश्वरमाहात्म्यवर्णनन्नाम सप्तत्रिंशोऽध्यायः ॥३७॥