०३६ मार्कण्डेयेश्वरमाहात्म्यवर्णनम्

॥ श्रीहर उवाच ॥ ॥
मार्कण्डेयेश्वरं विद्धि षट्त्रिंशत्तममीश्वरम् ॥
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः ॥ १ ॥
ब्रह्मवंशसमुत्पन्नो मृकण्डोनाम तापसः ॥
वेदाध्ययनसम्पन्नः स चापुत्रो बभूव ह ॥ २ ॥
पुत्रार्थं चिन्तयामाम कथं पुत्रो भवेदिति ॥
अपुत्रस्य कुतो लोक इति वेदेषु पठ्यते ॥ ३ ॥
तस्मात्तपः करिष्यामि येन मे तनयो भवेत् ॥
एवं सञ्चित्य बहुधा स जगाम हिमालयम् ॥ ४ ॥
चकार वसतिं चापि तपसे भावितात्मवान् ॥
वायुभक्षोम्बुभक्षश्च निराहारोर्ध्वपादकः ॥ ५ ॥
शाकमूलफलाहारः पर्णाश्येकद्विपर्णभुक् ॥
एवमादीनि चान्यानि तपांसि सुबहून्यपि ॥६॥
चकार स मुनिस्तत्र वर्षाणि द्वादशैव तु ॥
न तुष्टोऽहं तदा देवि तपसा दुष्करेण तु ॥७॥
ततो ज्ञात्वा मतिं तस्य विज्ञप्तोऽहं तदा त्वया ॥
करोत्येव तपः क्रूरं पुत्रहेतोर्मुनिर्महान् ॥८॥
तेजसा दीपयञ्छैलं शोषयन्सलिलाशयान् ॥
तपसा दुष्करेणैव क्षुभिता नाकवासिनः॥९॥
समुद्राः क्षुभिताः सर्वे चन्द्रादित्यौ तथैव च ॥
ऋषयो विस्मृतिं प्राप्ताः कम्पेते चापि रोदसी ॥
अकालप्रलयो देव भविष्यति न संशयः ॥5.2.36.१०॥
मुनये तन्मृकण्डाय पुत्रो वै दीयतामिति॥
मया प्रोक्तं वरारोहे पुत्रमिच्छत्ययोनिजम् ॥११॥
अक्षयं सुविशालाक्षि सहस्राक्षमिवापरम् ॥
चन्द्राभं चन्द्रवदनं चन्द्रवद्भुवनप्रियम् ॥१२॥
नीलोत्पलदलश्यामं नीलोत्पलदलेक्षणम् ॥
विशालचारुजघनं चारुकुण्डलमण्डितम् ॥
पुत्रमिच्छति देवेशि मृकण्डोऽयं महामुनिः ॥ १३ ॥
त्वयाप्युक्तं पुनर्देवि कारुण्याद्भक्तिवत्सले ॥
न ददासि मुनेः पुत्रं तप्यतो विषमं तपः ॥ १४ ॥
फलस्य दाता तपसां कथं त्वं गीयसे बुधैः ॥
कस्त्वां नु शरणं गच्छेल्लोकानां सम्भवं भवम् ॥ १५ ॥
करोषि सर्वदैत्यानां सर्वदेवाकुलाकुलम् ॥
त्वयाहं सुचिरं देवं सत्कृता करुणाकर ॥ १६ ॥
नान्यो मामनुकम्पार्थं प्रयच्छेत्प्रवरं वरम् ॥
स त्वं सर्वजगन्नाथ प्रभुः कर्त्ता प्रशासिता ॥ १७ ॥
हेतुः स्वामी महेशानो दयालुर्भक्तवत्सलः ॥
सर्वेश्वर स्तुतोऽभीष्टं किं न विप्राय दीयते ॥ १८ ॥
तपसा क्षीणपापस्य ब्रह्मत्वे भावितात्मनः ॥
अस्य पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव ॥ १९ ॥
मया त्वं वर्णिता देवि स्नेहाक्षरपदैः शुभैः ॥
लोलपङ्कजपत्राक्षि गौरि भूधरगात्रजे ॥ 5.2.36.२० ॥
स्कन्दमातः कलापूर्णचन्द्रबिम्बनिभानने ॥
कृशोदरि विनिःस्पृष्टचामीकरनिभद्युते ॥ २१ ॥
त्वयोक्तं प्रकरिष्यामि वाक्यं द्विरदगामिनि ॥
त्वं सिद्धिः साधका साध्यं त्वं क्रिया प्रक्रमाश्रया ॥ २२ ॥
त्वं माया श्रीर्द्युतिः श्रीमच्छ्रद्धारुचिरसन्ततिः ॥
कृत्वा मानं बहुविधं मयैव सह सुन्दरि ॥ २३ ॥
भ्राजसे विविधाकारा मोहयित्वाखिलं जगत् ॥
त्वयाप्युक्तं पुनर्देवि क्रियतां तु वचो मम ॥२४॥
मुनयेऽस्मै तपःक्षीणसर्वगात्राय साम्प्रतम् ॥
वरः प्रदीयतामस्मै ब्राह्मणाय महेश्वर ॥ २५ ॥
मयाप्युक्तं विशालाक्षि श्रूयतां वचनं मम ॥
असौ गच्छतु विप्रेन्द्रो महाकालवनोत्तमे ॥ २६ ॥
पत्तनेश्वरपूर्वे तु तत्रास्ते लिङ्गमुत्तमम् ॥
पुत्रप्रदं विशालाक्षि महापातकनाशनम् ॥ २७ ॥
मदीयं वचनं श्रुत्वा त्वयाप्युक्तो द्विजोत्तमः ॥
महाकालवनं गच्छ पुत्रार्थमृषि सत्तम ॥
तत्र लिङ्गं समाराध्य लप्स्यसे पुत्रमुत्तमम् ॥ २८ ॥
त्वया सम्प्रेरितो विप्रस्तथेति कृतनिश्चयः ॥
आशया परया युक्तः पुत्रकामो जगाम सः ॥ २९ ॥
तत्र दृष्ट्वा महालिङ्गं पुत्रदं पापनाशनम् ॥
भक्त्या संसेवयामास तपसा दुष्करेण तु ॥ 5.2.36.३० ॥
अथ केनापि कालेन निःसृतोऽहं त्वया सह॥
लिङ्गमध्याद्वरारोहे स च प्रोक्तो द्विजोत्तमः ॥ ३१ ॥
शर्वोऽहमिति जानीहि ब्रूहि किं करवाणि ते ॥
आवां पुरा प्रसन्नौ ते ज्ञातं तव विचेष्टितम् ॥३२॥
यमिच्छसि वरं ब्रह्मंस्तदद्य प्रददामि ते ॥
मया प्रोक्तः प्रसन्नेन मुनिः परमविस्मितः ॥ ३३ ॥
प्रह्वः प्राह सुहृदये स हृष्टो मुनि सत्तमः ॥
अपत्यहेतोर्देवेशौ किमलभ्यं भवेन्मम ॥ ३४ ॥
मया प्रोक्तस्तदा देवि मृकण्डो मुनिसत्तमः ॥
अयोनिजस्ते तनयो मानुषो वै भवि ष्यति ॥
ऐश्वर्यज्ञानसम्पन्नो दीर्घायुः सर्ववित्सुधीः ॥ ३५ ॥
एतस्मिन्नन्तरे देवि प्रादुर्भूतो महातपाः ॥
पुत्रः परमधर्मात्मा मार्कण्डेयो महामुनिः ॥ ॥ ३६ ॥
स जातमात्रो धर्मात्मा तत्रैव तपसि स्थितः ॥
देवमाराधयामास स तुष्टोऽथ वरं ददौ ॥ ३७ ॥
त्वयाहं जातमात्रेण तपसा तोषितो यतः ॥
तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना द्विजसत्तम ॥ ३८ ॥
ये मां पश्यन्ति विप्रेन्द्र भक्त्या परमया युताः ॥
प्राप्नुवन्ति गतिं नित्यं ते सदानन्द दायिनीम् ॥ ३९ ॥
प्रसङ्गाद्ये गमिष्यन्ति ते सदा दुःखवर्जिताः ॥
देवदेवं समाराध्य मोदिष्यन्ति हि ते नराः ॥ 5.2.36.४० ॥
त्र्यक्षा गणेश्वराः सिद्धाः सिद्धगन्धर्वसेविताः ॥
ते भविष्यन्ति सततं मम भक्ताश्च ये नराः ॥ ४१ ॥
ये मां सम्पूजयिष्यन्ति हृद्यैः पुष्पैः सुगन्धिभिः ॥
दीर्घायुषो भविष्यन्ति सदा दुःखविवर्जिताः ॥ ४२ ॥
इत्युक्ते तेन लिङ्गेन मार्कण्डेयो महातपाः ॥
तपश्चचार तत्रैव महाकालवने स्थितः ॥ ४३ ॥
प्रभावः कथितो देवि मार्कण्डेयेश्वरस्य च ॥
शिवेश्वरस्य देवस्य माहात्म्यं शृणु साम्प्रतम् ॥ ४४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनन्नाम षट्त्रिशोऽध्यायः ॥ ३६ ॥