॥ श्रीमहादेव उवाच ॥ ॥
पञ्चत्रिंशत्तमं देवर्मिद्रेश्वरमनुत्तमम् ॥
महासिद्धिप्रदं देवि ब्रह्महत्याविनाशनम् ॥ १ ॥
आसीत्प्रजापतिस्त्वष्टा तस्य पुत्रः कुशध्वजः ॥
स्वकर्मनिरतो दान्तो वासवेन निपातितः ॥ २ ॥
तस्य पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ॥
अवलुच्य जटामेकामिदं वचनमब्रवीत् ॥ ३ ॥
अद्य पश्यन्तु मे वीर्यं त्रयो लोकाः सदेवताः ॥
स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः ॥ ४ ॥
स्वकर्मनिरतो येन मत्सुतो विनिपातितः ॥
इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम् ॥ ५ ॥
ततो वृत्रः समुत्तस्थौ ज्वालामालासमाकुलः ॥
महाकायो महादंष्ट्रो भिन्नाञ्जनचयप्रभः ॥६॥
इन्द्रशत्रुरमेयात्मा त्वष्टुस्तेजोऽभिबृंहितः ॥
अहन्यहनि सोऽवर्द्धदिषुपातं महाबलम् ॥७॥
वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम्॥
चिन्तयामास सहसा किं कृतं सुकृतं भवेत् ॥ ८ ॥
एतस्मिन्नन्तरे प्राप्तो वृत्रो बलवतां वरः ॥
ददर्श वासवं तत्र देवैः सार्द्धं वरानने ॥ ९ ॥
दैत्यो वृत्रो महाकायश्चक्रे सङ्ग्राममुल्बणम् ॥
नानाशस्त्रास्त्रसङ्क्षोभं भटसङ्घट्टसङ्कटम् ॥ 5.2.35.१० ॥
छिन्नभिन्नतनुत्राणक्रोधरक्तधरातलम् ॥
लूनाननाब्जप्रकरं करपल्लवदुर्गमम् ॥११॥
कबन्धसङ्घघटनं घटितामरसैनिकम् ॥
विकीर्णाभरणस्फीतस्फुरद्योधाङ्गभूषणम् ॥ १२ ॥
कल्लोलरुधिरोद्गारपाटलीकृतदिङ्मुखम् ॥
तस्मिन्रणे महाभीमे देवान्भित्त्वा सगुह्यकान् ॥ १३ ॥
वासवं बन्धयित्वा तु स्वर्गलोकं जगाम ह ॥
राज्यं चकार निःशङ्को निस्सपत्नं वरानने ॥ १४ ॥
ततस्तु बद्धे देवेन्द्रे बृहस्पतिरुदारधीः ॥
आजगाम तमुद्देशं यत्र बद्धः शतक्रतुः ॥ १५ ॥
दृष्ट्वा तथाविधं शक्रमाशीर्भिरभिनन्द्य च ॥
बन्धनान्मोचयित्वा तु प्रोवाचेदं वचस्तदा ॥ १६ ॥
अनुकूलो न कालोयं सुरेशस्य तवाधुना ॥
उद्योगः सुमहान्दृष्टः सङ्घातश्च सुरद्विषाम् ॥
दृष्टा हि प्रवराः सर्वे मया तत्र महासुराः ॥ १७ ॥
एकैकोपि विजेतुं त्वां शक्तः स्यादिति मे मतिः ॥
न तादृक्सङ्गमः शक्र कदाचित्सुरविद्विषाम् ॥
दृष्टो वापि श्रुतो वापि यादृशो ह्यवलोकितः ॥ १८ ॥
बृहस्पतिवचः श्रुत्वा शक्रः सम्भ्रममागमत ॥
ध्यात्वा मुहूर्त्तं प्रोवाच बृहद्बुद्धे बृहस्पते ॥१९॥
किमत्र प्रतिकर्त्तव्यं वद तावद्बृहस्पते ॥
बहवो बलवन्तश्च दानवाः स्वल्पकैर्दिनैः॥
मत्सकाशं समेष्यन्ति स च वृत्रो महा बलः ॥ 5.2.35.२० ॥
इति शक्रवचः श्रुत्वा बृहस्पतिरुवाच तम् ॥
उपायः क्रियतां तूर्णं गच्छ शक्र ममाज्ञया ॥ २१ ॥
महाकालवने रम्ये खण्डेश्वरस्य दक्षिणे ॥
सर्वसम्पत्करं लिङ्गं विद्यते तत्र वासव ॥ २२ ॥
तदाराधय यत्नेन तत्ते कामं प्रदास्यति ॥
बृहस्पतिवचः श्रुत्वा शक्रः शीघ्रतरं गतः ॥ २३ ॥
महाकालवने देवि दृष्ट्वा लिङ्गमनुत्तमम् ॥
स्तुतिं चकार सहसा भक्तिनम्रात्मकन्धरः ॥ २४ ॥
नमो देवाधिदेवाय शङ्कराय वृषाय च ॥
काम्याय बहुरूपाय व्यालयज्ञोपवीतिने ॥
वरेण्याय नमो नित्यं नमस्ते सर्वकामद ॥ २५ ॥
आद्यः प्रजा सृष्टिकरस्त्वमेव कालः प्रजाः संहरसि त्वमेव ॥
अपाम्पतिर्भूतपतिस्त्वमेव धनेश्वरस्त्वं दहनस्त्वमेव ॥ २६ ॥
चन्द्रश्च सूर्यः पवन स्त्वमेव धाता विधाता परमः पुराणः ॥
जलाशयस्त्वं वरुणस्त्वमेव शैलोत्तमस्त्वं भुजगेश्वरश्च ॥
डिण्डिर्महाकाल वृषस्त्वमेव विनायको गुह्यवरस्त्वमेव ॥ २७ ॥
इतीरितां स्तुतिं श्रुत्वा लिङ्गेनोक्तः शतक्रतुः ॥
गच्छ शक्र ममादेशान्मत्तेजोबृंहितो रणे ॥
हनिष्यसि न सन्देहो वृत्रं रिपुविदारण ॥ २८ ॥
तस्य लिङ्गस्य माहात्म्यादपां फेनेन पार्वति ॥
जघान समरे वृत्रं पश्यतां त्रिदशद्विषाम् ॥ २९ ॥
निहत्य दानवान्पश्चाल्लीलया रणकर्कशः ॥
उवाचेन्द्रस्तदा देवान्हतो वृत्रो महारणे ॥ 5.2.35.३० ॥
त्रैलोक्याध्यक्षतां प्राप्ता भवन्तो मत्पराक्रमात् ॥
एवमुक्तास्तु शक्रेण ते देवा विस्मयान्विताः ॥ ३१ ॥
अस्य देवस्य माहात्म्याद्धतो वृत्रो महासुरः ॥
शरीरे च स्थिताः पापा दर्शनात्सङ्क्षयं गताः ॥ ३२ ॥
इन्द्रेणाराधितो यस्माद्देवदेवो महेश्वरः ॥
तस्मादिन्द्रेश्वरोनाम ख्यातो भुवि भविष्यति ॥ ३३ ॥
दर्शनादस्य लिङ्गस्य पुरीमिन्द्रस्य शोभनाम् ॥
पापिनोपि गमिष्यन्ति सर्वपातकवर्जिताः ॥ ३४ ॥
यः पश्यति नरो नित्यं श्रीइन्द्रेश्वरसञ्ज्ञकम् ॥
स मुक्तः पातकैः सर्वैर्दिवि मोदिष्यते चिरम् ॥ ३५ ॥
इन्द्रेणाराधितं लिङ्गं भक्त्या यः पूजयिष्यति ॥
स याति वै परं स्थानं दिव्यकल्पचतुष्टयम् ॥ ३६ ॥
येन चेन्द्रेश्वरो देवो भक्त्या सम्यक्प्रपूजितः ॥
तेन विष्णुप्रभृतयो वयं सर्वे सवासवाः ॥
मुनयो लोकपालाश्च पूजिताः स्युर्न संशयः ॥ ३७ ॥
इत्युक्तः स सुरैः शक्रो वैकुण्ठाद्यैः समन्ततः ॥
तैरेव सहितो देवो जगामाथ त्रिविष्टपम् ॥ ३८ ॥
इन्द्रेश्वरस्य देवस्य प्रभावः कथितस्त्वयम् ॥
मार्कण्डेयेश्वरं देवं शृणु पार्वति साम्प्रतम् ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनन्नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥