॥ श्रीहर उवाच ॥ ॥
चतुस्त्रिंशत्तमं विद्धि देवं वै कन्थडेश्वरम् ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १ ॥
वितस्तायास्तटे रम्ये ब्राह्मणो निवसन्पुरा ॥
बभूव पाण्डवोनाम दरिद्रेणातिपीडितः ॥ २ ॥
ज्ञातिभिश्च परित्यक्तो दुष्टया भार्यया तथा ॥
कन्थाप्येका स्थिता यस्य सर्वस्वप्रेमधारिणी ॥ ३ ॥
तेनाहं सुतकामेन तोषितो गिरिगह्वरे ॥
मयाप्युक्तं विशालाक्षि पुत्रस्तव भविष्यति ॥ ४ ॥
तस्य पुत्रः समुत्पन्नः कन्थामध्यादयो निजः ॥
शीतोष्णवारिणी कन्था तस्य पुत्रस्य साऽभवत् ॥ ५॥
स च लब्धः प्रसादेन मदीयेन वरानने ॥
रुद्रेण च वरो दत्तः कन्थाया भविता पुनः ॥ ६ ॥
अथ षष्ठे गते वर्षे मौञ्जीबन्धमचिन्तयत् ॥
तदामन्त्र्य मुनीन्सर्वान्प्रसाद्य च पुनः पुनः ॥
नमस्कृत्य ऋषीन्सर्वान्पूजयामास भक्तितः ॥ ७ ॥
फलैर्वित्तानुसारेण मौञ्जी तस्याप्यबन्धत ॥
तेऽप्युक्ता मुनयः सर्वे प्रसाद्य च पुनःपुन ॥ ८ ॥
दीयतामाशिषो ह्यस्मै पुत्राय मुनिसत्तमाः ॥
मम पुत्रस्य पुत्रोऽयं दीर्घायुर्जायतां चिरम् ॥ ९ ॥
तूष्णीम्भूयः स्थिताः सर्वे तच्छ्रुत्वा नोत्तरं ददुः ॥
यदा ते नोत्तरं प्रोचुस्तदा मुनिवरः स्वयम् ॥
ध्यानेन चिन्तयामास नूनमल्पायुषं सुतम् ॥ 5.2.34.१० ॥
इति ज्ञात्वा तु सम्मोहमगमत्सहसा मुनिः ॥
विललाप स दुःखार्त्तः सुतस्नेहेन दुःखितः ॥ ११ ॥
॥ वाडव उवाच॥ ॥
दत्तः स्वयं महेशेन ममाल्पायुः कथं सुतः ॥
रुद्रेण च वरो दत्तः प्रसन्नेन पुरा मम ॥ १२॥
मत्तुल्यवीर्यः पुत्रस्ते कन्थामध्याद्भ विष्यति ॥
जातं च दत्त्वा ह्यल्पायुं मिथ्या त्र्यक्षस्य तद्वचः ॥ १३ ॥
पितरं दुःखितं दृष्ट्वा तूष्णीम्भूतो मुनिस्तदा ॥
स बालः सहसा वाक्यं बभाषे हर्षवर्द्धनम् ॥ १४ ॥
त्यजत भयमिदानीं यन्ममार्थे विषण्णा विनिहतनिजयत्नं प्रेतराजं करोमि ॥
शृणुत मम गिरं भोः सेश्वरा लोकपालाः पितृपतिविजयार्थं सत्प्रतिज्ञा ममैषा ॥ १५ ॥
अतिविषमतपोभिः शङ्करं तोषयित्वा स्वपितुरपि च भक्त्या हन्मि मृत्योर्जयाशाम् ॥
किमतिशयविषाद व्याकुलास्तात सर्वे सपदि पितृपतिं तं स्वे वशे स्थापयामि ॥ १६ ॥
प्रयामि रुद्रं शरणं महेश्वरं देवं वरं चाप्युमयाऽविहीनम् ॥
शृण्वन्तु सर्वे मुनयः समन्तान्न मादृशे मृत्युपराभवोस्ति ॥ १७ ॥
तपोभिरुग्रैः शितिकण्ठपादौ प्रसाद्य मृत्युं न चिराद्विनेष्ये ॥
कन्थाजवाक्यामृतलोलनेत्राः सञ्जातरोमां चलसत्स्वदेहाः ॥ १८ ॥
पप्रच्छुरेनं मुनयः शिशुं तं जानासि रुद्रं परमं कथं त्वम् ॥
वयं चिरं कालमुपासमानास्तपोभिरुग्रैर्व्रतसञ्चयैश्च ॥ १९ ॥
तथापि विद्मो न वयं महेशं ज्ञातस्त्वयासौ कथमर्भकेण ॥
ईहामहे तं किल पुत्र सम्यक्छ्रोतुं प्रहर्षाद्भुतजातरोमाः ॥ 5.2.34.२० ॥
ज्ञातस्त्वया कुत्र कथं महेशो महेश्वरो वै भुवनैकनाथः ॥ २१ ॥
इति तेषां वचः श्रुत्वा मुनीनां भावितात्मनाम् ॥
स बालः कथयामास वृत्तान्तं पर्वतात्मजे ॥ २२ ॥
ममात्र क्रीडतः सिद्धः सिद्धिदः समुपागतः ॥
विज्ञायाल्पायुषं मां तु वात्सल्यादब्रवीदिदम् ॥ २३ ॥
गच्छ पुत्र ममादेशान्महाकालवनोत्तमे ॥
दक्षिणे चास्ति यल्लिङ्गमानन्देश्वरलिङ्गतः ॥ २४ ॥
तमाराधय शीघ्रं त्वं चिरजीवी भविष्यसि ॥
तस्योपदेशदानेन ज्ञातं सम्यङ्महेश्वरात् ॥ २५॥
नान्यो देवोस्ति लोकेषु सत्यं सत्यं मुनीश्वराः ॥
तस्मादद्यैव यास्यामि महाकालवने शुभे ॥ २६ ॥
लिङ्गमाराधयिष्यामि विषादस्त्यज्यतामिह ॥
तस्य तद्वचनं श्रुत्वा तेन सार्द्धं महर्षयः ॥ २७ ॥
पिता च विस्मितो देवि सर्व एव समागताः ॥
देवमाराधयामास बालः कालजिघांसया॥ २८ ॥
लिङ्गमध्यात्ततो वाणी निःसृता पर्वतात्मजे ॥
अहो तुष्टोस्मि ते वत्स कं कामं प्रददाम्यहम् ॥ २९ ॥
॥ बाल उवाच ॥ ॥
यदि तुष्टोऽसि मे देव ये त्वां पश्यन्ति शङ्कर ॥
पापकन्थाविनिर्मुक्तास्ते सन्तु चिरजीविनः ॥ 5.2.34.३० ॥
बालस्य भाषितं श्रुत्वा लिङ्गे नोक्तं यशस्विनि ॥
ये च मां पूजयिष्यन्ति श्रद्धया परया युताः ॥
ते भविष्यन्ति सततं जरामरणवर्जिताः ॥ ३१ ॥
लप्स्यन्ते परमान्कामान्भविष्यन्ति गणोत्तम ॥
पूज्याः सर्वेषु लोकेषु सर्वालङ्कारभूषिताः ॥ ३२ ॥
एवं लब्धवरः कन्थः प्राञ्जलिः समुपस्थितः ॥
लिङ्गेनोक्तः प्रसन्नेन भूयो वरय सुव्रत ॥ ३३ ॥
वरो वै दुर्लभो लोके देवदानवगुह्यकैः ॥
मयावतारितो यस्मान्नास्त्यदेयं तवाधुना ॥ ३४ ॥
बालेनोक्तो महादेव यदि देयो वरः पुनः ॥
मन्नाम्ना देव ते ख्यातिर्भूयात्त्रिभुवने भुवि ॥ ३५ ॥
एवमस्त्विति लिङ्गेन प्रोक्तं तुष्टेन पार्वति ॥
तदाप्रभृति देवेशो विख्यातः कन्थडेश्वरः ॥
यस्य दर्शनमात्रेण चिरायुर्जायते नरः ॥ ३६ ॥
यः समीक्षति तल्लिङ्गं कन्थडेश्वरमीश्वरम् ॥ ३७ ॥
पापकन्थाविनिर्मुक्तो मुक्तिं यास्यति गौरि सः ॥
पुण्यं यशस्यं गेयं तल्लिङ्गं पापप्रणाशनम् ॥
पुनाति पातकान्सर्वान्मम नामानुकीर्तनात् ॥ ३८ ॥
तेऽधन्याः पुरुषा लोके तेषां जन्म निरर्थकम्॥
यैर्न दृष्टो महाकाले देवोऽसौ कन्थडेश्वरः ॥ ३९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कन्थडेश्वरदेवस्य इन्द्रेश्वरमथो शृणु ॥ 5.2.34.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कन्थडेश्वरमाहात्म्यवर्णनन्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥