०३३ आनन्देश्वरमाहात्म्यवर्णनम्

॥ श्रीहर उवाच ॥ ॥
त्रयस्त्रिंशत्तमं देवमानन्देश्वरमीश्वरम् ॥
विद्धि पापहरं पुण्यं सर्वसम्पत्करं सदा ॥ १ ॥
पुरा राथन्तरे कल्पे बभूव पृथिवीपतिः ॥
अनमित्र इति ख्यातः सार्वभौमो महीतले ॥२॥
धर्मात्मा महात्मा च पराक्रमधनो नृपः ॥
अतीत्य सर्वभूतानि बभौ भानुरिवाव्ययः ॥३॥
समः शत्रौ च पुत्रे च मित्रे च परधर्म्मवित् ॥
गिरिभद्रा गिरेः पुत्री तेनोढा वरवर्णिनी ॥४॥
अतीव वल्लभा सा च प्राणेभ्योऽपि गरीयसी ॥
आनन्द इति पुत्रोऽभूत्तस्य ज्ञानरतः सुधीः ॥ ५ ॥
जातमात्रो निजोत्सङ्गे स्थिरमुल्लाप्य वै पुनः ॥
परिष्वजति हार्देन उल्लापयति पुनःपुनः ॥ ६ ॥
स जातिस्मरणो जातो मातुरुत्सङ्गमास्थितः ॥
जहास च तदा माता सङ्क्षुब्धा वाक्यमव्रवीत् ॥ ७ ॥
भीतास्मि किमिदं वत्स हासो यद्वदने तव ॥
अकालबोधः सञ्जातः किंस्वित्पश्यसि शोभनम् ॥ ८ ॥
इत्युक्तो मातरं प्राह सर्वोऽपि स्वार्थमीहते ॥
मां नेतुमिच्छति पुरो मार्जारी किं न पश्यसि ॥
अन्तर्धानगता चेयं द्वितीया जातहारिणी ॥ ९ ॥
पुत्रप्रीत्या च मातस्त्वमतः स्वार्थं समीहसे ॥
उल्लाप्योल्लाप्य बहुशः परिष्वजसि मां बत ॥ 5.2.33.१० ॥
उद्भूते बालके स्नेहात्सम्भ्रमात्स्त्रीजनोऽप्ययम् ॥
ततोयमागतो हासः शृणु चाप्यत्र कारणम् ॥ ॥ ११ ॥
स्वार्थे प्रसक्ता मार्जारी लोलुपा मामवेक्षते ॥
तथान्तर्द्धानगा चेयं द्वितीया जातहारिणी ॥ १२ ॥
त्वं तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि ॥
न मां जानासि कोऽप्येवं न वै चोपकृतं मया ॥ १३ ॥
सङ्गतिर्नाति बालानां पञ्चसप्तदिनात्मकम् ॥
तथापि स्निह्यसि प्रीत्या परिष्व जसि सन्ततम् ॥ १४ ॥
ततेति वत्स भो भद्र इत्यलीकं ब्रवीषि माम् ॥
पुत्रस्य वचनं श्रुत्वा क्रुद्धा माताऽब्रवीदिदम् ॥ १५ ॥
नाहं त्वामुपकारार्थं वत्स प्रीत्या परिष्वजे ॥
स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ॥ १६ ॥
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात् ॥
जहार तत्परित्यक्तं सा तदा जातहारिणी ॥ १७ ॥
सा हृत्वा तं तदा बालं पूर्वजातिस्मरं प्रिये ॥
हैमिन्याः शयने न्यस्यद्विक्रान्तस्य महीभृतः ॥ १८ ॥
मत्वा स्वकीयं पुत्रं तु विक्रान्तेन महीभृता ॥
कृतं वै नामकरणमानन्द इति विश्रुतम् ॥ १९ ॥
विक्रान्तस्य सुतो नीतो बोधस्य च द्विजन्मनः ॥
चैत्रनामा कृतस्तेन संस्कृतो वेदमन्त्रकैः ॥ 5.2.33.२० ॥
तृतीयं भक्षयामास बोधपुत्रं निशाचरी॥
जातिस्मरोऽप्यथानन्दः कृतोपनयनस्तदा ॥ २१ ॥
गुरुणा समनुज्ञातं क्रियतामभिवादनम् ॥
जनन्याः प्रागुपस्थानमित्युक्तो वाक्यमब्रवीत् ॥ २२ ॥
वन्द्या मे कतमा माता जनित्री पालिनी च वा ॥
आनन्दस्य वचः श्रुत्वा गुरुर्वचनमब्रवीत् ॥ २३ ॥
नन्वियं ते महाभाग जनित्री जनकात्मजा ॥
विक्रान्तस्याग्रमहिषी हैमिनीनाम नामतः ॥ २४ ॥
॥ ॥ आनन्द उवाच ॥ ॥
चैत्रस्य प्रसवित्रीयं चैत्रोऽयं द्विजवेश्मनि ॥
संस्कृतो ब्राह्मणैर्मन्त्रैर्गिरिभद्रासुतस्त्वहम् ॥ २५ ॥
गुरुराह ततः कस्त्वं चैत्रः को वा त्वयोच्यते ॥
ततः स कथयामास पूर्ववृत्तान्तमादितः ॥ २६ ॥
॥ गुरुरुवाच ॥ ॥
अतीव गहनं वत्स सङ्कटं महदागतम् ॥
न वेद्मि किञ्चिन्मोहेन भ्रमन्ति मम बुद्धयः ॥ २७ ॥
॥ आनन्द उवाच ॥ ॥
मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थितः ॥
कः कस्य पुत्रो विप्रर्षे को वा कस्य न बान्धवः ॥ २८ ॥
अतः संसारता हन्ति संसारं प्राणिनामिह ॥
महामोहहतं चेतश्चित्रमत्र कथं गुरो ॥ २९ ॥
ब्रह्मपुत्रस्य दुष्टस्य दुःसहस्य सुता भुवि ॥
जातहारिणिकानाम परिवर्त्तयते सुतान् ॥ 5.2.33.३० ॥
मातृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ॥
मातृद्वयमथो प्राप्तं जातिं संस्मरता सता ॥ ३१ ॥
सोऽहं तपः करिष्यामि चैत्र आनीयतामिति ॥
ततः सुविस्मितो राजा सभार्यः सह बन्धुभिः ॥३२॥
तस्मान्निवर्त्त्य ममता मनुमेने च तं प्रति ॥
चैत्रमानीय तनयं राज्ययोग्यं चकार सः ॥ ३३ ॥
सन्मान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः ॥
सोऽप्यानन्दस्तपस्तेपे महाकालवने शुभे ॥ ३४ ॥
इन्द्रेश्वरस्य देवस्य पश्चिमे लिङ्गमुत्तमम् ॥
भक्त्या ह्याराधयामास तपसा दुष्करेण तु ॥ ३५ ॥
तपस्यन्तं ततस्तं तु देवः प्राह शुचिस्मिते ॥
किमर्थं तप्यसे वत्स तपस्तीव्रं ब्रवीमि ते ॥ ३६ ॥
मनुना भवता भाव्यं षष्ठेन व्रज तत्कुरु ॥
अलं ते तपसा तस्मिंस्ततो मुक्तिमवाप्स्यसि ॥ ३७ ॥
इत्युक्तो देवदेवेन तथेत्याह महामतिः ॥
बभूव स मनुर्देवि ब्रह्मतुल्यो महायशाः ॥ ३८ ॥
पुत्रानुत्पादयामास लिङ्गस्यास्य समर्चनात् ॥
कृतं नाम तदा देवैरानन्देश्वरमुत्तमम् ॥३९॥
आनन्देन यतः प्राप्ता सिद्धिर्देवि सुदुर्ल्लभा ॥
अतो नाम सुविख्यातमानन्देश्वरमीक्ष्यताम् ॥5.2.33.४०॥
ये पश्यन्ति विशालाक्षि आनन्देश्वरमीश्वरम् ॥
ते पुत्रपौत्रसम्पन्ना भविष्यन्ति महीतले ॥ ४१ ॥
येषां क्षीणं नृणां पापं कोटिजन्मशतोद्भवम् ॥
तेषां भवति सा भक्तिरानन्देश्वरदर्शनात् ॥४२॥
तदैव पुरुषो मुक्तो जन्ममृत्युजरादिभिः ॥
यदा पश्यति देवेशमानन्देश्वरसञ्ज्ञकम् ॥ ४३ ॥
मयोक्तं मुक्तिदं नृणामानन्देश्वरदर्शनम् ॥
स्वर्गापवर्गदं देवमानन्दं लिङ्गमुत्तमम् ॥
अत्र देवैर्विशालाक्षि पूजितं लिङ्गमुत्तमम् ॥ ॥ ४४ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
आनन्देश्वरदेवस्य शृणु त्वं कन्थडेश्वरम् ॥ ४५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य आनन्देश्वरमाहात्म्यवर्णनन्नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥