॥ ईश्वर उवाच ॥ ॥
त्रिषु लोकेषु विख्यातं द्वात्रिंशत्तममुत्तमम् ॥
विद्धि सिद्धिप्रदं पुंसां पत्तनेश्वरमीश्वरम् ॥ १ ॥
पुराऽहं पर्वते देवि मन्दरे चारुकन्दर् ॥
क्रीडन्सार्द्धं त्वया पृष्टः कदाचिद्रहसि स्थितः ॥ २ ॥
किमर्थं पर्वतं त्यक्त्वा कैलासं रमणीयकम् ॥
मुक्ता फलशिलाशुभ्रं शङ्खचन्द्रांशुनिर्मलम् ॥ ३ ॥
सिद्धचारणगन्धर्वकिन्नरोद्गीतनादितम् ॥
सदा पुष्पद्रुमच्छन्नं कदलीवनराजितम् ॥ ४ ॥
अथ कोकिलचक्राह्वचकोरकुरराकुलम् ॥
पुऽण्यलोकोपमं स्थानं त्रिविष्टपविभूषणम् ॥ ५ ॥
महाकालवने शून्ये नानागुल्मलतावृते ॥
गजेन्द्रगजशार्दूल सिंहशम्बरसङ्कुले ॥ ६ ॥
ऋक्षवानरगोमायुजन्तुकादिविराजिते ॥
मयूरसर्पमार्जारमूषिकादिविराजिते ॥ ७ ॥
कथं वासः कृतो देव कौतूहलमिदं मम ॥ ८ ॥
इति पृष्टस्त्वया देवि मन्दरे चारुकन्दरे ॥
मया प्रोक्तं प्रसन्नेन पत्तनं च मम प्रिये ॥ ९ ॥
महाकालवनं रम्यं स्वर्गात्सुखकरं परम् ॥.
स्मशानपीठसत्क्षेत्रवनोपरसमाश्रितम् ॥ 5.2.32.१० ॥
अनौपम्यगुणं विद्धि पत्तनं पर्वतात्मजे ॥
एवं पत्तनदेवो वै न दृष्टो भुवनत्रये ॥
गीतवादित्रचातुर्यैः स्पर्द्धते यः सुरालयम् ॥ ११ ॥
एतस्मिन्नन्तरे देवि देवर्षिर्नारदो मुनिः ॥
द्रष्टुकामः समायातो मन्दरे मां यशस्विनि ॥ १२ ॥
विनोदार्थं मया पृष्टस्त्वत्प्रियार्थं कुतूहलात् ॥
क्व त्वया गमितः कालः कल्पसङ्ख्यो महामुने ॥ १३ ॥
कस्मिन्नाश्रमसंस्थाने तपसः सञ्चयः कृतः ॥
तीर्थानि कानि भ्रान्तानि क्व ते रतिरभूच्चिरम् ॥ १४ ॥
कौतुकं दृष्टपूर्वं तु वद मे मुनिसत्तम ॥
इति पृष्टो मया देवि ब्रह्मपुत्रो महामुनिः ॥
कथयामास वृत्तान्तं पत्तनस्य प्रयत्नतः ॥ १५ ॥
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥
पत्तनानि विचित्राणि देशाश्च नगराणि च ॥ १६ ॥
अटनार्थं महादेव जम्बूद्वीपे मनोरमे ॥
दृष्टः पत्तनराजश्च सदानन्दकरः परः ॥ १७ ॥
स्वेच्छाकल्पितविन्यासः प्रासादशतकल्पितः ॥
इच्छाकामफलावाप्तिर निर्देश्यसुखावहः ॥ १८ ॥
सर्वर्तुकुसुमामोदसुखस्पर्शानिलावृतः ॥
वीणावेणुरवैर्घुष्टो मनःप्रह्लादकारकः ॥ १९ ॥
वज्रेन्द्रनीलवैडूर्यचन्द्रकान्तादिदी पितः ॥
जरामृत्युभयोपेतः सर्वव्याधिविवर्जितः ॥ 5.2.32.२० ॥
शक्राग्नियमरक्षोब्धिवायुसोमेशसेवितः ॥
ऊर्द्धाधः सप्तलोकेषु पुण्येषु निवसन्ति हि ॥ ॥ २१ ॥
सदा प्रमुदिता देवास्तेऽपि काङ्क्षन्ति पत्तनन्न् ॥
तत्र शान्ता महात्मानो निवसन्ते महेश्वर ॥ २२ ॥
विद्योतितदिशो दान्ताः सूर्य वैश्वानरप्रभाः ॥
दिव्याम्बरधरा धीरा जगमुकुटधारिणः ॥ २३ ॥
विप्रा माहेश्वराः पुण्याः क्षत्रिया हरतत्पराः ॥
मुमुक्षवस्तपोनिष्ठा वैश्या शूद्राश्चिरायुपः ॥ २४ ॥
स शुभ्ररूपः स च लोहिताकृतिः स चापि पीतः ससितेतरः क्वचित् ॥
स नामधेयः स च नामवर्ज्यः सोऽदृ श्यरूपः स च दृष्टरूपः ॥ २५ ॥
क्वचिद्रविसहस्राक्षः क्वचिदेकरविप्रभः ॥
क्वचिच्चन्द्राद्विशिष्येत क्वचिदङ्गुलिकान्तिमान् ॥ २६ ॥
जन्म मृत्युजरारोगैर्दुःखानि विविधानि च ॥
प्रयाति विलयं तानि प्रसन्ने पत्तनेश्वरे ॥ २७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पत्तनेशस्य देवस्य आनन्देशमतः शृणु ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पत्तनेश्वर माहात्म्यवर्णनन्नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥