०३१ श्वरमाहात्म्यवर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
एकत्रिंशत्तमं विद्धि देवं खण्डेश्वरं प्रिये ॥
सम्पूर्णं जायते यस्य दर्शाद्दानव्रतादिकम् ॥ १ ॥
आसीत्त्रेतायुगे देवि भद्राश्वोनाम पार्थिवः ॥
यस्य नाम्नाऽभवद्वर्षं भद्राश्वन्नाम नामतः ॥ २ ॥
तस्यागस्त्यः कदाचित्तु गृहमागम्य सत्तमः ॥
उवाच सप्तरात्रं तु वसामि भवतो गृहे ॥ ३ ॥
तं राजा शिरसा नत्वा स्वास्यतामित्यभाषत ॥
तस्य कान्तिमतीनाम भार्या परमशोभना ॥ ४ ॥
तस्यास्तेजः समभवद्द्वादशादित्यसन्निभम् ॥
सपत्नीनां शतं तस्या विद्यते वरवर्णिनि ॥ ५ ॥
ता दास्य इव कर्माणि कुर्वन्त्यहरहः सदा ॥
कान्तिमत्याः प्रभावेन भयोत्त्र स्ताः सुलोचनाः ॥ ६ ॥
तामगस्त्यस्तथा दृष्ट्वा तन्मुखासक्तलोचनाम् ॥
एवम्भूतां तथा दृष्ट्वा राज्ञीं परमशोभनाम् ॥
साधुसाधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः ॥ ७ ॥
द्वितीये दिवसेप्येवं राज्ञीं दृष्ट्वा महाप्रभाम् ॥
अहो ह्यङ्गनया मुष्टं जगदेतच्चराचरम् ॥ ८ ॥
इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्टेत्युवाच ह ॥
तृतीयेऽह्नि च तां दृष्ट्वा पुनरेवमुवाच ह ॥ ९ ॥
अहो मूढा न जानन्ति लिङ्गमाहात्म्यमुत्तमम् ॥
महाकालवने क्षेत्रे च्यवनेशस्य पूर्वतः ॥ 5.2.31.१० ॥
खण्डव्रतानि जायन्ते पूर्णानि दर्शनाद्यदः ॥
चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत् ॥११॥
साधुसाधु जगन्नाथ साधु भद्राश्व सुव्रत ॥
पञ्चमे दिवसेऽप्येवं षष्ठे चैव पुनःपुनः ॥ १२ ॥
नृत्यन्तं सप्तमे दृष्ट्वा दिने पत्न्या समन्वितः ॥
प्रोवाच चैनं राजा स विस्मितेनान्तरात्मना ॥
किं हर्षकारणं ब्रह्मन्येन नृत्यसमन्वितः ॥ १३ ॥
॥ अगस्त्य उवाच ॥ ॥
अहो भूपाल मूढस्त्वं महामूर्खाश्च मन्त्रिणः ॥
अहो पुरोहितो मुग्धो ये न जानन्ति मे मतम् ॥ १४ ॥
ईदृशा अपि जायन्ते राजानो यस्य दर्शनात् ॥
एवमुक्तस्ततो राजा कृताञ्जलिरभाषत ॥ १५ ॥
न जानीमो वयं ब्रह्मन्नभिप्रायं तवाधुना ॥
कथयस्व महाभाग यद्यनुग्रहकृद्भवान् ॥ १६ ॥
॥ अगस्त्य उवाच ॥ ॥
इयं राज्ञी त्वदीयाभूद्दासी वैश्यस्य वैदिशे ॥
नगरे हरिदत्तस्य त्वमस्याः पतिरेव च ॥
खण्डव्रतप्रभावेन जातः कर्मकरो भवान् ॥ १७ ॥
स च वैश्यो महाकाले गत्वा देवं महेश्वरम्॥
अर्चयामास विविवद्गन्धपुष्पादिभिः शुभैः ॥ १८ ॥
अभ्यर्च्य तु गृहं यावद्भवन्तौ रक्षपालकौ ॥
ततः कालेन महता मृतौ द्वावपि दम्पती ॥ १९ ॥
तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ॥
इयं च पत्नी ते जाता पुरा वैश्यप्रदासिका ॥ 5.2.31.२० ॥
परकीयप्रसङ्गेन सञ्जाता भूभिरुत्तमा ॥
राज्यं पत्नी सुता साधुरित्युक्तं वचनं मया ॥ २१ ॥
तस्य देवस्य माहात्म्याद्यजन्तं विविधैर्मखैः ॥
पश्यामि त्वां महीपाल भूपालशतवेदितम् ॥ २२ ॥
अतः साधुपुरा प्रोक्तं मया तव महीपते ॥ २३ ॥
इति तस्य वचः श्रुत्वा कुम्भयोनेर्महात्मनः ॥
महाकालवने गन्तुं मतिं चक्रे महीपतिः ॥
ततः सान्तःपुरः प्रायात्तेन सार्द्धं महर्षिणा ॥२४॥
अगस्त्यकथितं लिङ्गं ददर्श श्रद्धया पुनः ॥
पूजयामास विधिवत्पत्न्या सार्द्धं महीपतिः ॥ २५ ॥
ततस्तुष्टस्तदा देवो नृपं प्राहामितद्युतिः ॥
मनोऽभीष्टं तपस्तेस्तु भोगमैश्वर्यमेव च ॥ २६ ॥
कुलं प्रभावं सौभाग्यं दीर्घमायुररोगिताम् ॥
निःसपत्नं ततो राज्यं कृत्वा स्वर्गमवाप्स्यति ॥ २७ ॥
इत्युक्तो देवदेवेन् गतोऽसौ विषयं स्वकम् ॥
निष्कण्टकं ततो राज्यं कृत्वा स्वर्गं गतः प्रिये ॥ २८ ॥
अनेकजन्मचरितं खण्डव्रतकदम्बकम् ॥
सम्पूर्णमभवद्देवि लिङ्गस्यास्य प्रभावतः ॥ २९ ॥
अतः खण्डेश्वरो देवो विख्यातो भुवनत्रये ॥
ये पश्यन्ति नरा देवि देवं खण्डेश्वरं शिवम् ॥ 5.2.31.३० ॥
खण्डव्रतानि पूर्णानि तेषामाशु भवन्ति हि ॥
तपःखण्डं व्रते खण्डं दानखण्डं च यत्कृ तम्॥
तत्सर्वं पूर्णतां याति श्रीखण्डेश्वरदर्शनात् ॥ ३१ ॥
दृष्ट्वा खण्डेश्वरं देवं पापविघ्नैः प्रमुच्यते ॥
सप्तजन्मकृतैर्देवि मनोवाक्कायकर्मभिः ॥ ३२ ॥
दृष्ट्वा खण्डेश्वरं देवं कृतकृत्यत्वमाप्यते ॥
तस्य नश्यति दौर्भाग्यं सप्तजन्मोद्भवं प्रिये ॥ ३३ ॥
खण्डेश्वरेऽर्चिते देवे सर्वे देवाः सवासवाः॥
सन्तुष्टा वरदाश्चैव भवन्ति वरवर्णिनि ॥ ३४ ॥
देवं खण्डेश्वरं ये वै यजन्ति श्रद्धया प्रिये ॥
पुण्यैर्नानाविधैः स्नानैः सुगन्धैश्च विशेषतः ॥ ३५ ॥
धूप दीपैर्नमस्कारैर्जपैः स्तोत्रैः पृथग्विधैः ॥
ते सर्वे कामसम्पन्नाः श्रीमन्तो राज्यसंयुताः ॥ ३६ ॥
दीर्घायुषः शुभाचारा जायन्ते देहिनोऽमलाः ॥
अति श्रेष्ठा गतिस्तेषां विशोका नित्यमक्षयाः ॥
खण्डेश्वरप्रसादेन जायन्ते नात्र संशयः ॥ ३७ ॥
एते च विष्णुब्रह्मेन्द्रकुवेरदहनादयः ॥
परां सिद्धिं सुसम्प्राप्ताः खण्डेश्वरसमर्चनात् ॥ ३८ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
खण्डेश्वरस्य देवस्य शृणु वै पत्तनेश्वरम् ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये खण्डे श्वरमाहात्म्यवर्णनन्नामैकत्रिंशोऽध्यायः ॥ ॥ ३१ ॥