श्रीविश्वनाथ उवाच॥
त्रिंशत्तमं विजानीहि त्वं देवि च्यवनेश्वरम्॥
यस्य दर्शनमात्रेण स्वर्गभ्रंशो न जायते॥१॥
भृगोर्महर्षेः पुत्रश्च च्यवनो नाम पार्वति॥
स्थाणुभूतस्तपस्तेपे निराहारो महामुनिः ॥ २ ॥
वितस्तायास्तटे रम्ये बहुवर्षगणान्किल ॥
सवल्मीकोऽभवद्विप्रो लताभिरभिसंवृतः ॥ ३ ॥
कालेन महता देवि समाकीर्णः पिपीलकैः ॥
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः ॥ ४ ॥
आजगाम तमुद्देशं विहर्तुं वन उत्तमे ॥
शर्यातिर्नाम धर्मात्मा सकुटुम्बो मुदान्वितः ॥ ५ ॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ॥
एकैव तु सुता सुभ्रूः सुकन्यानाम नामतः ॥ ६ ॥
सा सखीभिः परिवृता सर्वाभरणभूषिता ॥
सा भ्रम्यमाणा वल्मीके दृष्ट्वा भार्गवचक्षुषी ॥ ७ ॥
सा कौतुकात्कण्टकेन बुद्धिमोहवती तदा ॥
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ ८ ॥
अभवत्स तया विद्धो नेत्रयोः परमार्तिमान् ॥
ततः शर्यातिसैन्यस्य शकृन्मूत्रं समारुणत् ॥ ९ ॥
ततो रुद्धे शकृन्मूत्रे पर्यतप्यत पार्थिवः ॥
प्रत्युवाच ततः क्रुद्धो राजा गद्गदया गिरा ॥ 5.2.30.१० ॥
केनापकृतमद्येह भार्गवस्य महात्मनः ॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ॥ ११ ॥
ज्ञातं वा यदि वाज्ञातं तदिदं ब्रूत मा चिरम् ॥
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ॥ १२ ॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ॥
पर्यपृच्छत्स्ववर्ग च भूयोभूयः सुदुःखितः ॥ १३ ॥
पितरं दुःखितं दृष्ट्वा सुकन्या तमथाब्रवीत् ॥
मया किञ्चिच्च वल्मीके दृष्टं सत्त्वमतिच्छवि ॥ १४ ॥
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकम् ॥
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं क्षिप्रमभ्यगात् ॥ १५ ॥
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥
प्रार्थयामास सैन्यार्थे प्राञ्जलिः स महीपतिः ॥ १६ ॥
अज्ञानाद्बालया यत्तेऽपकृतं तु महीसुर ॥
इमामेव च ते कन्यां ददामि सुदृढव्रताम् ॥ १७ ॥
भार्यार्थे त्वं गृहाणेमां प्रसीद द्विजसत्तम ॥
ततोब्रवीमहीपालं च्यवनो भार्गवस्तथा ॥ १८ ॥
यद्येवं प्रतिगृह्यैतां क्षमिष्यामि महीपते ॥
ददौ दुहितरं तस्मै च्यवनाय महीपतिः ॥ १९ ॥
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ॥
प्राप्ते प्रसादे राजाथ ससैन्यो विषयं गतः ॥ 5.2.30.२० ॥
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता ॥
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ २१ ॥
कस्यचित्त्वथ कालस्य नासत्यावश्विनौ प्रिये ॥
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ २२ ॥
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव ॥
ऊचतुः समुपद्रुत्य कस्य त्वमतिशोभने ॥ २३ ॥
सा प्रोवाच महाभागा पतिव्रतपरायणा ॥
शर्यातितनयां चैव भार्यां च च्यवनस्य हि॥ २४ ॥
ततोश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ॥
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ॥२५॥
त्वमपास्येह कल्याणि कामभोगबहिष्कृता ॥
वृद्धं च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥ २६ ॥
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥
एवमुक्ता सुकन्या तु दस्रौ ताविदमब्रवीत् ॥ २७ ॥
रताहं च्यवने देवे मैवं मा पर्यशङ्कतम् ॥
ततोऽब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ॥ २८ ॥
युवानं रूपसम्पन्नं करिष्यावः पतिं तव ॥
एतेन समयेनावामामन्त्रय सुमध्यमे ॥२७।
सा तयोर्वचनं श्रुत्वा कथयामास भार्गवे ॥
तच्छ्रुत्वा च्यवनो भार्यां क्रियतामित्यभा षत ॥ 5.2.30.३० ॥
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥
ततोऽप्सु च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ॥ ३१ ॥
अश्विनावपि तत्काले सरः प्राविशतां प्रिये ॥
ततो मुहूर्त्तादुत्तीर्णा सर्वे ते सरसस्तदा ॥ ३२ ॥
दिव्यरूपधराः सर्वे युवानो दिव्यकुण्डलाः ॥
तुल्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ॥ ॥ ३३ ॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभम् ॥
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥ ३४ ॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरा न्स्थितान् ॥
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥ ३५॥
लब्ध्वा तु च्यवनो भार्यां वयो रूपं तु वाञ्छितम् ॥
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ ३६ ॥
यदहं रूपसम्पन्नो वयसा च समन्वितः ॥
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥ ३७ ॥
तस्माद्युवां करि ष्यामि प्रीत्याहं सोमपायिनौ ॥
सत्यमेतन्न सन्देहो देवराजस्य पश्यतः ॥ ३८ ॥
तच्छ्रुत्वा हृष्टमनसौ दिवं देवौ प्रजग्मतुः ॥
याजयामास सोमार्हौ नासत्यावश्विनाविति ॥ ३९ ॥
भिषजौ देवतानां हि कर्मणा तेन गर्हितौ ॥
आभ्यामर्थाय सोमं त्वं प्रदास्यसि यदि स्वयम् ॥ 5.2.30.४० ॥
वज्रं ते प्रहरिष्यामि घोररूपं सुदारुणम् ॥
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः ॥
बलिनं वासवं ज्ञात्वा चिन्तयामास सत्वरम् ॥ ४१ ॥
देवमाराधयिष्यामि महादेवं महेश्वरम् ॥
यस्य कर्मकरः शक्रो यस्य देवा वशानुगाः ॥
यः समर्थो जगद्गोप्ता सृष्टिसंहारकारकः ॥ ४२ ॥
इत्युक्त्वा च्यवनो देवि महाकालवनं गतः ॥
रामेश्वरस्य देवस्य लिङ्गमीशानतः स्थितम् ॥
श्रद्धयाराधितं तेन च्यवनेन महात्मना ॥ ४३ ॥
तस्य प्रसन्नो रुद्रस्तु स वज्रादभयं ददौ ॥
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥ ४४ ॥
समाराधनतुष्टस्य लिङ्गस्यास्य प्रभावतः ॥
एतस्मिन्नन्तरे ज्वाला निःसृता लिङ्गमध्यतः ॥ ४६ ॥
तया देवगणाः सर्वे दह्यमाना विचेतसः ॥
प्रोचुर्गद्गदया वाचा धूमेनान्धीकृते क्षणाः ॥ ४६ ॥
क्रियेतां सोमपावेतावश्विनौ बलसूदन ॥
देवानां वचनं श्रुत्वा च्यवनं भयपीडितः ॥
प्रत्युवाच ततः शक्रः प्रणामानतकन्धरः ॥ ४७ ॥
सोमपावश्विनावेतावद्यप्रभृति भार्गव ॥
भविष्यतस्ततः सर्वमेतत्सत्यं ब्रवीमि ते ॥ ४८ ॥
मा तेऽतिथ्याभिसंरम्भो भविष्यति तपोधन ॥ ।
लिङ्गस्यास्य प्रभावोऽयं यदहं निष्प्रभीकृतः ॥ ४९ ॥
ततस्त्वन्नामधेयेन प्रसिद्धिर्भुवि यास्यति ॥
आराधितं यतो देवि च्यवनेन महात्मना ॥ 5.2.30.५० ॥
च्यवनेश्वरमेतद्वै ख्यातं त्रिभुवनेऽभवत् ॥
भक्ता ये पूजयिष्यन्ति देवेशं च्यवनेश्वरम् ॥
आजन्मप्रभवं पापं तेषां नश्यति तत्क्षणात् ॥ ५१ ॥
यः पश्यति नरो नित्यं च्यवनेश्वरसञ्ज्ञकम् ॥
जन्मदुःखजरारोगैर्मुक्तो मुक्तिमवाप्नुयात् ॥ ५२ ॥
यंयं काममभिध्यायेन्मनसाभिमतं नरः ॥
तन्तं दुर्लभमाप्नोति च्यवनेश्वरदर्शनात् ॥ ५३ ॥
नियमेन प्रपश्यन्ति ये देवं च्यवनेश्वरम् ॥
ते प्रयान्ति तनुं त्यक्त्वा मदीये भुवने प्रिये ॥ ५४ ॥
यः शृणोति कथां पुण्यां सर्वपापहरां शुभाम् ॥
स पुण्यात्मा परं स्थानं याति दिव्यं न संशयः ॥ ५५ ॥
भक्तिहीनः क्रियाहीनो यः पश्यति प्रसङ्गतः ॥
स पुण्यां गतिमाप्नोति योगिगम्यां यशस्विनि ॥ ५६ ॥
पुष्पैर्विचित्रैर्ये देवं यजन्ते च्यवनेश्वरम् ॥
संसारार्णवमुल्लङ्घ्य ते यान्ति परमं पदम् ॥ ५७ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
च्यवनेश्वरदेवस्य शृणु खण्डेश्वरं शिवे ॥ ५८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनन्नाम त्रिंशोऽध्यायः ॥ ३० ॥