०२९ रामेश्वरमाहात्म्यवर्णनम्

॥ श्रीहर उवाच ॥ ॥
एकोनत्रिंशतं विद्धि देवं रामेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण मुच्यते ब्रह्महत्यया ॥ १ ॥
पुरा त्रेतायुगे देवि रामः शस्त्रभृतां वरः ॥
शूरः सर्वगुणोपेतः पितृभक्तो बभूव ह ॥ २ ॥
रेणुकागर्भसम्भूतः स्वयं रामो बभूव ह ॥
विष्णुरेवावतीर्णोऽसौ भृगोः शापात्सुदुस्तरात् ॥ ३ ॥
स कदाचिन्नियुक्तोऽसौ मुनिना जमदग्निना ॥
शिरश्छिन्धीत्युवाचेदं मातुस्ते विपुलं सुत ॥ ४ ॥
स पितुर्वचनं श्रुत्वा भ्रातॄणां मातुरेव च ॥
शिरांसि चिच्छिदे रामो जमदग्निर्वरं ददौ ॥ ५ ॥
सर्वेषां पृथिवीशानां त्वमजेयो भविष्यसि ॥
सर्वक्षयकरो भावी न चिरादेव भार्गव ॥ ६ ॥
गृहाण परशुं पुत्र वह्निज्वालोद्भवं दृढम्॥
अनेन शितशस्त्रेण ततः ख्यातो भवि ष्यति ॥ ७ ॥
अथ केनापि कालेन कार्त्तवीर्यार्जुनो नृपः ॥
हैहयानां कुले जातः सहस्रबाहुविश्रुतः ॥ ८ ॥
जघान जमदग्निं तु कामधेनुकृते कुधीः ॥
पितरं निहतं दृष्ट्वा रामः कुद्धोऽब्रवीदिदम् ॥ ९ ॥
अथ पश्यन्तु मे वीर्यं त्रयो लोकाः सनातनम् ॥
स च पश्यतु दुर्बुद्धिर्ब्रह्महा कृतवीर्यजः ॥ १० ॥
मत्पिता निहतो येन सत्कर्मनिरतः सदा ॥
तस्य बाहुसहस्रं तु छेत्स्यामीह न संशयः ॥ ११ ॥
इत्युक्त्वा क्रोधरक्ताक्षः कार्त्तवी र्यार्जुनं भुवि ॥
धर्षयित्वा यथाकामं क्रोशमानं पुनःपुनः ॥ १२ ॥
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ॥
परश्वधेन तीक्ष्णेन ज्ञातिभिः सहितं तदा ॥ १३ ॥
रथस्थं पातयामास जघान नृपतिं प्रिये ॥
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ १४ ॥
कृत्वा निःक्षत्रियां चैव भार्गवः स महाबलः ॥
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ॥ १५ ॥
तस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः ॥
मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम् ॥ १६ ॥
वारुणांस्तुरगाञ्छुभ्रान्रथं च रथिनां वरः ॥
हिरण्यमक्षयं धेनूर्गजेन्द्राश्च महामतिः ॥ १७ ॥
तदा तस्मिन्महायज्ञे वाजिमेधे महायशाः ॥
तथापि न गता हत्या ह्यनेकप्राणिसम्भवा ॥ १८ ॥
एवं किल पुराणेषु सर्वागमभिदादिषु ॥
विश्वस्तघातिनां चैव निष्कृतिः श्रूयते यथा ॥ १९ ॥
अश्वमेधेन यज्ञेन ब्रह्महत्या विनश्यति ॥
अथवा द्वादशाब्देन यद्येकाऽऽस्या कृता भुवि ॥ २० ॥
मया पुनर्नृशंसेन बहवः प्राणिनो हताः ॥
विश्वस्ताश्च प्रमत्ताश्च गर्भस्थाश्च पुनःपुनः ॥ २१ ॥
स्त्रियो वृद्धाश्च बालाश्च माता चैव विशेषतः ॥
इति दुःखान्वितो रामो विषादं परमं गतः ॥ २२ ॥
चिन्तयित्वा मुहूर्तं तु गतो रैवतकं गिरिम् ॥
तथा तपो ऽतपद्धोरं बहून्वर्षगणान्प्रिये ॥ २३ ॥
तथापि न गता हत्या ह्यनेकप्राणिसम्भवा ॥
अथ रामो जगामाथ महेन्द्रे मलये तथा ॥ २४ ॥
सह्ये हिमालये रम्ये पुण्ये बदरिकाश्रमे ॥
चरित्वा पर्वतान्सर्वान्स्नानार्थं नर्मदां ययौ ॥ २५ ॥
यमुनां चन्द्रभागां च गङ्गां त्रिपथगामिनीम् ॥
इरावतीं वितस्तां च परां चर्मण्वतीं शुभाम् ॥ २६ ॥
विशालां कपिलां दुर्गां गम्भीरां गोमतीं शिवाम् ॥
गोदावरीं दशार्णां च पुण्यां भीमरथीं तथा ॥ २७ ॥
गयां चैव कुरुक्षेत्रं नैमिषं पुष्करं तथा ॥
अट्टहासं प्रभासं च केदारममरेश्वरम् ॥ २८ ॥
कृतयात्रोऽपि दुःखार्त्तश्चिन्तयामास भार्गवः ॥
न नूनं तीर्थमाहात्म्यं दृश्यते भुवि साम्प्रतम् ॥ २९ ॥
न गता ब्रह्महत्या मे कृतो धर्मो निरर्थकः ॥
मिथ्या तत्कथ्यते शास्त्रे तीर्थदानादिभिः शुभैः ॥
यदि स्यात्सत्यमेतच्च नष्टं जातं कथं मम ॥ 5.2.29.३० ॥
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः ॥
आजगाम तमुद्देशं यत्र रामो व्यवस्थितः ॥ ॥ ३१ ॥
विषण्णवदनो दीनश्चिन्तयानः पुनःपुनः ॥
दृष्ट्वा तथाविधो रामः प्रत्युवाचाथ नारदम् ॥ ३२ ॥
भोभो नारद देवर्षे शृणु मे परमं वचः ॥
जननी निहता पूर्वं पितुर्वाक्याहिजोत्तम ॥ ३३ ॥
पितुः पराभवाद्भूमौ भृमिपाला मया हताः ॥
गर्भा विदारिताः स्त्रीणां बाला वृद्धाश्च योषितः॥ ३४ ॥
निरन्तरा हता लोका विशोकेनादयालुना ॥
पश्चाद्धृणा समुत्पन्ना परलोकं ममेक्षतः ॥ ३५ ॥
यज्ञः कृतोऽश्वमेधश्च दत्तं दानमनेकधा॥
स्नातोहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च॥३६॥
पर्वतेषु तपस्तप्तं हुतं जप्तं निरन्तरम्॥
ब्रह्महत्याविनाशार्थम्ं किं किं नात्र मया कृतम् ॥३७॥
परं नैव गता हत्या तस्मात्सर्वं निरर्थकम् ॥ ३८ ॥
इति तस्य वचः श्रुत्वा नारदो भगवानृषिः ॥
प्रत्युवाच हितं सत्यं चिरं ध्यात्वा वचस्तदा ॥
भोभो राम किमात्मानं न स्मरस्यधुना हरिम् ॥ ३९ ॥
त्वयैव कथितं पूर्वं ब्रह्महत्याविनाशनम् ॥
महाकालवने क्षेत्रे क्षेत्राणामुत्तमं परम् ॥
तस्मिन्क्षेत्रे महालिङ्गं ब्रह्महत्याविनाशनम् ॥ 5.2.29.४० ॥
जटेश्वरो महाभाग विद्यते सर्वसिद्धिदम् ॥
कृतावतार राम त्वं तत्र गच्छाविलम्बितम ॥
नारदस्य वचः श्रुत्वा स्मृत्वा क्षेत्रमनुत्तमम् ॥ ४१ ॥
जगाम त्वरितं देवि महाकालवने ततः ॥
लिङ्गमाराधयामास ततो हत्या गता क्षयम् ॥
लिङ्गमध्यादहं देवि प्रसन्नो निर्गतस्तदा ॥ ४२ ॥
जामदग्न्यो मया प्रोक्तः कान्तकामं ददाम्यहम् ॥
स प्रोवाच ततो रामो भक्तिनम्रात्मकन्धरः ॥ ॥ ४३ ॥
त्वत्पादपङ्कजे भूयाद्भक्तिर्मे विपुला सदा ॥
वरमेतं प्रयच्छाद्य यदि तुष्टो महेश्वर ॥ ४४ ॥
इत्युक्तोऽहं तदा तेन यथा तुष्टेन पार्वति ॥
तस्मै दत्ता मयाभीष्टा वरा कीर्त्तिकरा स्थितिः ॥ ४५ ॥
अद्यप्रभृति ते नाम्ना देवः ख्यातो भविष्यति ॥
तदा रामेश्वर इति त्रिषु लोकेषु गीयते ॥ ४६ ॥
भक्त्या ये पूजयिष्यन्ति देवं रामेश्वरं परम् ॥
आजन्मप्रभवं पापं तेषां नश्यति तत्क्षणात् ॥ ४७ ॥
स एव पुण्यवान्पूज्य इह लोके परत्र च ॥
यः पश्यति नरो भक्त्या देवं रामेश्वरं शिवम् ॥ ४८ ॥
येऽनुमोदन्ति देवस्य दर्शनं यजनं तथा ॥
तेऽपि पापविनिर्मुक्ताः प्रयान्ति मम मन्दिरम् ॥ ॥ ४९ ॥
यच्चापि पातकं घोरं ब्रह्महत्यासहस्रकम् ॥
तत्पापं विलयं याति रामेश्वरसमर्चनात्॥ 5.2.29.५० ॥
दुष्प्राप्यं यत्फलं विप्रैर्वाजपेयादिभिर्मखैः ॥
प्राप्यते तत्सुखेनैव श्रीरामेश्वरदर्शनात् ॥ ५१ ॥
ये हताभिमुखाः शूरा गोविप्रार्थे रणाजिरे॥
गतिरभ्यधिका तेभ्यो दृष्ट्वा रामेश्वरं शिवम् ॥ ॥ ५२ ॥
जितास्तेन सदा लोका रामेणेव जगत्त्रयम् ॥
दृष्टं येन सदा भक्त्या लिङ्गं रामेश्वरं शिवम् ॥ ५३ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
रामेश्वरस्य देवस्य शृणु त्वं च्यवनेश्वरम् ॥ ५४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डे चतुरशीतिलिङ्गमाहात्म्ये रामेश्वरमाहात्म्यवर्णनं नामैकोनत्रिंशोध्यायः॥ २९॥