०२८ जटेश्वरमाहात्म्यवर्णनम्

॥ श्रीदेवदेव उवाच ॥ ॥
अष्टाविंशतिकं विद्धि विख्यातं च जटेश्वरम् ॥
यस्य दर्शनमात्रेण मुक्तो भवति मानवः ॥. १ ॥
पुरा राथन्तरे कल्पे वीरधन्वा महीपतिः ॥
धर्मात्मा च यशस्वी च बभूव भुवि विश्रुतः ॥ २ ॥
स कदाचिद्वनं गत्वा मृगहेतोर्वरानने ॥
व्यापादयन्मृगगणान्धनुषा क्रोधविह्वलः ॥ ३ ॥
जगाम तत्र यत्रासन्भ्रातरः पञ्च सुव्रताः ॥
संवर्तस्य सुता देवि मृगरूपेण संस्थिताः ॥ ४ ॥
ते कदाचिद्वने पञ्च दृष्ट्वा हरिणपोतकान् ॥
श्वसतो जातमात्रांश्च कौतूहलसमन्विताः ॥ ५ ॥
एकैकं जगृहुस्तत्र मृतास्ते त्वतिदुःखिताः ॥
ततः सर्वे च ते पञ्च ययुर्वै पितुरन्तिकम् ॥ ६ ॥
प्रायश्चित्तं समीहन्तः संवर्त्तं सांसदैर्वृतम् ॥
ऊचुस्ते वचनं चेदं मृगहिंसाश्रितं तदा ॥ ७ ॥
जातमात्रा मृगाः पञ्च अस्माभिर्निहताः प्रभो ॥
अकामतस्ततोऽस्माकं प्रायश्चित्तं विधीयताम् ॥ ८ ॥
ऊचे स शुद्धिमाप्नोति प्रायश्चित्ते कृते सति ॥
अनधीत्य धर्मशास्त्रं प्रायश्चित्तं ददाति यः ॥
प्रायश्चित्ती भवेत्पूतः किल्विषं दातरि व्रजेत् ॥ ९ ॥
धर्म शास्त्रसमारूढा वेदखड्गधरा द्विजाः ॥
क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ॥ 5.2.28.१० ॥
ब्रह्मच्छिद्रं जपच्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥
अच्छिद्रं जायते सर्वं ब्राह्मणैरुपपादितम् ॥ ११ ॥
अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ॥
प्रणश्यत्यखिलं पापमग्निष्टोमफलं भवेत् ॥ १२ ॥
इत्येवं वदति श्रेष्ठे संवर्ते द्विजसत्तमे ॥
समागताश्च मुनयो भृग्वत्र्यङ्गिरसादयः ॥ १३ ॥
तेषामर्थे यथावृत्तं कथयामासुरेव ते ॥
संवर्तस्य सुता दीना भक्तिनम्राः पुनःपुनः ॥ १४ ॥
तेऽप्यूचुर्धर्मशास्त्राणि विहितानि यथार्थतः ॥
प्रायश्चित्तं यथोद्दिष्टं देशकालविभागतः ॥ १९ ॥
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ॥
प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो वै व्याधितस्य च ॥ १६ ॥
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ॥
प्रायश्चित्तं प्रकल्प्यं स्यादिति धर्मो व्यवस्थितः ॥ १७ ॥
इदानीं मृगचर्माणि परिधाय धृतव्रताः ॥
चरध्वं पञ्च वर्षाणि ततः शुद्धा भविष्यथ ॥। ॥१८॥
एवमुक्तास्तु ते बाला मृगधर्मोपजीविनः॥
वनं विविशुरव्यग्रा ध्यायन्तो ब्रह्म शाश्वतम्॥१९॥
ततो वर्षे ह्यतिक्रान्ते वीरधन्वा महीपतिः ॥
तत्राजगाम यस्मिंस्ते चरन्ति मृगरूपिणः ॥ 5.2.28.२० ॥
ते चाप्येकतरोर्मूले मृगधर्मोपजीविनः ॥
जपन्तः संस्थितास्ते हि राज्ञा दृष्टा मृगा इति ॥ २१ ॥
मत्वा विद्धास्तु नाःराचैर्मृतास्ते ब्रह्मवादिनः ॥
तान्दृष्ट्वा च मृतान्राजा ब्राह्मणान्संशितव्रतान् ॥
भयेन वेपमानस्तु देवराताश्रमं ययौ ॥ ०२ ॥
तत्रापृच्छद्ब्रह्मवध्या मम जाता महामुने ॥
आमूलान्तं वधान्तस्य कथयित्वा नराधिपः ॥ २३ ॥
भृशं शोकपरीतात्मा रुरोद भृशदुःखितः ॥
स ऋषिर्देवकल्पस्तु रुदन्तं नृपसत्तमम् ॥ २४ ॥
उवाच मा भैर्नृपते अपनेष्यामि पातकम् ॥
पाताले सुतलाख्ये तु निमज्जन्ती यथा धरा ॥ २५ ॥
उद्धृता देवदेवेन विष्णुना क्रोडमूर्त्तिना ॥
तद्वद्भवन्तं राजेन्द्र ब्रह्महत्यापरिप्लुतम् ॥
उद्धरिष्यति देवोऽसौ स्वयमेव जनार्दनः ॥ २६ ॥
एवमुक्तस्ततो राजा दुरितो वाक्यमब्रवीत ॥ २७ ॥
किमनेन द्विजेनैव निष्प्रभेण दुरात्मना ॥
उद्धर्तुं नैव शक्नोति स्वयमेव द्विजाधमः ॥ २८ ॥
इत्युक्त्वा ‘? खङ्गेनैव जघान तम् ॥
मृतं दृष्ट्वा द्विजं राजा क्रोधेन कलुषीकृतः ॥ २९ ॥
तस्मिन्नेव वने देवि पापसङ्घेन मोहितः ॥
जघान कपिलां दोग्ध्रीं सवत्सां गालवस्य च ॥ 5.2.28.३० ॥
क्षुधार्त्तश्च तृषार्त्तश्च बाल्यान्मोहाच्च साहसात् ॥
क्रूरा बुद्धिः समभवज्जटीभूतं च पातकम् ॥ ३१ ॥
जटीभूतेन पापेन बभ्राम गहने वने ॥
स कदाचित्तुरङ्गेण हृतो दूरं महद्वनम् ॥ ३२ ॥
व्याघ्रसिंहगजाकीर्णं मृगशम्बरसेवितम् ॥
एकाकी तत्र राजासावश्वं मुक्त्वा तरोरधः ॥ ३३ ॥
कुशोपरि तदा तत्र सुष्वाप च स निर्भयम् ॥
तत्र व्याधाः समचरन्दृष्ट्वा सुप्तं च निर्भयम् ॥ ॥ २४ ॥
ते गतास्त्वरिता व्याधाः स्वभर्तुः कथनाय वै ॥
स्वामिना तेन निर्दिष्टा निग्रहीतुं प्रचक्रमुः ॥ ३५ ॥
तावद्राज्ञः शरीरात्तु श्वेताऽऽभरणभूषिता ॥
उत्थाय चक्रमादाय तया म्लेच्छाश्च पातिताः ॥ ३६ ॥
दस्यून्निहत्य सा देवी तत्रैवादर्शनं गता ॥ ३७ ॥
अथ राजा तया मुक्तः प्रतिबुद्धोऽथ तत्क्षणात् ॥
म्लेच्छांश्च निहतान्दृष्ट्वा चिन्तयामास पार्थिवः ॥ ३८ ॥
गोवध्या ब्रह्मवध्या च वने ह्यस्मिन्सुदारुणा ॥
कथं मया नृशंसेन प्राप्ता पापपरम्परा ॥ ३९ ॥
एवं स चिन्तयित्वाथ निःश्वस्य च पुनःपुनः ॥
तमेवाश्वं समारुह्य वामदेवाश्रमं ययौ ॥ 5.2.28.४० ॥
मुनिना वामदेवेन दृष्टो राजा तथाविधः ॥
जटीभूतेन पापेन पीडितो दुःखितस्तदा ॥ ४१ ॥
॥ वामदेव उवाच ॥ ॥
अयं स पुरुषव्याघ्रो वीरधन्वा महीपतिः ॥
सोमवंशसमुत्पन्नो दशां कष्टां समागतः ॥ ४२ ॥
उद्धरिष्यामि राजानमेनं पुरुषसत्तमम्॥
इत्यालोच्य तदा विप्रो वामदेवो महातपाः ॥
प्रत्युवाच महीपालं वीरधन्वानमातुरम् ॥ ४३ ॥
भोभो राजन्महीपाल वीरधन्वेति विश्रुतः ॥
विदूरथस्य तनयो विख्यातो भुवनत्रये ॥ ४४ ॥
प्राग्भवे व्याधरूपेण निहिथा विपिने मृगान् ॥
दृढं जागरणं रात्रावामलक्यास्तरोरधः ॥ ४५ ॥
फाल्गुनामलपक्षे त्वामलक्येकादशी शुभा ॥
पुष्यर्क्षयोगिनी तस्यां जामदग्न्यप्रदक्षिणा ॥ ४६ ॥
पूजा लोकैः कृता दृष्टा विस्मयेन त्वया पुरा ॥
अकामादुपवासोऽभूत्तस्यां जागरणं पुनः ॥ ४७ ॥
तत्प्रभावादभू राजा महाबलपराक्रमः ॥
तया संरक्षितो राजन्म्लेच्छवर्गाद्वनेऽधुना ॥ ४८ ॥
निहताः शत्रवः सर्वे तयैव शुभमाप्स्यसि ॥
पूर्वकर्मविपाकेन ब्रह्महत्या समागता ॥ ४९ ॥
ज्ञाता तपःप्रभावेन मया योगबलेन च ॥
जटीभूतं शरीरं ते पापसङ्घेन पार्थिव ॥ 5.2.28.५० ॥
इदानीं पालयिष्यामि शृणु मे वचनं परम् ॥ ५१ ॥
इत्युक्तो वामदेवेन् मुनिना स महीपतिः ॥
प्रणम्य प्रयतो भूत्वा पप्रच्छ च पुनःपुनः ॥५२॥
कथं यास्यन्ति मे हत्या गोब्राह्मणसमुद्भवाः ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥५३॥
तस्य तद्वचनं श्रुत्वा वाम देवो महामुनिः ॥
कथयामास माहात्म्यं लिङ्गस्यास्य यशस्विनि ॥ ५४ ॥
महाकालवनं गच्छ महाराज ममाज्ञया ॥
तत्रास्ते देवदेवोऽपि जगद्व्यापी जटेश्वरः ॥ ५५ ॥
पापसङ्घप्रहर्त्ता च सर्ववेदेषु पठ्यते ॥
देवस्यानरकेशस्य उत्तरे स व्यवस्थितः ॥५६॥
तस्य तद्वचनं श्रुत्वा वामदेवस्य पार्थिवः ॥
आजगाम त्वरायुक्तो महाकालवनोत्तमे ॥५७॥
तत्र दृष्ट्वा जगद्वन्द्यं देवदेवं जटेश्वरम् ॥
स्तुतिं चकार राजेन्द्रो भक्त्या परमया पुनः ॥५८॥
शिवाय ते नमो नित्यं विश्वकाय नमोनमः ॥
नमो दिव्याय गुह्याय गूढव्रतशरीरिणे ॥५९॥
नमो जटाय रामाय माययाक्रान्तकारिणे ॥
नमोस्तु बहुरूपाय नमो नीलाभरूपिणे ॥ 5.2.28.६० ॥
नमो भोगाय धूम्राय नमोऽस्तु गगनात्मने ॥
नमो वह्निसमूहाय नमस्ते निर्मलाकर ॥ ६१ ॥
नमो महान्धकारार्क नमस्ते शत्रुघातिने ॥
नमः संसारपाराय दिव्यरूपशरीरिणे ॥
नमः कनकवर्णाय नमो मोहितमोहिने ॥ ६२ ॥
नमः सुरूपाय सुरार्चिताय नमो विरूपाय प्रकृतेः पराय ॥
नमोनमो रूपनिराश्रयाय श्यामासुरूपाय नमोनमस्ते ॥ ६३ ॥
इति स्तुतस्तदा देवि महादेवो महेश्वरः ॥
जटावेष्टितसर्वाङ्गो लिङ्गमध्याच्च निस्सृतः ॥ ६४ ॥
भस्मचर्चितसर्वाङ्गो भोगिभोगाङ्गदोज्वलः ॥
हिमराशिनिभाकारो राजताचलनिर्मलः ॥ ६५ ॥
मुक्तालतानिभाभिस्तु जटाभिर्भूषितो विभुः ॥
कपिलाभिः करालाभिर्विकटाभिश्च वेष्टितः ॥ ६६ ॥
भोगीन्द्रफणबद्धाभिः सितपीतादिभिस्तथा ॥
नदीरूपाभिरूताभिः शोभितोऽसौ जटेश्वरः ॥ ६७ ॥
राजानं प्रत्युवाचेदं वचनं पर्वतात्मजे ॥
स्तोत्रेणानेन राजेन्द्र तुष्टोऽहं तोषितस्त्वया ॥ ॥ ६८ ॥
जटीभूतं च ते पापं गतं मद्दर्शनेन वै ॥
तस्मात्स्थानं परं गच्छ मदीयं शाश्वतं मुदा ॥ ६९ ॥
इत्युक्तो देवदेवेन वीरधन्वा महीपतिः ॥
जगाम परमं स्थानं दाहप्रलयवर्जितम् ॥ 5.2.28.७० ॥
कामगेन विमानेन स्तूयमानो गणैः प्रिये ॥
पापसङ्घेन मुक्तोऽसौ जटीभूतेशदर्शनात् ॥ ७१ ॥
लिङ्गश्चातः समाख्यातो नाम्ना देवो जटेश्वरः ॥
जटेश्वरं वरारोहे ये पश्यन्ति सुभक्तितः ॥
तेषां पापं जटीभूतं तत्क्षणादेव नश्यति ॥ ७२ ॥
येऽर्चयन्ति सदा देवि देवदेवं जटेश्वरम् ॥
तेषां बलं प्रभावश्च सौभाग्यं च भविष्यति ॥ ७३ ॥
येप्यन्ये देवगन्धर्वा यक्षराक्षस मानवाः ॥
लिङ्गं च पूजयिष्यन्तिं विधिवद्भक्तिभावतः ॥ ७४ ॥
तेऽपि कामानवाप्स्यन्ति यांश्च कांश्च सुदुर्लभान् ॥
ऐश्वर्यं धर्ममतुलं दीर्घमायुररो गताम् ॥ ७५ ॥
निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् ॥
पापिनः क्रूरकर्माणो येऽपि लिङ्गं समाश्रिताः ॥
तेपि पापविनिर्मुक्ता भविष्यन्ति गत ज्वराः ॥ ७६ ॥
जटेश्वरं प्रपश्यन्ति भक्त्या ये च दिनेदिने ॥
ते धर्मधनसौभाग्यैर्भविष्यन्ति समन्विताः ॥ ७७ ॥
व्याधितो व्याधिना मुक्तो दुःखी दुःखात्प्रमुच्यते ॥
दर्शनात्तु भवेत्सद्यः सर्वपातकवर्जितः ॥ ७८ ॥
जटेश्वरस्य माहात्म्यं ये पठिष्यन्ति पार्वति ॥
श्रोष्यन्ति येऽपि मद्भक्त्या प्रयताः श्रद्धयान्विताः ॥ ७९ ॥
ते सर्वकामानाप्स्यन्ति गतिमन्ते च मत्पुरे ॥
या नारी दुर्भगा सापि सौभाग्यं लभते सदा ॥ 5.2.28.८० ॥
गुर्विणी लभते पुत्रमरोगं श्रुतिभूषणम् ॥
शिशुग्रहाश्च नश्यन्ति नापमृत्युभयं भवेत् ॥ ८१ ॥
माङ्गल्यमिदमायुष्यं धर्मकामाश्रयं महत् ॥
दुःस्वप्नजं भयं घोरं पापजं याति सङ्क्षयम् ॥ ८२ ॥
दुर्भुक्तं दुर्जनस्पर्शं यच्चाल्पायुःकरं भवेत् ॥
लिङ्गाख्यानकथां श्रुत्वा विनश्यति न संशयः ॥ ८३ ॥
श्राद्धेषु यः पठेदेतां जटेश्वरकथां शुभाम् ॥
तदक्षयं भवेच्छ्राद्धं पितॄणां प्रीतिवर्द्धनम् ॥ ८४ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
जटेश्वरस्य देवस्य शृणु रामेश्वरं शिवम् ॥ ८५ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जटेश्वरमाहात्म्यवर्णनन्नामाष्टाविंशोऽध्यायः ॥ २८ ॥