॥ श्रीमहादेव उवाच ॥ ॥
सप्तविंशतिमं देव्यनरकेश्वरसञ्ज्ञकम् ॥
यस्य दर्शनमात्रेण स्वप्नेपि नरकः कुतः ॥ १ ॥
पुरा कलियुगे देवि कल्पे वाराहसञ्ज्ञके ॥
कलुषं कालमासाद्य सत्ये च प्रलयं गते ॥ २ ॥
निर्मर्यादा निराधारा निरौका नास्तिका जनाः ॥
वर्णाश्रमाश्च सञ्जाता वञ्चयन्ति परस्परम् ॥ ३ ॥
नार्चयन्ति सुरान्विप्राः कर्म कुर्वन्ति कुत्सितम् ॥
लोभमोहपरा भूत्वा कामासक्ताश्च मानवाः ॥ ४ ॥
वैरबद्धाश्च सञ्जाताः परस्परवधे रताः ॥
निवृत्तयज्ञस्वाध्यायपिण्डोदकविवर्जिताः ॥ ५ ॥
ब्राह्मणाः सर्वभक्ष्याश्च मृषावादपरायणाः ॥
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते तदा ॥ ६ ॥
दृश्यन्ते षोडशे वर्षे नराः पलितिनः प्रिये ॥
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥ ७ ॥
एवंविधाः समुद्भूता नरा नार्यश्च पातकैः ॥
नरकेषु प्रपद्यन्ते क्रमात्पापानुसारतः ॥ ८ ॥
कुठारैर्भिन्नमूर्द्धानः क्रकचैः पाटिताः परे ॥
अग्निवर्णैश्च सन्दंशैरुत्पाटितविलोचनाः ॥ ९ ॥
भिन्नाश्चायोमयैस्तीक्ष्णैरग्नितप्तैश्च कीलकैः ॥
पीड्यन्ते शैलशिखरैश्चूर्ण्यन्ते क्रूरभूधरैः ॥ 5.2.27.१० ॥
क्षिप्यन्ते तप्तकुण्डेषु दह्यन्ते वह्निराशिषु ॥
अमेध्येऽधोमुखाश्चान्ये मर्द्दिता दण्डपाणिना ॥ ११ ॥
लौहैश्च शृङ्खलैर्बद्धा ह्यधोवक्त्रैश्च लम्बितैः ॥
अन्तरिक्षे परिक्षेपात्क्रन्दन्तोऽतीव दुःखिताः ॥१२॥
कृमिभिर्भ्रमरैस्तीक्ष्णैर्दंशैश्च मशकैस्तथा ॥
लोहतुण्डैश्च विहगैर्निर्दयैर्भक्षिता नराः॥१३॥
केचित्कृत्ताः प्रधावन्ति तोयार्थं च तृषातुराः ॥
स्वमूत्रं पायिताश्चण्डैः क्षुभिताश्चापि घातनैः ॥ १४ ॥
यैश्चाङ्गैः पतितं कर्म क्रियते पुरुषैर्भुवि ॥
तेषां तान्येव चाङ्गानि शोध्यन्ते यातनागतैः ॥ १५ ॥
ये पश्यन्ति गुरुं देवान्ब्राह्मणान्क्रुद्धचक्षुषा ॥
दुष्टेन परदारांश्च वीक्षन्ते लोचनेन ये ॥
तेषां नेत्राणि भिद्यन्ते कृष्यन्ते लोहशङ्कुभिः ॥ १६ ॥
श्रवणौ च प्रपूर्यन्ते लौहेन शङ्कुना ततः ॥
पुनश्च शस्त्रैः कृष्यन्ते पुनस्तप्तैश्च कीलकैः ॥ १७ ॥
लौहैर्वेगान्निखन्यन्ते यैः श्रुतं गुरुनिन्दनम् ॥
मित्राणां देवतानां च साध्वीनामथवा क्वचित् ॥ १८ ॥
शतशः पाट्यते जिह्वा वह्निवर्णैरयोमुखैः ॥
शङ्कुभि स्तीक्ष्णसूक्ष्माग्रैः पूर्यन्ते चानिलैः पुनः ॥ १९ ॥
तद्वक्त्राणि बहून्वारान्येपवादरता नराः ॥
ये गुरुं मातरं वापि पारुष्येण वदन्ति वै ॥ 5.2.27.२० ॥
ये निघ्नन्ति दुराचाराः सुरार्थायोपकल्पिते ॥
आरामे पुष्पपत्राणि तेषामङ्गानि कृन्तति ॥ २१ ॥
यैरप्यालिङ्गिता नारी परस्य च दुरात्मभिः ॥
तेषामयोमयी नारी वह्निवर्णा तु वक्षसि ॥ २२ ॥
स्थाप्यते वध्यते चापि प्रचण्डैर्यमकिङ्करैः ॥
नार्यश्च पुरुषैस्तप्तैरालिङ्ग्यन्ते ह्ययोमयैः ॥ २३ ॥
तदा लोहमये गेहे ज्वलितानलसंस्तरे ॥
निक्षिप्यन्ते नरैः सार्द्धमासाद्य कालसङ्क्षयम् ॥ २४ ॥
यावती वेदना देहे इह लोके प्रदृश्यते ॥
नराणामङ्गपीडा वै तस्माच्छतगुणा भवेत् ॥ २५ ॥
काकैश्च वृश्चिकैर्गृध्रैर्भक्ष्यन्तेऽप्यपरे नराः ॥
दह्यमाना विलपन्ति भ्रातस्तातेति चाकुलाः ॥
वदन्त्यसकृदुद्विग्ना न च शान्तिं लभन्ति वै ॥ २६ ॥
दुःखानि ते प्राप्नुवन्ति यान्यसह्यानि पार्वति ॥
एवं ते यातनादुःखं प्राप्नुवन्ति सुनिश्चितम् ॥
निमिर्नाम महाभागो यममार्गं ददर्श ह ॥ २७ ॥
रौद्रं भयानकं दुर्गं पूरितं पापकर्मभिः ॥
तमसा संवृतं चैव केशशैवालशाद्वलम् ॥ २८ ॥
सम्पृक्तं पापकृद्गन्धैर्मांसशोणितकर्द्दमैः ॥
वह्निज्वालेन दीप्तेन समन्तात्परिवारितम् ॥ २९ ॥
अधोमुखैश्च कर्कोटैर्गृध्रैश्च समभिद्रुतम् ॥
सूचीमुखैस्तथा प्रेतैविन्ध्यशैलोपमैर्वृतम् ॥ ॥ 5.2.27.३० ॥
वृक्षै रुधिरमांसैश्च छिन्नबाहूरुपाणिभिः ॥
निकृत्तोदरहस्तैश्च तत्रतत्र प्रचारितैः ॥ ३१ ॥
वृतं कुणपदुर्गन्धैरशिवं भोगवर्जितम् ॥
असिपत्र वनं चैव समन्तात्परिवारितम् ॥ ३२ ॥
करम्भवालुकाकीर्णमायसीश्च शिलाः पृथक् ॥
ददर्श चापि देहोत्थयातनां पापकर्मणाम् ॥ ३३ ॥
स तं दुर्गन्धमालक्ष्य पुरुषं तमुवाच ह ॥
कियदध्वानमस्माभिर्गन्तव्यमिदमब्रवीत् ॥ ३४ ॥
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥
इत्युक्तो यमदूतस्तु दण्डहस्तोऽग्निसप्रभः ॥
पुरतो दर्शयन्मार्गमित एहीत्युवाच ह ॥ ३५ ॥
भूयः स राजा तं प्राह किङ्करं विनयान्वितः ॥
भो याम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतम् ॥ ३६ ॥
येनेदं व्यसनं प्राप्तं मया च धार्मिकेण हि ॥
निमिर्नामाहं विख्यातो जनकानामहं कुले ॥ ३७ ॥
जातो विदेहविषये सम्यग्मनुजपालकः ॥
चातुर्वर्ण्यं च धर्मस्थं कृत्वा संरक्षितं मया ॥ ३८ ॥
धर्मप्रधानकल्पेन मनुनात्र यथा पुरा ॥
यज्ञैर्मयेष्टं बहुभिर्धर्मतः पालिता मही ॥ ३९ ॥
नोत्सृष्टश्चैव सङ्ग्रामो नातिथिर्विमुखोऽभवत् ॥
कृता स्पृहा च न मया परस्त्रीविभवादिषु ॥ 5.2.27.४० ॥
सोऽहं कथमिमं प्राप्तो नरकं भृशदारुणम् ॥
इति पृष्टस्तदा तेन निमिना यमकिङ्करः ॥
उवाच प्रणतो भूत्वा क्रूरोऽपि प्रश्रितं वचः ॥ ४१ ॥
॥ पुरुष उवाच ॥ ॥
महाराज यथात्थ त्वं तथैतन्नात्र संशयः ॥
किन्तु स्वल्पं कृतं पापं भवन्तं स्मारयामि तत् ॥ ४२ ॥
उक्ता या दक्षिणा श्राद्धे न दत्ता सा त्वया नृप ॥
प्रमादाद्विस्मृता चैव तस्येदं कर्मणः फलम् ॥ ४३ ॥
एतावदेव ते पापं नान्य त्किञ्चन विद्यते ॥
वैदेहागच्छ पुण्यानामुपभोगाय पार्थिव ॥ ४४ ॥
एवं श्रुत्वा तु राजर्षिर्निमिर्दूतमथाब्रवीत् ॥
यास्यामि देवानुचर यत्र मां त्वं हि नेष्यसि ॥ ४५ ॥
किञ्चित्पृच्छामि ते तत्त्वं यथावद्वक्तुमर्हसि ॥
वज्रतुण्डास्त्वमी काकाः पुंसां नयनहारिणः ॥ ४६ ॥
पुनः पुनश्च नेत्राणि तद्वत्तेषां भवन्ति हि ॥
किं कृतं कर्म दूतेन्द्र कथयैतज्जुगुप्सितम् ॥ ४७ ॥
हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम् ॥
करपत्रेण पाट्यन्ते कस्मादेते सुदुःखिताः ॥ ४८ ॥
किमेते नष्टचित्ताश्च तुद्यन्तेऽहर्निशं नराः ॥
एताश्चान्याश्च दृश्यन्ते यातनाः पापकर्मिणाम् ॥
कियत्कालं भविष्यन्ति तन्ममोद्दे शतो वद ॥ ४९ ॥
॥ पुरुष उवाच ॥ ॥
यन्मां पृच्छसि भूपाल पापकर्मफलोदयम् ॥
तत्तेहं सम्प्रवक्ष्यामि सङ्क्षेपेण यथातथम् ॥ 5.2.27.५० ॥
पुण्या पुण्ये हि पुरुषः पर्यायेण समश्नुते ॥
भुञ्जतश्च क्षयं याति पुण्यं पापमथापि वा ॥ ५१ ॥
न तु भोगादृते पुण्यं पापं कर्म च मानवः ॥
परित्यजति राजेन्द्र सत्यमेतदुदाहृतम् ॥ ५२ ॥
एवमेते महापापा यातनाभिरहर्निशम् ॥
क्षपयन्ति महाघोरं नरकान्तरवर्त्तिनः ॥ ५३ ॥
देवत्वेऽथ मनुष्यत्वे तिर्यक्त्वेऽथ शुभाशुभम् ॥
पुण्यपापोद्भवं भुङ्क्ते सुखदुःखं न संशयः ॥ ५४ ॥
एतदुद्देशतो राजन्भवता कथितं मया ॥
स्वकर्मफलमोक्षाणां पुण्यानां पापिनां तथा ॥ ५५ ॥
तदेह्यन्यत्र गच्छावि यथा दृष्टं त्वयाधुना ॥
ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः ॥ ५६ ॥
तदा हि सर्वैरुद्घुष्टं यातना स्थायिभिर्नृभिः ॥
प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्त्तकम् ॥
त्वदङ्गसङ्गी पवनो देहान्ह्लादयते हि नः ॥ ५७ ॥
परितापं च गात्रेभ्यः पीडा बाधाश्च कृत्स्नशः ॥
अपहन्ति नरव्याघ्र कृपां कुरु महीपते ॥ ५८ ॥
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः ॥
पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥५९ ॥
किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् ॥
प्रह्लादजननी दृष्टिर्यस्येयं तदुदीर्यताम् ॥ 5.2.27.६० ॥
॥ पुरुष उवाच ॥ ॥
त्वया दृष्टो महाकाले विख्यातोऽनरकेश्वरः ॥
आश्विनस्य चतुर्दश्यां तस्येदं फलमीदृशम् ॥ ६१ ॥
ततस्तद्गात्रसंसर्गी पवनो ह्लाददायकः ॥
पापकर्मकृतां राजन्यातना न प्रबाधते ॥ ६२ ॥
॥ राजोवाच ॥ ॥
यदि मत्सन्निधाने सा यातना न प्रबाधते ॥
ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः ॥ ६३ ॥
॥ पुरुष उवाच ॥ ॥
एहि राजेन्द्र गच्छावो निजपुण्यसमार्जितान् ॥
भुङ्क्ष्व भोगान्न यास्येतां यातनां पापकर्मणाम् ॥ ॥ ६४ ॥
॥ राजोवाच ॥ ॥
न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः ॥
यदार्त्तजन्तुं निर्वाणमानेतुमिति मे मतिः ॥ ६५ ॥
तस्मान्न तावद्यास्यामि यावदेते सुदुःखिताः ॥
मत्सन्निधानात्सुखिनो भवन्तु नरकौकसः ॥ ६६ ॥
प्राप्स्यन्ते ते यदि सुखं बहवो दुःखिते मयि ॥
किं तु प्राप्तं मया सर्वं तस्मात्त्वं व्रज मा चिरम् ॥ ६७ ॥
॥ पुरुष उवाच ॥ ॥
एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ ॥
अवश्यमस्माद्गन्तव्यं तस्मात्पार्थिव गम्यताम्॥ ६८ ॥
एतस्मिन्नन्तरे धर्मः शक्रेण सहितोब्रवीत् ॥
निमे परमधर्मज्ञ प्रीता देवगणास्तव ॥ ६९ ॥
एह्येहि पुरुषव्याघ्र कृतमेतावता प्रभो॥
सिद्धिः प्राप्ता त्वया राजल्ँलोकाश्चाप्यक्षयान्विताः ॥ 5.2.27.७० ॥
न च मन्युस्त्वया कार्यः शृणु मे वचनं विभो ॥
अवश्यं नरकस्तावद्द्रष्टव्यः सर्वराजभिः ॥ ७१ ॥
नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः ॥
विमानवरमारुह्य विमलं चाद्य गम्यताम् ॥ ७२ ॥ ॥
॥ निमिरुवाच ॥ ॥
नरके मानवा धर्म पीड्यन्तेऽत्र सहस्रशः ॥
त्राहीति वार्त्तां क्रन्दन्तो मामतो न व्रजाम्यहम् ॥ ७३ ॥
॥ इन्द्र उवाच ॥ ॥
कर्मणा नरके प्राप्तिरेषां च पापकर्मणाम् ॥
स्वर्गे त्वयापि गन्तव्यं नृप पुण्येन कर्मणा ॥ ७४ ॥
॥ राजोवाच ॥ ॥
परिजानासि धर्मज्ञ त्वं वा शक्र शचीपते ॥
विशिष्टं मम किं पुण्यं शुभं तद्वक्तुमर्हसि ॥ ७५ ॥
॥ धर्म उवाच ॥ ॥
आश्विनस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥
तस्यां त्वया महाबाहो महाकालवनोत्तमे ॥
दृष्टो देवः सुविख्यातः स्वर्गदोऽनरकेश्वरः ॥ ७६ ॥
तद्विशिष्टं च ते पुण्यं तस्य सङ्ख्या न विद्यते ॥
स्वकर्मोपार्जितं पुण्यं भुङ्क्ष्व राजन्यथासुखम् ॥
एते नारकिकाः सर्वे क्षपयन्तु स्वकर्मजाम् ॥ ॥ ७७ ॥
॥ राजोवाच ॥ ॥
कथं स्पृहां करिष्यन्ति सत्सङ्गेषु च मानवाः ॥
यदि मत्सन्निधावेषामुत्कर्षो नोपजायते ॥ ७८ ॥
तस्माद्यत्सुकृतं किञ्चिद्विशिष्टतरमस्ति वै ॥
तेन मुच्यन्तु नरकात्पापिनो यातनागताः ॥ ७९ ॥
॥ धर्म उवाच ॥ ॥
राजंस्त्वया कृतं पूर्वेऽनरकेश्वरदर्शनम् ॥
तदुत्पन्नस्य पुण्यस्य कलामेभ्यः प्रयच्छ वै ॥ 5.2.27.८० ॥
तत्पुण्यस्य प्रभावेण मोक्ष्यन्ते नरकादिमे ॥
तथा कृते ततस्तेन विमुक्ता नरकाच्च ते ॥ ८१ ॥
ततोऽब्रवीद्धर्मराजो निमिं शक्रसमन्वितः ॥
एवं श्रेष्ठतरं स्थानं त्वया प्राप्तं महीपते ॥ ८२ ॥
एतांश्च नारकान्पश्य विमुक्तान्पापकर्मणः॥
ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः ॥ ८३ ॥
विमानं चाधिरोप्यैनं स्वर्लोकमनयद्धरिः ॥
येये तत्राभवन्पापा यातनाभ्यः परिच्युताः ॥ ८४ ॥
प्रभावात्तस्य देवस्य स्वर्गलोकं गताः प्रिये ॥
अतो देवः सुविख्यातः सदेवोऽनरकेश्वरः ॥ ८५ ॥
स्तुतो देवगणैः सर्वैर्नरकादवतारकः॥
जातः स एव सुकृती कुलं तेनैव पावितम्॥८६॥
यः पश्यति नरो नित्यं देवं चानरकेश्वरम्॥
तेषां विलीयते पापं पूर्वजन्मशतोद्भवम्॥८७॥
येनुमोदन्ति देवस्य दर्शनं पर्वतात्मजे॥
तेऽपि पापविनिर्मुक्ताः प्रयान्ति मम मन्दिरे॥८८॥
समतीतं भविष्यच्च कुलानामयुतं नरः॥
मम लोकं नयत्याशु तस्य लिङ्गस्य दर्शनात्॥८९॥
शिवयोगसमायुक्ता कृष्णा या च चतुर्दशी ॥
सा प्रोक्ता वल्लभा तस्य सर्वपापप्रणाशिनी ॥ 5.2.27.९०॥
ये चायाzति नरास्तस्यां देवं चानरकेश्वरम् ॥
उपोष्य पापैर्मुच्यन्ते ते नराः शतजन्मजैः ॥ ९१ ॥
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥
तत्क्षालयति देवोसौ तिथौ तस्यां समर्चितः ॥ ९२ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
जटेश्वरस्य देवस्य शृणु माहात्म्यमुत्तमम् ॥९३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽनरकेश्वरमाहात्म्यवर्णनन्नाम सप्तविंशोऽध्यायः ॥ २७ ॥