०२६ सोमेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच ॥
विद्धि षड्विंशकं देवि देवं सोमेश्वरं परम्॥
यस्य दर्शनमात्रेण निष्कलङ्को नरो भवेत्॥१॥
अत्रिर्नाम महाभागो ब्रह्मणो मानसः सुतः॥
प्रजापतिरभूद्देवि कल्पे वाराहसञ्ज्ञके॥२॥
तस्य पुत्रोऽभवत्सोमो दक्षोथ मातृभागतः॥
सप्तविंशतिर्याः कन्या दाक्षायण्यः प्रकीर्तिताः॥३॥
सोमपत्न्यो हि मन्तव्यास्तासां श्रेष्ठा तु रोहिणी॥
तामेव भजते सोमो नेतरां इति शुश्रुम॥ ॥ ४ ॥
इतराः प्रोचुरागत्य दक्षस्याग्रे यथातथम् ॥
दक्षोऽथ स तदागत्य तमुवाच स नाकरोत् ॥ ५ ॥
यदा न वारितस्तस्थौ दक्षः कुद्धस्तदा प्रिये ॥
शशाप सोमं सङ्क्रुद्धः शीघ्रमन्तर्हितो भव ॥ ६ ॥
एवं शप्तस्तु सोमो वै तदा ह्यन्तर्हितोऽभवत् ॥
शशाप सोमो दक्षं तु भवानपि भविष्यति ॥ ॥ ७ ॥
अनेकत्वं विहायैतज्जलदेहं सनातनम् ॥
अतः प्राचेतसो दक्षो ब्रह्मपुत्रोऽपि गीयते ॥ ८ ॥
एवमन्तर्हितः सोमो गतो वै दक्षशापतः ॥
देवाश्च नागा यक्षाश्च गन्धर्वाः पितृभिः सह ॥
वैराजं ब्रह्मसदनं ब्रह्माणं समुपस्थिताः ॥ ९ ॥
तस्याग्रे कथयामासुर्नमस्कृत्य पुनःपुनः ॥
भगवन्सर्वभूतानामादिकर्त्ता स्वयम्भुवः॥5.2.26.१०॥
स्रष्टा च हव्यकव्यानां पाहि नः शरणागतान्॥
देवानां वचनं श्रुत्वा ज्ञात्वा देवः प्रजापतिः॥११॥
आश्वासयामास सुरान्सुश्लिष्टैर्वचनाम्बुभिः ॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं कर्मणः फलम् ॥ १२ ॥
शापान्तं भगवान्देवो विष्णुरेव करिष्यति ॥
एतच्छ्रुत्वा ततो देवा वाक्यं पङ्कजजन्मनः ॥
शरण्यं शरणं विष्णुमुपतस्थुर्गतव्यथाः ॥ १३ ॥
ब्रह्मणा सहिता देवि स्तुतिं चक्रुः समाहिताः ॥
नमस्ते देवदेवेश नमस्ते विश्वभावन ॥
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥ १४ ॥
नारायण जगन्नाथ देवास्त्वां शरणं गताः ॥
त्वं हि नः परमो ध्येय स्त्वं हि नः परमो गुरुः ॥ १५ ॥
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥
अन्तर्धानं गतः सोमो दक्षशापाज्जनार्द्दन ॥ १६ ॥
विना सोमेन चौषध्यो नष्टा देव महीतले ॥
तेषां तद्वचनं श्रुत्वा विष्णुर्वचनमव्रवीत् ॥ १७ ॥
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ॥
नष्टं चन्द्रमसं शीघ्रं मानयिष्याम्यसंशयम् ॥ १८ ॥
एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान् ॥
सोमं सस्मार सहसा शङ्खचक्रगदाधरः ॥ १९ ॥
यदा स्मृतो न चाभ्येति तदा क्रुद्धो जनार्दनः ॥
पुराणपुरुषो देवो ब्रह्माणमिदमव्रवीत् ॥ 5.2.26.२० ॥
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः ॥
भविष्यति पुनश्चन्द्रो मथ्यमाने महोदधौ ॥ २१ ॥
अमृतं तत्र लप्स्यध्वं रत्नानि विविधानि च ॥
तस्य तद्वचनं श्रुत्वा वासुदेवस्य पार्वति ॥ २२ ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ॥ २३ ॥
सोमार्थे च पुरा देवि तथैवासुरदानवाः ॥
एतैर्मुखमुपाश्लिष्टौ नाग राजो महेर्ष्यया ॥ २४ ॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥
अतो वै भगवान्देवो यतो नारायणस्ततः ॥ २५ ॥
शिरस्युद्यम्य नाग स्य पुनः पुनरवाक्षिपत् ॥
उदधौ मथ्यमाने वै महाञ्छब्दो बभूव ह ॥ २६ ॥
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ॥
विलयं समुपाजग्मुः शतशोथ सहस्रशः ॥ २७ ॥
तस्मिंस्तु मथिते देवि प्रयत्नात्केशवस्य च ॥
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्वलः ॥ २८ ॥
तमेव देवा मनुजाः पितरश्च यशस्विनि ॥
उपजीवन्ति वृक्षाश्च तथैवौषधयो विधुम् ॥ २९ ॥
समुत्पन्नमथो दृष्ट्वा भगवान्प्राह केशवः ॥
पालयेमाः प्रजाश्चन्द्र त्वं ज्येष्ठो जगतो भव ॥ 5.2.26.३० ॥
इत्युक्तो वासुदेवेन प्रजाः पालयितुं शशी ॥
पूर्वं सोमोपि यो नष्टः प्रविष्टो गहनं वनम् ॥ ३१ ॥
तस्याग्रे नारदः सर्वं कथयामास सत्वरम् ॥
देवर्षेर्वचनं श्रुत्वा नारदस्य महात्मनः ॥ ३२ ॥
पीडितो दक्षशापेन सोमोऽप्यन्तर्हितस्तदा ॥
जगाम शरणं देवि ब्रह्माणं परमेष्ठिनम् ॥ ३३ ॥
तत्र गत्वा यथाशापं कथयामास गद्गदः ॥
पूर्वचन्द्रवचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥ ३४ ॥
अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम् ॥
नवेनोदधिजातेन किं मया क्रियते पुनः ॥ ३५ ॥
विष्णुना च बलं दत्तमस्मै चन्द्रमसे दृढम् ॥
तस्माद्यास्यामि तत्राहं यत्र देवो जनार्दनः ॥ ३६ ॥
तं दृष्ट्वा मधुहन्तारं ब्रह्मा विष्णुमुवाच ह ॥
त्वदादेशाजगन्नाथ एष चन्द्रः कृतो मया ॥ ३७ ॥
स चायं पीडितो देव शशाङ्केन नवेन वै ॥
इत्युक्तो ब्रह्मणा देवि वासुदेवो जगत्पतिः ॥
वृत्तान्तं कथयामास ब्रह्माग्रे च पुनःपुन. ॥ ३८ ॥
ब्रह्मापि पूर्वचन्द्रार्थे विष्णुं लोकनमस्कृतम् ॥
तुष्टाव प्रणतो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥ ३९ ॥
नमः कृष्ण नमो विष्णो नमो जिष्णो नमोनमः ॥
नमो वामन गोविन्द नमोऽनन्त नमोऽच्युत ॥5.2.26.४०॥
जयस्व गोविन्द महानुभाव जयस्व विश्णो जय पद्मनाभ ॥
जयस्व सर्वाद्य गदाधरेश जयस्व विश्वेश्वर विश्वमूर्त्ते ॥ ४१ ॥
एवं स्तुतस्तदा देवि ब्रह्मणा लोककारिणा ॥
समीपस्थं समालोक्य सोमं वचनम ब्रवीत् ॥ ४२ ॥
गच्छ सोम ममादेशान्महाकालवनोत्तमे ॥
उत्तरे मुक्तिलिङ्गस्य लिङ्गं कातिकरं परम् ॥
तमाराधय यत्नेन स ते देहं प्रदास्यति ॥ ॥ ४३ ॥
इत्युक्तो वासुदेवेन ब्रह्मणा च पुनः पुनः ॥
आजगाम महादेवि महाकालवनोत्तमे ॥
लिङ्गं दृष्ट्वा च तुष्टाव स्तोत्रेणानेन सुव्रते ॥ ४४ ॥ ॥
॥ चन्द्र उवाच ॥ ॥
नमो देवाधिदेवाय त्रिनेत्राय महात्मने ॥
रक्तपिङ्गलनेत्राय जटामुकुटधारिणे ॥ ४५ ॥
भूतवेतालजुष्टाय महादेवाय शूलिने ॥
भीमाट्टहासयुक्ताय कपर्दिस्थाणवे नमः ॥ ४६ ॥
पूष्णो दन्तविनाशाय तथान्धकविनाशिने ॥
कैलासवरवासाय सर्वदेवायते नमः ॥ ॥ ४७ ॥
विकरालोर्द्ध्वकेशाय भैरवाय नमोनमः ॥
अग्निज्वालाकरालाय कलिधर्मविवासिने ॥ ४८ ॥
तथा दारुवनध्वंसकारिणे तिग्मशूलिने ॥
कृतकङ्कणभोगीन्द्रकण्ठसूत्राय शूलिने ॥ ४९ ॥
प्रचण्डदण्डहस्ताय वडवाग्निमुखाय च ॥
वेदान्तवेद्याय नमो यज्ञमूर्ते नमोनमः ॥ 5.2.26.५० ॥
दक्षयज्ञविनाशाय जगद्भयकराय च ॥
विश्वेश्वराय देवाय स्थूलसूक्ष्माय शम्भवे ॥
कपर्दिने करालाय सर्वदेवाय ते नमः ॥ ५१ ॥
एवं स्तुतस्तदा देवि चन्द्रेणान्तर्हितेन च ॥
लिङ्गरूपी महादेवस्तुष्टो वाक्यमथाब्रवीत् ॥ ५२ ॥
स्तोत्रेणानेन तुष्टोऽस्मि ब्रूहि सोम किमिच्छसि ॥
यत्तेभिलषितं सर्वं तत्कर्त्तास्मि न संशयः ॥ ५३ ॥
॥ सोम उवाच ॥ ॥
यदि त्वहमनुग्राह्यो यदि तुष्टोऽसि मे प्रभो ॥
कान्त्या दीप्त्या तथा मूर्त्या तथा रूपेण च प्रभो॥ ॥ ५४ ॥
स्वपदं कर्त्तुमिच्छामि त्वत्प्रसादान्महेश्वर ॥
एवमस्त्विति लिङ्गेन तत्क्षणाद्रजनीचर ॥ ५५ ॥
द्विजराजेन तत्प्राप्तं लिङ्गस्यास्य प्रसादतः ॥
सोमेनाराधितो यस्माद्देवदेवो महेश्वरि ॥ ५६ ॥
तेन सोमेश्वरोनाम विख्यातो भुवनत्रये ॥
येऽर्चयन्ति महादेवि देवं सोमेश्वरम्परम्॥ ५७ ॥
कृत पुण्या नरा मर्त्यास्ते यान्ति परमं पदम् ॥
यः पश्यति नरो भक्त्या लिङ्गं सोमेश्वरं प्रिये ॥ ५८ ॥
विमुक्तो जन्मदुःखाद्यैर्लीयते मयि मानवः ॥
ते नराः पशवो लोके किं तेषां जीविते फलम् ॥ ५९ ॥
यैश्च सोमेश्वरो देवो न दृष्टो न च पूजितः ॥
संसारेऽस्मिन्महाघोरे जन्मरोगभयाकुले ॥ 5.2.26.६० ॥
एकः सोमेश्वरः पूज्यः कुष्ठरोगविनाशनः ॥
स एव सुकृती लोके कुलं तेनाभ्यलङ्कृतम् ॥ ६१ ॥
आधारः सर्वलोकानां येन सोमेश्वरो ऽर्चितः ॥
सकृदभ्यर्च्य सोमेशं बिल्वपत्रेण मानवः ॥
मुक्तो भोगी निरातङ्को मम लोके वसेच्चिरम् ॥ ६२ ॥
काञ्चनैः कुसुमैर्देवि लिङ्गं सोमेश्वरं प्रिये ॥
पूजयन्ति नरा भक्त्या ते यान्ति परमां गतिम् ॥ ६३ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सोमेश्वरस्य देवस्य शृणुष्वानरकेश्वरम् ॥ ६४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये सोमेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥